________________
३६२
न्यायागमानुसारिणीवृत्त्यलङ्कतम् [चतुर्थे विधिनियमारे ___ यदपि च रूपादि तदप्यात्मन एव तत्त्वम् , उपयोगात्मकत्वात् तदव्यतिरेकलभ्यरूपत्वात्, मत्यादिवत् । रूपादीनां देशकालादिभेदेन अगृह्यमाणत्वाद
परिणयमतीत्यादिना यावदनादित्वमेकत्वमिति परिणाम्यपरिणामकयोरनियतदेशकालभावादिरूपतां दर्शयति तथाभवनसामोद् गतिजात्यादिना पुद्गलानिति, उपयोगलक्षण आत्मा गतिजातिशरीरा5ङ्गोपाङ्गाद्यनुभवनोपयोगात्मतया तान् पुद्गलान् परिणमयतीति आत्मनः परिणामकत्वं तेषां परिणाम्यत्वम् । पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेनेति मिथ्यादर्शनाविरतिप्रमादकषाययोगसुखदुःखोदयक्षयोपशमादिभावेन परिणमयन्ति, तद्भावेनात्मा परिणम्यते । स च मिथ्यादर्शनोदयादिभावो भवभ्रान्तिहेतुः, तद्वशस्य संसरणात् । एतस्य कर्मकर्मिद्वयस्यान्योन्यपरिणामकत्वादनादित्वमेकत्वमेव, एकत्वशब्देन पर्यायभूतेन तत्त्वं व्याचष्टे संसारस्य कर्मकर्मिसम्बन्धजत्वात् तस्य च सम्बन्धस्यानादित्वात् । यथोक्तम् - पुचि भंते ! अंडए 10 पच्छा कुकुडी ? इत्यादि प्रश्नः । व्याकरणम् - रोहा ! पुंबि पि एते पच्छा वि एते, दो वि एते सासता भावा, अणाणुपुल्सी एसा रोहा! [भगवतीसू० १॥६॥५३] इत्यादि । मिथ्यादर्शनग्रहणं सर्वकर्मबन्धाधारभूतत्वाच्छेषस्यापि सर्वस्य सूचनम् ।
___ आह - यदुक्तं त्वया कर्पूरोदकाद्यचेतनानां परिणाम्यपरिणामकभावादेकत्वं चेतनाचेतनयोश्च जीवकर्मणोरिति तद्युक्तम् । किन्तु 'रूपादि उपयोगीभवदात्मा भवति आत्मापि रूपादीभवति तत्परिणामात्' 15 इत्येतन्नोपपद्यते स्वभावाविनाशादिति । अत्रोच्यते - यदपि चेत्यादि यावद् मत्यादिवदिति । यदपि च २५९.२ बहिर्भिन्नं विषयजातमुपयोगनिमित्तभूतं रूपादि तदप्यात्मन एव तत्त्वम् । रूपादितत्त्वमात्मानं च वक्ष्यामः ।
कुतो रूपाद्यपि आत्मन एव तत्त्वमिति चेत् , उच्यते - उपयोगात्मकत्वात् , मत्यादिचक्षुर्दर्शनादिभेदप्रभेद उपयोग आत्माऽस्य रूपादेविषयस्य सोऽयं तदात्मकः । कथं रूपादेविषयस्योपयोगात्मकत्वमिति चेत्, उच्यते - तदव्यतिरेकलभ्यरूपत्वात् , रूपं रसो गन्ध इत्यादिविषयस्वरूपाकारेणोपयोगेन अव्यतिरिक्त 20 एकीभूत एवोपलभ्यते रूपादिविषयो नान्यथा, अन्यथा विषयस्वरूपानवधारणात् । तस्मात् तदनतिरेक
लभ्यरूपत्वात् रूपादिविषय उपयोगात्मकः । यद् यदुपयोगात्मकं तत् तदात्मन एव तत्त्वम् , यथा मत्यादिचक्षुर्दर्शनादिभेद उपयोग इति । |
__ स्यान्मतम् - रूपादीनां देशभेदेन युगपदवस्थायिनां रूपं रसो गन्ध इत्यादयः परस्परतो देशभिन्ना इति गृह्यन्ते । तस्य देशस्य परमाणुशो भेदे न रूपं रसो गन्धो वोपलभ्यते, देशसम्बन्धेन तूंपलभ्यमाना 25 भवन्ति । देशतोऽत्यन्तं भेदग्रहे तेषामभवनम् । तथा क्षणभेदे प्रथमक्षणेऽन्यद् रूपं द्वितीयक्षणेऽन्यदिति गृह्यते चेद् न रूपं नाम किञ्चित् स्यात् 'तनिष्ठस्य कालस्य रूपग्रहणाश्रयसम्बन्धाभावादित्यभवनात्मका
१°णम्य प्र०॥ २°णमक प्र०॥ ३ पुदिव एते य० । पुपि एते भा० । दृश्यतां पृ० १८६ पं० २१, टि० ६॥ ४ कर्पूरादेकाद्य प्र० ॥ ५ (°त्मीभवति ? )॥ ६ °त्मनं च भा० । (°त्मनश्च ? ) ॥ ७ विकस्य भा० । विकल्प य० ॥ ८°त्मकेणवि चेत् प्र०॥ ९ दिवि य० ॥ १० अन्यथा भा० प्रतौ नास्ति ॥ ११ इतः पूर्व कश्चन पाठोऽत्र त्रुटित इति भाति ॥ १२ गन्धश्चो' य० ॥ १३ रूपल प्र०॥ १४ "त्यन्तभेद भा०॥ १५ तन्निष्टस्य प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org