________________
३५४
न्यायागमानुसारिणीवृत्यलङ्कृतम् [चतुर्थे विधिनियमारे प्यत्वे खचैतन्यशक्तिमाधातुं समर्थः, मनुष्यः सन्न तज्ज्ञानं पशौ, तस्यापि कर्मलभ्यत्वात् । अपि तर्हि गङ्गायाः स्रोतस्य ... । __या(योs)पि च पुरुषः सोऽखतन्त्रः, कर्मपरवशत्वात्, वेतालाविष्टशवशरीरवत्, उपक्रमप्रभृति......... 'प्राणांश्च जह्यात् ।। 5. अतो यथाहारविशेषाभ्यवहरणखलरसादिविभजनाद्यसश्चेतितक्रियासु अखतन्त्र एव ताः कर्मकृताः पुरुषो मत्कृता इत्यभिमन्यते, तत्कार्यतायां हि तासां कदाचिदकरणाभावादिहैव अमृतत्वप्रसङ्गः तथा कायेन्द्रियनिर्वर्तनेऽप्यनिष्टशरीरेन्द्रियादिर्न स्यात् , इष्टस्यैव करणं स्वातच्यात् स्यात् । तस्मात् सर्वमेव तत् कर्मण एव । तदतिरेकेण क आत्मनि प्रतिपद्येत ?
10 पश्वज्ञानकुशक्तौ वर्तमानो न विशिष्टेष्टमनुष्यचैतन्ये स्थापयितुं शक्त इति, विपर्ययेण मनुष्यः सन्न तज्ज्ञानं पशौ 'आधातुं समर्थः' इति वर्तते । तस्यात्मनो यत् ‘स्वतत्त्वम्' इति त्वया प्रतर्कितं तन्न शक्नोति कर्मवशीकृतो योनिजात्यन्तरस्थो योनिजात्यन्तरेऽन्यत्राधातुम् , कुतः ? तस्यापि कर्मलभ्यत्वात् , पशोर्मनुष्यस्य वा चैतन्यस्य कर्मवशादेव तथाभावात् मनुष्यः पशुर्वा स्वजातिनामकर्मोदयादेव भवतीत्यर्थः, तदुदयस्य कारणान्तरदुर्निवारत्वात् । तत्र दृष्टान्तमाह-अपि तर्हि गङ्गाया इत्यादि, सम्भावनयैतदुच्यते, अपि 15 चैतत् सम्भाव्यम् – 'देवविक्रियोत्पातादिना गङ्गास्रोतस्यन्यथा प्रवृत्तस्य कर्मणोऽन्यथा प्रवर्तनमिति । एवं तावदभ्युपगम्य स्वतन्त्रं चेतनं पुरुषकारं च तस्योक्तम् ।
नैव वाभ्युपगच्छाम एतत् सर्व किञ्चित् कर्मव्यतिरिक्तम् , कुतः ? तत्त्वचिन्तायां कर्मव्यतिरिक्तकारणानवस्थानादित्येतद् दर्शयति -या(योs)पि चेत्यादि यावद् वेतालाविष्टशवशरीरवदिति । कर्मवेतालाविष्टो हि पुरुषोऽस्वतन्त्र इष्टानिष्टतुल्यप्रवृत्तिः परवशत्वात् पुरुषस्य, उपक्रमप्रभृति इत्यादि 20 यावज्जह्यादिति तत्स्वातत्र्याभावप्रतिपादनार्थो निमेषोपक्रमादारभ्य मरणापवर्गावसान इति गतार्थः । २५३-२ पुनरपि-अतो यथाहारविशेषेत्यादि यावदिहैवामृतत्वप्रसङ्गः । मातुरोजः पितुः शुक्रञ्च
प्रथमाहारः, ततः संत्ताहं कललं भवति [ तन्दुलवै० १७ ] इत्यादिना क्रमेण शरीरेन्द्रियादिकारणाहारः प्राणनादियात्रासमर्थः, तस्य च खलरसादिभावेन विभजनम् , इत्याद्यसञ्चेतिताव्यक्तक्रियासु अस्वतन्त्र एव गर्भादिषु सुप्तश्च । तास्तु क्रियाः कर्मकृताः पुरुषो मत्कृता इत्यभिमन्यते , तथा भासमानत्वात् । 25 तत्कार्यतायां हि पुरुषकारकार्यतायां हि तासां क्रियाणां कदाचिदकरणाभावात् प्राणस्थितिहेत्वनुपरमणाद् मरणाभावः, तस्मादिहैवामृतत्वाय कल्पेतेति दृष्टेष्टविरोधदोषप्रसङ्गः। तथा कायेन्द्रियनिर्वर्तनेऽप्यनिष्टशरीरेन्द्रियादिन स्यात् काणकुण्टबधिरादिः, सम्पन्नेन्द्रियजातिसंस्थानसंहननादियुक्त एव स्यात् । पुरुषकारकार्यनिर्वर्तने च धर्माद्यनुष्ठानविषयोपभोगादौ इष्टस्यैव करणं स्वातन्त्र्यात् स्यात् ।
१ देवक्रियों य० ॥२ दृश्यतां पृ० २५९ टि० ६ ॥ ३ गादिषु य० । गतार्थादिषु भा० । दृश्यतां पृ० ११३ पं० १२॥ ४ कल्पतेति प्र० ॥ ५ कार्येन्द्रि प्र० ॥ ६°यादि न प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org