________________
३५८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे न हि स क्रियमाणः, कर्मणोऽस्वतन्त्रत्वे सति अलब्धात्मवृत्तित्वादभवनमाभूतदेवदत्तवत्।
शास्त्रनिराकरणमेवं त्वदुपदेशादिक्रियानिराकरणं च, कर्मप्रवृत्तिमात्रत्वात् तत्प्रतिपत्त्यप्रतिपत्त्योः। 5 कर्मप्रवृत्तिमात्रत्वात् तथा शास्त्रार्थस्य अस्मदुपदेशादिक्रियाणां च प्रति
15
न हि स क्रियमाण इत्यादि यावदाभूतदेवदत्तवदिति तदेव भावयति । तस्याः कर्मशक्तेरस्वतन्त्रत्वमलब्धात्मवृत्तित्वात् । अस्वातत्र्याञ्च कुतो भवनम् ? दृष्टान्तः-आभूतदेवदत्तो गर्भोपक्रमावस्थायां कार्या२५६-१ यामलब्धात्मवृत्तित्वादस्वतन्त्रः अस्वतन्त्रत्वादकर्ता, अकर्तृत्वाच्च न भवति कार्यावस्थाव्यतिरेकेण यथा देव
दत्तः तथा कार्यावस्थायां कर्मापि क्रियमाणं न भवेत् , अनिष्टं चैतत् त्वयापि । तस्मात् कर्माभवति, तच्च 10 पृथग्भूतपुरुषभवनाहते न भवतीत्यस्ति पुरुषः ।
किञ्चान्यत् , पुरुषकारप्रत्याख्याने सर्वशास्त्रवैयर्थ्यप्रसङ्गः । कथम् ? यथाक्रमं हितप्राप्त्यहितपरिहारावर्थों सर्वशास्त्राणाम् , ताभ्यां च हिताहितप्राप्तिपरिहारार्थाभ्यां निरुक्तीकृतसत्यत्वानि प्रमाणान्तरसंवादेन चिकित्सितादीनि शास्त्राणि, यथा
कंटुकः कटुकः पाके वीर्योष्णश्चित्रको मतः । तद्वद् दन्ती, प्रभावात् तु विरेचयति सा नरम् ॥ [चरकसं० १।२६।६८ ]
नागरातिविषामुस्ताक्वाथः स्यादामपाचनः ॥ [ चरकसं० ६।१५।९८] इत्यादीनि पुरुषतक्रिययोरभावे कर्मकारणैकान्ते निराकृतानि स्युरित्थम् । न चेष्यते तन्निराकरणं कस्यचित् प्रमाणान्तरसंवादिनः शास्त्रस्य प्रामाण्यदर्शनात् । त्वदुपदेशादिक्रियाणां च दृष्टार्थानां निरा
करणम् एवमिति वर्तते, कर्मकारणैकान्ते पुनः पुरुषस्य स्वतत्रस्य तक्रियायाश्चाभावे परप्रतिपादनार्थं 20 तच्छक्तियुक्तशब्दोच्चारणक्रिया न स्यात् कर्मत एव प्रवृत्तेः । आदिग्रहणादोदनस्य मुखसंयोजनादिक्रियाश्च
न स्युः, कर्मप्रवृत्तिमात्रत्वात् तत्प्रतिपत्त्यप्रतिपत्त्योः , त्वदुपदेशीर्थप्रतिपत्तिः कर्मत एव परस्य, स प्रतिपद्यते विनाप्युपदेशेन, न प्रतिपद्यते वा सत्यप्युपदेशे।
कर्मप्रवृत्तिमात्रत्वादित्यादि यावत् कर्मण एवेति चेत् । स्यान्मतम्-यदुच्यते शास्त्रनिरा___ करणमेवं त्वदुपदेशादिनिराकरणं च कर्मणोऽस्वतन्त्रत्वे सत्यलब्धात्मवृत्तित्वादाभूतदेवदत्तवदभवनम् , 25 निर्विवादकृतकत्वात् कर्तुरेव भावस्तच्छक्तेः, व्रीहेरप्यावर्तकत्वात् स्वरूपभेदात् पुरुष एव भवति,
इत्यादि सर्वं नोपपद्यते, 'कर्मत एव भवति' इत्युपपद्यते कर्मप्रवृत्तिमात्रत्वात् तथा शास्त्रार्थस्या२५६२ स्मदुपदेशादिक्रियाणां च प्रतिपत्त्यप्रतिपत्त्योः कर्मप्रवृत्तिमात्रत्वात् प्राज्ञपुरुषप्रतिपत्तिवद् बलीवर्दाद्यप्रतिपत्तिवञ्च । तस्मात् सर्वाग्येतानि कर्मण एव हेतोर्भवन्ति पूर्वोक्तन्यायवञ्चिन्ताव्यायामादिशारीर
१ दृश्यतां पं० २४ ॥ २ दृश्यतां पं० २३ ॥ ३ शक्त्येस्व भा० । 'शक्तेः स्व य० ॥ ४ °त्मक प्र०॥ ५० र्तृकत्वाच्च प्र०॥ ६ दृश्यतां पृ० २२५ टि० ५॥ ७ तत्प्रतिपत्त्योः प्र० ॥ ८°श्यार्थ भा० ॥ ९°पद्य विना प्र० ॥ १० दृश्यतां पं० ३ ॥ ११ तकात् प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org