________________
पुरुषकारकारणैकान्तवादिमतनिरूपणम् ] द्वादशारं नयचक्रम् । द्रव्यं क्रियते, कर्मपुरुषेणैव कर्मपुरुषः क्रियते, यथा व्रीहिणैव व्रीहिः क्रियते, कार्येणैव बीजव्रीहिणाङ्कुरव्रीहिः।
यचापि पुरुषकारकारणैकान्तिन आहुस्तदपि सर्वमसम्बद्धम् । त इत्थमाहुःएवंवादिनस्ते पुनः कार्यलक्षणत्वात् कर्मणोऽक्षरार्थाच कर्मव्यतिरिक्तः कर्ता अस्ति, घटस्येव कुलालः।
ननु कर्मणैव करिष्यते । ननु सुदूरमपि गत्वा ब्रीहेरप्यावर्तकत्वात् स्वरूपभेदादक्षरार्थाच निर्विवादकृतकत्वात् कर्मणः कर्तुरेव भावः तच्छक्तेः।
इत्ययं विशेषोऽवधार्यते । तद्विग्रहं दर्शयति-द्रयते गम्यत इत्यादि । तदिदानीं निरूप्यते-भोग्येन कर्मपुरुषेण तेन द्रव्यं क्रियते । किमुक्तं भवति ? कर्मपुरुषेणैव कर्मपुरुषः क्रियत इत्युक्तं भवति । तत्र दृष्टान्तः-यथा व्रीहिणैव व्रीहिः क्रियत इति । कार्येणैव बीजव्रीहिणाङ्कुरव्रीहिरिति तद्व्याख्या, 10 एवं तावदवधारणेन कों निराकृतः, कमैकान्तवाद उपपादितः, चेतनाचेतनैक्यात् सर्वसर्वात्मकत्वाच्चायुक्त ईश्वरोऽन्यो हेतुरिति चेति ।।
यच्चापीत्यादि । न केवलं कर्तृसाधन एव दोषः, किं तर्हि ? कमैकान्तवादोऽप्ययुक्तः। तत्प्रदर्शनार्थमाह-एवंवादिनस्ते पुनः कार्यलक्षणत्वात् कर्मणः, कार्य कर्म, यत् क्रियते तत् कर्म, कर्तुरीप्सिततमं कर्म [पा० १।४। ४९] इति लक्षणादक्षरार्थाच्चानुमेयः कर्ता । तस्मात् कर्मणोऽन्यं कर्तारं 15 कर्मव्यतिरिक्तमन्तरेण कर्माभावाद् घटस्येव कुलॉलोऽवश्यैष्यः कर्ता । प्रयोगश्च-स्वतोव्यतिरिक्तचेतन- . कर्तृकं त्वदिष्टं कर्म, कार्यत्वात् क्रियमाणत्वात् , घटवदिति ।
अनोत्तरं परः ननु कर्मणैव करिष्यत इति स्वत एव कर्मणा कर्म क्रियते न तव्यतिरिक्तेन कāत्युक्तं प्राग् दृष्टान्ते व्रीहिणैव व्रीहिः कार्येण बीजव्रीहिणा कार्योऽङ्कुरव्रीहिः क्रियत इत्युक्तं मयेति २५५-२ स्मारयति । इतर आह-ननु सुदरमपि गत्वेत्यादि, विचार्य विचार्याप्यात्मव्यतिरिक्तपुरुषाविनाभावित्वात् 20 कर्मणस्त्वयाप्येतदभ्युपगन्तव्यं कर्मवादिना-कर्मव्यतिरिक्तः कर्ता पुरुषोऽस्तीति । कस्मात् ? ब्रीहेरप्यावर्तकत्वात् , अस्यापि व्रीहिदृष्टान्तस्य क्षित्युदकाकाशवाताङराद्यावृत्तिरूपत्वात् तेषां च स्वरूपभेदात् स्वतःपृथग्भूतकविनाभूतं कर्म सिध्यति अतो विपर्ययसाधनत्वमिति । किञ्चान्यत् , अक्षरार्थाच्च, 'क्रियत इति कर्म' कर्तुरीप्सिततमं कर्म [पा० १।४।४९ ] इति कर्मशब्दाक्षरार्थः । ततस्तस्य कृतकत्वं निर्विवादम् , तस्माच्च निर्विवादकृतकत्वात् कर्मणः कर्तुरेव भावः स्वतन्त्रस्य, पुरुष एव भवति, कतुरेव भावः 25 सर्वस्येति पञ्चमीनिर्देशाद् वा पुरुषादेव सर्वं भवति कारणात् । एवं च त्वदुक्तहेतोरेव कर्मव्यतिरिक्तपुरुषसिद्धेः कर्मणश्च तद्व्यतिरिक्तस्य सिद्धेरावर्तकवैधयेण कर्मणः कृतकत्वं कर्थान्तरभूतस्यावधारणं च युक्तम् । कुतः ? तच्छक्तः, तस्मादेव हि कर्तुः पुरुषात् कर्मणः कृतकत्वशक्तिः, कर्तुर्वा पुरुषस्य करणशक्तिः, न व्रीहिणैव व्रीहिदावर्तकत्वेनेति ।
१ दृश्यतां पं० १९, पृ. ३६५ पं० १३॥ २ दृश्यता पृ० ३५९ पं० १७॥ ३ दृश्यतां पृ० ३५८ पं० २४ ४ सर्वासर्वात्म भा० ॥ ५ लोवास्येष्यः प्र०॥ ६ दृश्यतां पं० १॥ ७°कर्तृवि य० ॥ ८°दकत्वात् प्र०॥ ९ कर्व्यर्थान्तर भा० । कत्रव्यार्थान्तर य० । (कर्तुर्वार्थान्तर?)॥ १० वदवर्त प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org