________________
कर्मकारणैकान्तवादनिरूपणम्] द्वादशारं नयचक्रम् । ।
३५३ धमभिन्नाः सिद्धयोऽसिद्धयो वा नाना न स्युः, उत्कर्षार्थिकारणैकत्वात् । उत्कर्षार्थिपुरुषकारकत्वात् प्रधानमध्यमाधमभेदभिन्नाः पुरुषकारा न सिध्यन्ति । सप्रभेदास्ताः सिद्धयोसिद्धयश्च नानाजातीया न स्युः, अव्यतिरिक्तकारणत्वात्, तुल्यतन्तुपटवत्।
कार्यातिरेकात्तु कारणातिरेक इति कर्मैव प्रवर्तयित् । 'द्विविधा च......... 5 इतरस्य । तत्र त्वदिष्टपुरुषकारव्यापारस्यावतार एव नास्ति स्वशक्त्याधानासमर्थत्वात् । चेतनामात्रसारो हि पुरुषकारः शक्तिः, न च स पशुत्वे वर्तमानो मनु
मध्यमाधमभिन्नाः सिद्धयोऽसिद्धयो वा नाना न स्युः, ताश्च दृष्टाः, न हि दृष्टाद् गरिष्ठमन्यत् प्रमाणमस्ति । कस्मान्नाना न स्युरिति चेत् , उच्यते - उत्कर्षार्थिकारणैकत्वात् , आत्मोत्कर्षार्थी पुरुष एवं कारणं न कर्मापि कारणमिति पुरुषकारकारणैकान्तवादमाशङ्कते, पुरुषकारस्यैकत्वमुत्कर्षार्थिपुरुषकारैक-10 त्वम् , उत्कर्षार्थिनः पुरुषस्य क्रिया कारः, तस्यैकत्वात् प्रधानमध्यमाधमभेदभिन्नाः स्वाचारदुराचारविकल्पद्वयप्रभेदकृता लोकप्रसिद्धाः पुरुषकारा न सिध्यन्ति, एक एवोत्कृष्टः प्राप्नोति । ततश्च तत्साध्यानामपि फलभूतानां प्रधानमध्यमाधमानां शुभाशुभानां भेदा न प्राप्नुवन्ति, एकैवोत्कृष्टा सिद्धिः प्राप्नोति, २५२-२ न मध्यमाधमे सभेदे सिद्धी स्याताम् । नापि च पुरुषकाराणामसिद्धयः स्युः, ताश्च दृष्टा इति तदुपसंहृत्य साधनमाह -सप्रभेदास्ताः सिद्धयोऽसिद्धयश्च नानाजातीया न स्युरव्यतिरिक्तकारणत्वात् 15 तुल्यतन्तुपटवदिति पुरुषकारस्यैव कारणत्वात् तद्व्यतिरिक्तकारणाभावाद् भवतः पुरुषकारैकान्तवादिनः कर्मानपेक्षत्वादिति । .. इत्थं परपक्षे दोषमुक्त्वा स्वपक्षसाधनमाह-कार्यातिरेकात्तु कारणातिरेक इति कर्मैव प्रवर्तयित् । इतिशब्दो हेत्वर्थे, कार्याणामनेकभेदानां सिद्धीनामसिद्धीनां च परस्परंतोऽतिरिक्तत्वात् कारणातिरेकेणावश्यं भवितव्यम् , तच्च कारणं कर्मैव पुरुषस्य त्वदभिमतस्य प्रवर्तयितृ प्रवर्तकमनेकभेदमिति ग्रहीतव्यम् । 20 तस्य कार्यनानात्वानुमितस्य कारणसामान्यस्य 'कर्म' इति संज्ञा क्रियते, पुरुषकारस्य पुरुषादीनां च कारणानां निराकृतत्वात्। तस्य सिद्ध्यसिद्धिभेदकार्यलिङ्गादनुमानं देशान्तरप्राप्त्यनुमेयादित्यगतेरिव, द्विविधा चेत्यादिना तल्लिङ्गासिद्धिपरिहारार्थ यावदितरस्येति गतार्थम् , प्रसिद्धं लिङ्गमित्यर्थः । तत्रेत्यादि, तत्र एतस्मिन् कारणवैचित्र्यानुमानलिङ्गे कार्ये त्वदिष्टपुरुषव्यापारस्यावतार एव नास्तीत्यावयोर्लोकस्येव प्रसिद्ध कार्यलिङ्गे त्वदभिमतकारणासम्भवोऽस्मन्मतकारणसम्भव एवेति च दर्शयति । कस्मात् ? स्वशक्त्याधानासमर्थ-25 त्वात् । कस्य स्वशक्तिरिति चेत् , चेतनस्य पुरुषस्य । चेतनामात्रसारो हि पुरुषकारः शक्तिः, हिशब्दो यस्मादर्थे, यतोऽस्यैषा शक्तिः एतां चाधातुम १ शक्तोऽसाविष्टे मनुष्यत्वे पशुत्वे वर्तमान इति २५३-१ स्वशक्त्याधानासामर्थ्य दर्शयति-न च स इत्यादि, सत्यपि चैतन्ये तां स्वां चैतन्यशक्तिं कर्मबलाकृष्टनिकृष्ट
१ 'द्विविधा च प्रवृत्तिः एकस्य पुरुषकारस्य साध्या असाध्या च इतरस्य ।' इत्याशयको मूलपाठोऽत्र सम्भाव्यते । तुलना-पृ० ३६६ पं० १४॥ २धर्मभिन्नाः य० । दृश्यतां पृ. ३६५ पं० १७॥ ३ एककारणं य० । अत्र 'एक एव कारणम्' इत्यपि पाठः स्यात् ॥ ४°रतोरिक्त प्र० ॥ ५प्रवर्तयितुः प्रवर्तमने भा० । प्रवर्तयितुः प्रवत्यमने य०॥ ६॥ एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ७एषा य० ॥
नय० ४५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org