________________
कर्मकारणैकान्तवादिमतनिरूपणम् ]
द्वादशारं नयचक्रम् ।
३५५
अकारणमपि कर्म, सहायापेक्षत्वात्, भारोत्पाटवत् । एतदपि च न मन्तव्यम् 'अकारणमपि कर्म सहायापेक्षत्वात्, फलोपहाराय स्वामिनयोद्योगावपेक्ष्या अमात्यादिप्रकृतिश्च' इति, यतस्तान्यपि हि स्वामिधर्माधर्मरज्जु यतिनिबद्धानि, तदायत्तत्वात् तद्भोग्यत्वात् तन्तुपटवत् । यदि तानि स्वामिधर्माधर्मरज्जु यति निबद्धानि न स्युस्ततः सर्वाविशेषप्रसङ्गः ।
ts खामिपुरुषकारः सोऽप्यधर्मफलत्वात् कर्मैव, क्लेशत्वात्, ज्वरवत् ।
तस्मात् सर्वमेव तत् कर्मण एव हेतोः, नात्मनः, 'कर्मणः' इति पञ्चम्या हेत्वर्थे विहितत्वात् । तदतिरेकेण क आत्मनि प्रतिपद्येत ? तस्मादेवं विद्वान् क आत्मनि एतदनुपपद्यमानं कर्मव्यतिरेकेण अभ्युपगच्छेत् ? नाभ्युपगच्छेत्येव विद्वानित्यभिप्रायः । तस्मादहेतुः पुरुषस्तत्कारश्च ।
स्यान्मतम् - अकारणमपि कर्म, सहायापेक्षत्वात् । पुरुषकारमकारणमपि कर्म सहायमपेक्षते 10 कवलास्यप्रक्षेपादिवत् । यथोक्तम्
आलस्याद् यो निरुत्साहः स किञ्चिन्नानुते फलम् । स्तनक्षीरादिपानं च पौरुषान्न विशिष्यते ॥ [
1
अतो भारोत्पाटवत्, यथा भारं समुद्वहन् पुरुषः सहायमुत्क्षेप्तारं निक्षेपकं चान्तरेण शक्नोति वोदुमितिकरणमकारणं च दृष्टस्तथा कर्म पुरुषकारमन्तरेणेति कारणमकारणं चेति ।
योऽपीत्यादि । यदपि चोक्तं 'स्वामिनयोद्योगावपेक्ष्यौ' इति स्वामिपुरुषकारः सोऽप्यधर्मफलत्वात् कर्मैव, न पुरुषकारो नाम कर्मातिरिक्तोऽस्तीत्यवधारणार्थं प्राक्प्रतिज्ञातं समर्थयति, क्लेशत्वात्, क्लेशो हि चिन्ताव्यायामरूपः, मनःशरीरायासात्मकत्वात्, ज्वरवत् ।
एतदपि च न मन्तव्यमकारणमपीत्यादिना तमेव पूर्वपक्षं व्याचष्टे । भारोत्पाटापेक्षभारो- २५४-१ द्वाहवदत्र किं सहायं कर्मणोऽपेक्ष्यमिति चेत्, उच्यते - फलोपहारायेत्यादि, फलमुपहरिष्यतः कर्मणस्तत्स्वामिनः कर्तुर्नयोद्योगावान्तरावपेक्ष्यौ, बाह्या स्वमात्यादिप्रकृतिः । किं पुनः कारणम् 'एवं न मन्तव्यम्' ? उच्यते-यतस्तान्यपि हि स्वामिधर्माधर्मरज्जुयतिनिबद्धानीत्यादि यावत् तन्तुपटवत् सहेतुदृष्टान्तकेन पदवाक्येन अमात्यादीनां धर्माधर्मकार्यत्वमापाद्य कर्मकारणावधारणात् पुरुषकारं निराकरोति 20 तदायत्तत्वात् तद्भेोग्यत्वादित्यादिना हेतुसौलभ्यं च दर्शयति । तन्तुपटवदिति तन्त्वायत्तपटवत् पटत्वेन तन्तूनामेव भोग्यत्ववत् । यदि तानीत्यादि एवमनभ्युपगमे सर्वाविशेषप्रसङ्ग इत्यनिष्टापादनम् ।
२ (°त्येवं विद्वान् ? ) ॥
१ तस्मात्तत् सर्वमेव तत्कर्मण एव य० ॥ ३ भारोत्पाद प्र० । दृश्यतां पृ० ३६३ पं० २० ॥ ४ कारणकारणं प्र० ॥ ५ व्यकार प्र० ॥ ६ " खाम्यमात्य सुहृत् कोषरराष्ट्र दुर्गबलानि च । राज्याङ्गानि प्रकृतयः पौराणां श्रेणयोऽपि च ॥” इति अमरकोषे २ । ८ । १७ ॥ ७ ( ° रजप्रतिनि ? ) ॥ ८ सहेतुकदृष्टान्तेन य० ॥ १० सर्वाशेष य० । सर्दाशेष भा० ॥ ११ दृश्यतां पं० २ ॥ १२ णार्थः भा० ॥
९ पटवाक्येन प्र०
॥
Jain Education International
5
For Private & Personal Use Only
15
25
www.jainelibrary.org