________________
३५२
न्यायागमानुसारिणीवृत्यलङ्कृतम् [चतुर्थे विधिनियमारे यदि त्वदृष्टाभावेऽप्यसावीश्वरस्ततस्ते मुक्तानामपि तन्वादीनि असौ कुर्यात्, ईश्वरत्वात्, सर्गादिवत् ।
अत एव च सम्भूयकारित्वाचेतनत्वस्थित्वाप्रवृत्तीनामपक्षधर्मता।
एवं च कृत्वा तदपि सर्वमसम्बद्धं यत् कर्मकारणैकान्तिन आहुः । त इत्थमाहुः- यदि प्रवर्तयितृत्वात् पुरुषकारः कारणं स्यात् ततः प्रधानमध्यमा
२५१-२ मुक्तो वा बध्येत, तत एव, तद्वत् । स्यान्मतं मुक्तामुक्तविकल्पसम्भव एव परमार्थतः सृष्टिवशव्यवस्थानादिति ।
तदपि नोपपद्यते, प्रकृतीश्वरादिसृष्टिवशादेव न बध्येत तनुकरणादिभिः, न युज्येत भुवनेन च, अमूर्तत्वादाकाशवत् । आकाशं वा बध्येत युज्येत च तन्वादिभिः, तत एव, त्वदभिमतपुरुष इव ।
अनिष्टं चैवमादि भवत इति । 10.-- किश्वान्यत् , यदि त्वदृष्टाभावेऽपीत्यादि । मया तावदित्थमदृष्टाख्यकर्मत्वापन्नसर्वपुरुषेश्वरत्वमुक्तं
तस्य तस्य तन्वाद्यादिकरत्वात् । तेन्न चेदित्थमादिकरत्वमिच्छसि ततोऽपि त्वदनुवृत्त्याभ्युपगतेऽप्यदृष्टाख्यक भावेऽपि मया दोष उच्यते-असावीश्वरस्ततस्ते मुक्तानामपि अभूततथाविधहेतूंनामकर्मणां तनुकरणानि भुवनानि चासौ कुर्यात् , ईश्वरत्वात् , सर्गादिवत् । तथा प्रलयकालेऽपि सर्वेषां कुर्यात् ,
तत ऐच, तद्वत् । मध्ये वा न कुर्यात् , ईश्वरत्वात् , प्रलयकालवत् । अनिष्टं चैतत् । अस्माच्चानिष्टात् 15 कर्मात्मैक्यात् सर्वसर्वात्मकत्वात् सर्वेश्वरता ।
अत एव चेत्यादि । कर्मात्मैक्यसर्वेश्वरत्वाभ्याम् , अणव एव कर्म, त एव सुखादयः । तस्माददृष्टात सृष्टिः प्रधानात् सृष्टिः पृथगणुभ्योऽदृष्टचोदितेभ्यो वा सृष्टिः इति वादान्तरपरिकल्पं त्यक्त्वा अस्मदुक्त
कर्मात्मैक्यसर्वसर्वात्मकसर्वेश्वरत्वाभ्युपगमोऽवश्यम्भावी। तस्मात् त्वयोक्तसम्भूयकारित्वाचेतनत्वस्थित्वा२५२-१ प्रवृत्तीनामपक्षधर्मता । एकत्वात् कस्य द्वितीयस्य केन सह सम्भूयैकार्थकारिता ? किं तदचेतनं चेतनात् 20 पृथग्भूतम् ? सततसम्प्रवृत्तपूरण-पालन-गलन-पुंगरणादिधर्मत्वाञ्च का स्थित्वा प्रवृत्तिः ? इत्यसिद्धार्थत्वाद् विशिष्टचेतनाधिष्ठितत्वं तन्वादीनां न साधयितुमलमिति । यदपि विशेष्योक्तं मिथः प्रत्यनीकसम्भूयैकार्थकारित्वादिति तदसत्त्वं तु पूर्वोक्तमेव णिच्छयतो सव्वलहुमित्यादिगाथया । तस्मान्नेश्वरपूर्विका सृष्टिः, किन्तु अनेकेश्वरपूर्विकेति विज्ञेया ।
. एवं च कृत्वेत्यादि । अनेनैकान्तेश्वरपूर्वकवाददोषप्रकाशनेन कर्मैकान्तवाददोषप्रकाशनमपि कृतं 25 वेदितव्यमसम्बद्धत्वात् तस्य कर्मैकान्तवादस्य । कथं पुनस्ते कमैकान्तवादिन आहुः ? कथं वा तदसम्बन्धः ? इत्यतस्तत्प्रदर्शनार्थं तावत् पुरुषकारं निराकुर्वन्तः कर्म समर्थयन्तः त इत्थमाहुरिति तदुपपत्तीर्दर्शयति, यथा-यदि प्रवर्तयितृत्वात् पुरुष कारः] कारणं स्यादिति पुरुषकार एव कारणं न कर्मापीति चेन्मन्यस इत्येकान्तं सूचयति तत इदमनिष्टं पुरुषकारकारणैकान्तिनस्ते प्राप्तम् । कतमदनिष्टम् ? उच्यते-प्रधान
१ दृश्यतां पृ० २५६-२॥ २ मुक्तमुक्तवि य० । मुक्तवि भा० ॥ ३ तन्निवेदित्थ° प्र० ॥ ४ तूनां कर्मणां प्र० । अत्र 'तुकर्मणां इत्यपि पाठः स्यात् ॥ ५ एतद्वत् प्र० ॥ ६ दृश्यतां पृ० ३३५ पं० ८ ॥ ७ दृश्यतां पृ० ३३१ पं०५॥ ८ दृश्यतां पृ० ३०१ पं० ४ ॥ ९ अनेकैकैश्वर प्र० । दृश्यतां पृ० ३३८ पं० १२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org