________________
३६१
आत्मकर्मणोरैक्यप्रतिपादनम्] द्वादशारं नयचक्रम् ।
यथा चात्र परिणाम्यपरिणामकभावादेकत्वं तथात्मकर्मणोरपि । आत्मा परिणमयति तथाभवनसामर्थ्याद् गतिजात्यादिना पुद्गलान् पुद्गलाश्चात्मानं मिथ्यादर्शनादित्वेन, अन्योन्यपरिणामकत्वादनादित्वमेकत्वम् ।
एकैकस्येति । सर्वशुभाशुभेष्टानिष्टकारणत्वादिरूपो हि द्रव्यभवनपरमार्थः, एवं हि भवदेव भवद्रव्यं परमार्थतो भवति, नान्यथा । यथोक्तम् - ऐगमेगस्स णं भंते जीवस्स एगमेगे जीवे मातित्ताए इत्यादिप्रश्नः यावत् । आजातपुव्वे । व्याकरणम् – गोतम ! असई अदुवा अणंतखुत्तो, एवं सव्वजीवाण वि एगजीवो, एगजीवस्स वि सव्वजीवा, तथा सव्वपोग्गला एगजीवस्स सयजीवाणं च आहारत्तार उसासत्ताए भासताए सरीरत्ताए इंदियत्ताए मणत्ताए आणापाणत्तार [ ] इत्याद्यार्षे ऐक्यापत्तौ ज्ञापकं सर्वज्ञोक्तत्वात्।
___ अत्रानुमानम् - तदेव तदिति प्रतिज्ञा मातृत्वादिभावेन यद् भवति शरीरादिभावेन वा तदेकैकं 10 सर्वरूपमित्यर्थः, तत्परमार्थत्वात् तद्वत्, एतदुक्तं भवति - तत् तत्स्वरूपापन्नभवनपरमार्थत्वात् तत् २५८-२ तत्स्वरूपवत् । एवमितरमपि पक्षीकृत्य साध्यम् । यत्स्वरूपमिदं भवति कर्पूरं शरीरमन्नादि वा तत् तदेवेत्यर्थः, यच्च यदेव न भवति [ न तत् ] तत्परमार्थं, यथा खपुष्पं खरविषाणं वा, भवन्मत्यान्यत् तत् तदन्यस्वरूपापत्तेः, स्यादहेयस्यान्तरङ्गस्य तत्त्वम् स्याद् बहिरङ्गस्य चान्यत्वमिति तदेव ह्यन्यत्वाभिमतमस्मा. भिस्तस्यैव तद्रूप[व]मिति साध्यते । तस्मान्नास्त्यन्यथात्वं न चासिद्धं तत्परमार्थत्वमिति । अभ्युपेत्यापि 15 अन्यथात्वेऽपि तदनतिरेकात्मकत्वात् 'तदेव तत्' इति वर्तते । तस्मात् तस्य वानतिरेकः, स आत्मास्येति तदनतिरेकात्मकम् , यद् यदनतिरेकात्मकमन्यथात्वेऽपि तदेव तद् दृश्यते । किमिव ? तन्तुयज्ञोपवीतवत् , तन्त्वनतिरेकात्मकत्वाद् यज्ञोपवीतस्य वलितस्यान्यथात्वेऽपि तन्त्वात्मकत्वमेव तथा सुखादिषु भावनीयम् , तदनतिरेकात्मकत्वं च भावितार्थमेव ते च्चेव ते पोग्गला सुन्भिगंधत्ताए [ज्ञाताधर्म• ] इत्यादिना।
___ यथा चात्रेत्यादि । एवं च तदेव तदिति सर्वं सर्वस्य बाह्यस्य परिणीम्यस्य परिणमयितुश्च तत्त्वम् । योऽधिकगुणस्य ताद्गुण्यं प्रतिपद्यते स परिणामी योऽधिकगुणो न्यूनगुणत्वमापादयति स परिणामक इत्युच्यते व्यवहारतः । निश्चयतस्तु परिणामिपरिणामकावाविर्भावतिरोभावमात्रभेदौ स्वत एव इत्यस्य नयस्य दर्शनम् , परिणामश्च द्रव्यमात्रम् , द्रव्यं च भव्ये [पा० ५।३।१०४ ], यद् यद् भवति स परमार्थोऽस्येति, तदप्येवं भावितं क्षीरादेर्यावच्च घटादेस्तावद् बोद्धव्यम् । तथाधिकृतस्याध्यात्मिकस्य कर्म-25 कर्मिसंज्ञस्य शरीरशरीरिसंज्ञस्य वा भावनार्थमुपनयति - तथात्मकर्मणोरपीति । तद् व्याचष्टे-आत्मा २५९-१
20
१ भवद्रव्यं प्र०। ( तव द्रव्यं ? ) ॥ २ दृश्यतां पृ० १८६ टि० १२॥ ३ जसास य० । जस' भा० । ( रसत्ताए ? ) ॥ ४ चा तर्दै भा० । च तदै य० ॥ ५ रूपापापात्तम भा० । रूपात्तभ य० । (रूपापत्तेर्भ ?)॥ ६ तत्तत्तदेवे भा०॥4॥ एतचिह्नान्तर्गतः पाठो भा० प्रतौ नास्ति ॥ ७'मार्थतत्वमिति प्र० ॥ ८°त्मकत्वाद्यनति य० ॥ ९ दृश्यतां पृ० २७८ टि० १ । पृ० ३५९ पं० २६ ॥ १० °णम्यस्य भा० ॥ ११ "धिगुणस्य य० ॥ १२ योधिगुणो प्र०॥ १३ तश्च य० ॥ १४ तथेदं भावितं भा० ॥
नय० ४६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org