________________
३५६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे अथैतमधर्मफलं नेच्छसि न तर्हि दुःखमधर्मफलमिति प्राप्तम् , तत्कर्मणः प्राणातिपातादेर्धर्मफलप्राप्तिरिष्टप्राप्तिरिति प्राप्तम् , धर्माधर्मफलविपर्ययात् । पुरुषकारनैरर्थक्यं च ।
___ स च यद्यहेतुको मुक्तानामपि स्यात् । सहेतुश्चेत् कर्मण एवाचेतनात्, युक्ति5क्षमहेत्वन्तराभावात् । ___यदा च पुरुषस्य प्रवृत्तौ नास्ति कर्तृत्वं तदा द्रवतीति द्रव्यं कर्तृसाधनं न भवति। कर्मपरिग्रहविशेषस्तु द्रव्यं द्रूयते गम्यते इति । भोग्येन कर्मपुरुषेण
__ अथेत्यादि । अथैतं पुरुषकारसङ्केशंमधर्मफलं नेच्छसि प्रज्ञोत्साहयुक्तस्य प्रशस्तत्वेनेष्टत्वाल्लोके ततो न तर्हि दुःखमधर्मफलमिति प्राप्त शिरोरोगादि, क्लेशत्वात् , नयोद्योगपुरुषकारवत् । यथोक्तम्10 अनर्थपाण्डित्यमधीत्य यन्त्रितः सुतेषु दारेषु च नित्यशङ्कितः। २५४-२ निशासु जागर्ति हिनस्ति बान्धवान् नमोऽस्तु राज्याय घरं दरिद्रता ॥ [ ] इति ।
अथ प्रसिद्धिविरोधदोषभयाद् दुःखमधर्मफलमिति त्वयानुज्ञायते तत्सार्चिव्यक्रियायाश्च हिंसादेर्दुःखसाधनतां गतत्वात् तत्कर्मणो हेतोः प्राणातिपातादेर्धर्मफलप्राप्तिः, कासौ ? इष्टशरीरेन्द्रियविषयसुख
सम्यग्ज्ञानारोग्यादिप्राप्तिः इत्येतत् प्राप्तम् ; शुभाशुभैयोरिष्टानिष्टविपर्ययफलाभ्युपगमात् 'धर्माद् नयोद्योगौ 15 दुःखं वा' इत्युक्तत्वादत एव प्राप्तम् , अधर्मफलाद् दुःखात् सुखं धर्मफलमिति प्राप्तम् । किं तत् ? इति तद्दिमानं प्रदर्शयति–इष्टप्राप्तिरिति इष्टशरीरेन्द्रियादिप्राप्तिरित्येतत् प्राप्तम् । किं कारणम् ? धर्माधर्मफलविपर्ययात् इत्यतः पुरुषकारनैरर्थक्यं च यादृच्छिकत्वाविशेषात् । अतो यदुक्तं 'कमैव कारणं पुरुषकारस्यापि कर्मफलत्वात्' इति श्रेयान् पक्षः । यथोक्तम्
यथा यथा पूर्वकृतस्य कर्मणः फलं निधानस्थमिवोपतिष्ठते । 20 .
तथा तथा पूर्वविधानुसारिणी प्रदीपहस्तेव मतिः प्रवर्तते ॥ [ ] - अभ्युपगम्यापि पुरुषकारं दोषं ब्रूमः–स निर्हेतुकः सहेतुको वा स्यात् ? किश्चातः ? स च पुरुषकारो यद्यहेतुको मुक्तानामपि स्याद् नयोद्योगलक्षणः न चेष्टस्तेषाम् । अथ मा भूदेष दोष इति सहेतुरिति ब्रूयात् ततः सहेतुश्चेत् कर्मण ऐवाचेतनात् , शुभादपि पुरुषकारात् सेवादिकादनावाप्तेरशुभादपि प्राणातिपातादेरवाप्तेधर्माधर्मफलसङ्घरोक्तेरनुमातुं शक्यत एतत् अबुद्धिपूर्वकादचेतनकर्मवशादेवैतच्छुभा25 शुभवैचित्र्यम् । किं कारणम् ? युक्तिक्षमहेत्वन्तराभावात् , विचारितनिषिद्धत्वात् पुरुष-नियति-काल२५५.२ स्वभावादिहेत्वन्तराणां नानान्यद् विमर्दक्षम कारणमस्त्यन्यदतो दैवाख्यात् कर्मणः ।
यदा चेत्यादि । यस्मिन् काले एवं च कृत्वा पुरुषस्य प्रवृत्तौ साध्यायां नास्ति कर्तृत्वमिति "सिद्धे कर्मण एवेति च सिद्धे तदा तस्मिन् काले द्रवतीति द्रव्यं कर्तृसाधनं न भवति स्वतन्त्रस्य कर्तुरनुपपत्तेः । कर्मपरिग्रहँविशेषस्तु, तुशब्दो विशेषावधारणार्थः, कर्मसाधनमुपपन्नार्थं द्रव्यं द्रूयत
१शधर्म प्र० ॥ २° व्यक्ति( व्याकि ? )यायाश्च भा० ॥ ३ 'नतांगतत्वात्तत्वात्तत्कर्मणो य० । 'नतांगतत्वात्तत्वात्तत्वात्तत्कर्मणो भा०॥ ४°भयोरिष्टविपर्यय प्र० ॥ ५ एवचे प्र० ॥ ६ संकारोक्ते भा० । संस्कारोक्ते य० ॥ ७सिद्धेः प्र०॥ ८ हावि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org