________________
कर्मपुरुषकारकारणैकान्तयोः खण्डनम् ] द्वादशारं नयचक्रम् ।
३५९ पत्त्यप्रतिपत्त्योः सर्वाण्येतानि कर्मण एवेति चेत्, अथ तदादिकर्म कुतः ? ब्रूयास्त्वम्- ओं पुरुषादेवेति । कर्मत एव न, व्रीहिवैधhणाकर्तृकत्वात्, आत्मादिवत्, नोत्क्षेपणवत्।
कथमसम्बद्धम् ? यस्मान्न शुभमशुभं वा रूपादि इष्टकारणमनिष्टकारणं वा एकान्तेन किञ्चिदस्ति । तदेव शुभमशुभमिष्टकारणमनिष्टकारणं च । एक एव ।
मानसक्लेशफलत्वात् तस्य, इति चेदाशङ्कायाम् , एवं चेन्मन्यसे । ततस्त्वमिदमसि तावत् प्रष्टव्यः-अथ तदादिकर्म कुतः ? इति। मम तावदभिप्रायः-कृतकत्वात् कर्मणः पुरुषादेव तदिति । तन्नेच्छता त्वया वक्तव्यम् -कुतस्तदादिकर्म यत एतत् सर्वं प्रतिपत्त्यप्रतिपत्तिक्लेशादि ? इति त्वदभिप्रायाकर्षणार्थः प्रश्नः, किं तदपि कर्मण एव उत पुरुषात् ? इति । ब्रूयास्त्वम्-ओं पुरुषादेवेति, एवं नामास्तु, को दोषः गत्यन्तराभावात् , 'कर्मत एव' इत्यभिप्रायः स्यादित्यत्र ब्रूमः-न, व्रीहिवैधयेणाकर्तृकत्वात् , 10 व्रीहेरेप्यावर्तकत्वात् कर्तृत्वमुपयाति, नासावतो व्रीहिरकृतकः, अकर्तृकत्वात् , ततश्चाक्रियमाणत्वान्नोपपद्यते कर्मणः कर्मत्वं तस्यादिकर्मणः । किमिव ? आत्मादिवत् , यथा आत्माकाशकालदिगादीनि न केनचित् क्रियन्त इत्यकर्माणि तथा आदिकर्मापि स्यात् । नोत्क्षेपणवदिति वैधर्म्यदर्शनम् , यथा उत्क्षेपणं कर्म तद्वयतिरिक्तेनोत्क्षेत्रा विना न भवति तथेदमिति ।
एवं पुरुषकारवादिना कर्मवादी दूषितः, कर्मवादिना च प्राक् पुरुषकारवादी । तस्माद् यदुक्तम् 15 'ऐवं च कृत्वा तदपि सर्वमसम्बद्धं यत् कर्मकारणैकान्तिन आहुः, यच्च पुरुषकारकारणैकान्तिन आहुस्तदपि सर्वमसम्बद्धं परस्परदूषितत्वात्' इति तदुभयमिदानी नैकट्येनाप्यसम्बद्धमिति प्रतिपादयितुकामः प्रश्नयति-कथमसम्बद्धमिति परवचनेन स्ववचनेन चैकत्वात् तयोः पृथक् कर्मपुरुषकाराभावादेवासम्बद्धमिति तत्प्रतिपादयिष्यन्नाह-यस्माद् न शुभमशुभं वेत्यादि यावत् काय इति । अयं तावद् दृश्यमानः कायः पुरुषो वास्तु यत्तेऽभिरुचितम् , न मे कश्चिदत्र पक्षपातः । तच्च यस्माद् न किञ्चिदत्र शुभमेवा- 20 शुभमेव वा बाह्यमपि कायाद् भिन्नमभिमतं रूपादि इष्टस्य सुखस्य कारणं चित्र-मयूर-स्रक्-चन्दन-२५७-१ भ्रमररुतादि अनिष्टस्य वा दुःखस्यातिविवर्णहुण्डसंस्थानाकारकण्टकशिवारुतादि। सर्वमप्येतदिष्टकारणमप्यनिष्टकारणमपि शुभमप्यशुभमपि इति गृहाण द्रव्यक्षेत्रकालभावपुरुषान्तरसंयोगविशेषाश्रयपरिणामविशेषापत्तेः सुरभि-मधुर-सुखस्पर्श-सुरूप-सुशब्देतरभावमुपलभ्यते अभक्षितभक्षितमोदकवत् पक्कापक्काम्रफलवत् पद्मकेसरनालवत् जाताजातविपन्नाविपन्नसुरादिवत् स्वस्थास्वस्थस्त्रीपुरुषगीतरुतादिवत् । यथोक्त- 25 मा-तेञ्चेव पोग्गला सुब्भिगंधत्ताए परिणमंति ते चेव ते पोग्गला दुब्भिगंधत्ताए परिणमंति [ज्ञाताधर्म• ] इत्यादि । तस्माद् न शुभमशुभं वैकान्तेन किश्चिदस्ति भिन्नजाति । किं तर्हि ? [ तदेव शुभम् ] तदेवाशुभम् , तत एव च इष्टकारणमनिष्टकारणं च, यथा त्रिदोषघ्नमोदकादि प्रमाणा
१ रस्याव प्र० । दृश्यतां पृ० ३५७ पं० ६ ॥ २ तमोवातो प्र० ॥ ३ दृश्यतां पृ० ३५२ पं० ४ ॥ ४ दृश्यतां पृ० ३५७ पं० ३ ॥ ५ परस्य दूषि य० । परदूषि भा० ६ पादितु प्र० ॥ ७ °रततादि प्र०॥ ८°नकार' प्र.॥ ९ दृश्यतां पृ. २७८ टि. १॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org