________________
२५७-२.
३६०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे ह्ययं पुद्गलकायः । भोक्तभोग्यात्मकविपरिणामवृत्तित्वात् , अत आहारवच्छुभाशुभादिधर्मतास्य भोक्तृत्वाद् भोग्यत्वात् । __नन्वन्नोदकशुभाशुभते प्रतिविशिष्टापशदयोगकृते, न, एकैकस्य सर्वरूपद्रव्यभवनपरमार्थत्वात् तदेव तत्, तत्परमार्थत्वात् , तद्वत् । अन्यथात्वेऽपि तद5 नतिरेकात्मकत्वात् , तन्तुयज्ञोपवीतवत् । प्रमाणकालाकालाहारितमिति स्वस्थसर्पदष्टाहारितविषवद्वा तथैक एव ह्ययं पुद्गलकायः, पुद्गल उक्तनिरुक्तिकः, कायः शरीरं चितत्वाद् रोगादिदुःखनिवासत्वाद्वा सर्वोऽपि बाह्याभ्यन्तरो मूर्तद्रव्यसङ्घातः कायः रूपादिसङ्घातत्वात् परमाणोरपि । पुद्गलस्य पुद्गलस्येव वा काय इति विग्रह-समासौ । अथवा पृथक् परिकल्पनयानया किम् ? इन्द्रियप्रत्यक्षाभिमतः शरीराख्यः पुद्गलकायः स्वसंवेद्यज्ञानात्मकः क्रियादिलिङ्गानुमित 10 आत्मकायो वा सोऽयमेक एव, न ह्यत्र काचिद् भेदबुद्धिः कार्या बन्धपरिणामैक्यापत्तेरेतन्नयदर्शनात् । ''एक एव शुभाशुभौदिधर्मा' इति साध्यस्य कायस्य वक्ष्यमाणाहारदृष्टान्तसाम्यमापाद्य हेतुत्वेन तत्साधर्म्यमाह-भोक्तृभोग्यात्मकविपरिणामवृत्तित्वादिति । यदि पुरुषकारवादिमतेन भोक्ता, अथापि कर्मवादिमतेन भोग्यः, तस्मात् कायो भोक्तृभोग्यात्मकः, तस्य विपरिणामो वृत्तिरस्येति कायः सम्बध्यते
भोग्यस्य भोक्तुर्वा विपरिणाम इति, शुक्रशोणितं जनन्याहृतान्नरसादि चाद्युत्तरकारणमस्य शरीरस्य तदुभयं 15 भोक्तृ भोग्यं च अन्योन्यभावापत्तेः, तथा चतुर्विधोऽप्याहारोऽशनादिराहाहार्यभावाद् भोक्तृ भोग्यं च, तच्च शुभाशुभेष्टानिष्टकारणमेवेति, कायचैतन्ययोवैक्यपरिणामापन्नस्यैव भोक्तृभोग्यपरिणामवृत्तित्वं सिद्धम् , अत आहारवच्छुभाशुभादिधर्मतास्येति, यथा आहारः शुभश्चाशुभश्च दृश्यते संस्कृतासंस्कृतः, संस्कृतोऽप्यशुभ एव संस्क्रियमाणान्नाद्यशुभत्वात्, संस्कारकाभिमतकर्पूरादेरपि कालान्तरे दौर्गन्ध्यादिदर्शनात्, सर्वपुद्गलानां प्रागुक्तविधिना शुभाशुभत्ववत् पुद्गलत्वादाहारः शुभोऽशुभश्चेति तथा काय इति । अथवा चेतना20चेतनयोरात्मशरीरयोरैक्यपरिणामात् तदेवभोक्तृ भोग्यं चेत्यनेनैवाहारदृष्टान्तेन सम्बद्धं प्रत्येकमपि साधयत्येतद्
धर्मद्वयमित्यत आह-भोक्तृत्वाद् भोग्यत्वादिति । एवं कर्तृत्वात् कर्मत्वादाहारवच्छभोऽशुभश्च काय २५८-१ इति । अथवा सुखोऽपि दुःखोऽपि स एव कायः, सुखस्तावद् दुःखत्वादाहारवत्, दुःखः सुखत्वादा.
हारवत् , यत् परं प्रत्यसिद्धं तदितरेण सिद्धेन धर्मान्तरेण साध्यम् । एवमिष्टोऽप्यनिष्टत्वात्, अनिष्टोsपीष्टत्वात् आहारवदेव । 25. इतर आह-नन्वन्नोदकशुभाशुभते प्रतिविशिष्टापंशदयोगकृते । प्रतिविशिष्टकर्पूरायेकान्त
शुभद्रव्ययोगे सति जलादि अशुभगन्धमपि सत् सुरभीक्रियते अधिकगुणाभिभवभावनया, एवमशुच्य. पशदद्रव्ययोगे सति तदुत्कृष्टगन्धाभिभवात् तद्भावनया कर्पूराद्यपि तद्गन्धीभवदुपलभ्यते । अथवा तदेव विनष्टं शुभतडाकादिगतमल्पं शुष्यच्छुष्यत् कर्पूरगन्धं भवदुपलभ्यते, नालिकेरफलानि सुरभीणि सन्ति
पूतीभवन्ति दृश्यन्ते । तस्मादुभयधर्मता सर्वद्रव्याणाम् , तथा कायोऽपीति । एतच्च न, एकैकस्य सर्व30 रूपद्रव्यभवनपरमार्थत्वात् । वीप्सया व्याप्तिं सर्वरूपद्रव्यभवनस्य भावकस्य भाव्यस्य च दर्शयति ...१ कालहा प्र० ॥ २ किंद्रिय प्र० ॥ ३°क्षमतः भा। °क्षमभिमतः य० ॥ ४ भातिधर्मा प्र०॥ ५ ( °विपरि? )॥ ६ °रमाभि प्र० । (°राभि ? ) ॥ ७ पसद य० ॥ ८ वीप्साया प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org