________________
कर्मकर्मिणोरन्योन्यादिकरत्ववर्णनम् ] द्वादशारं नयचक्रम् ।
अथैवं नेष्यते ततो नैवात्मा बध्येत कर्मणा तत्फलभूतैश्च तन्वादिभिर्न युज्येत विकर्मत्वाद् मुक्तवत् । प्रकृतीश्वरादिसृष्टिवशादेव न बध्येत न युज्येत च तन्वादिभिः, अमूर्तत्वात्, आकाशवत् ।
२५१-१
संव्वजीवाणं पि य णं अक्खरस्स अणंततमो भागो णिच्चुग्घाडितओ। तं पि जेदि आवैरिजेज तेण जीवो अजीवतं पावे।
सुट्ट वि मेहसमुदए होइ पभा चंदसूराणं ॥ [नन्दीसू० ४२] तथा स्वल्पं रजो हि कलुषं च नभः करोति राहुर्गुणोति शशिनं बलवांश्च सोमः।
पङ्को विनाशयति वारिगुणप्रकृष्टिं दोषा मुहूर्तरभसा बलवान् स्वभावः ॥ [ ] तस्मात् कर्मकर्मिणोरन्योन्यादिकरत्वम् । केवलिनस्तु विगतसर्वावरणविघ्नमोहत्वाद् यद्यप्युपयोगावरणाभावात् तथाविधोपयोगगतिरसिद्धा तथापि वेद्यायुर्नामगोत्रकर्मचतुष्कतत्प्रयुक्तत्वादिहेतुसद्भावादन्योन्यादि-10 करत्वं सिद्धम्। 'सिद्धानां तु कर्मनिर्मुक्ताव्याबाधपारिणामिकपरमसुखक्षायिकसम्यक्त्वज्ञानदर्शनवीर्यलब्ध्यादीनां चाँदिकरत्वम् । नन्वात्मपुद्गलैक्यापत्तिवचनादेव वा भेदप्रतीतेः स्ववचनविरोध इति । एतन्न, कस्मात्, पालनपूरणपुरुषत्वात् , पृ पालनपूरणयोः [पा० धा० १०८६ ], पालयति सुखदुःखादिविपाकास्तांस्तान पुद्गलानात्मभावेनेति पाल्यते तैस्तथाविधोपयोगगत्येति वा पुरुषः, पूरयति तांस्तैः पूर्यत इति वा पुरुषः । पुमांसं गिलति पुंसा वा गिल्यत इति पुद्गलः, पूरणाद् गलनाद् वा पुंगल इति निरुक्तिभेदेऽप्यर्थैक्यात् 15 पुरुषपुद्गलशब्दयोरिन्द्रशकवदेकार्थत्वाददोषः ।
अथैवं नेष्यते यथा मयोक्तं कर्मकर्मिणोरन्योन्यादिकरत्वं यदि न स्यात् ईश्वरवशात् , स्वभावादेः प्रकृत्यादेर्वा कुतश्चित् संसारवैचित्र्यं स्यादितीष्यते ततो नैवात्मा बध्येत कर्मणा संसारबीजभूतेन शुभाशुभेन, ततश्च तत्फलभूतैः शरीरेन्द्रियस्थानविषयैः शुभाशुभैर्न युज्येत विकर्मत्वाद् मुक्तवत् ।
१ "णाणं तु अक्खरं जेण खरति ण कयाइ तं तु जीवातो। तस्स उ अणंतभागो न वरिजति सव्वजीवाणं ॥ ७२ ॥ येन कारणेन न कदाचिदपि तद् ज्ञानं जीवात् क्षरति भ्रंशमुपयाति तेन कारणेन ज्ञानमक्षरमुच्यते । कथमेतदवसीयते 'न कदाचिदपि ज्ञानं जीवात् क्षरति' इति ? अत आह-तस्य अक्षरस्य अनन्तभागोऽतिप्रबलेनापि ज्ञानावरणोदयेन संसारस्थानां सर्वजीवानां नात्रियते । उक्तञ्च–'सव्वजीवाणं पिय अक्खरस्स अणंतो भागो णिचुग्घाडिओ' [ नन्दीसू० ४२] इति । नित्योद्घाटो नाम नित्यापावृतः ॥ ७२ ॥ केन पुनराच्छाद्यते येन ज्ञानस्यानन्तभागो नित्यापावृतः ? इत्याह-एकेको जियदेसो नाणावरणस्स हुंतऽणंतेहिं । अविभागेहाऽऽवरितो सव्वजियाणं जिणे मोत्तुं ॥ ७३ ॥ जिनान् केवलज्ञानिनो मुक्त्वा शेषाणां सर्वजीवानामेकैको जीवप्रदेशो ज्ञानावरणीयस्य कर्मणोऽनन्तैः 'अविभागैः' अविभागपरिच्छेदैः, येषां ततोऽप्यधो विभागः कर्तुं न शक्यते तेऽविभागपरिच्छेदाः, तैरावृतः ॥ ७३ ॥ यद्येवं कथमनन्तभागो ज्ञानस्य नित्यापावृतः ? इत्याह-जति पुण सो वि. वरिजेज तेण जीवो अजीवयं गच्छे । सुद वि मेहसमुदए होति पभा चंदसूराणं ॥ ७४॥ यथा सुष्ठ अतिशयेनापि मेघसमुदये जाते तथास्वभावत्वात् चन्द्रसूर्याणां प्रभा भवति तथा प्रत्यक्षत उपलब्धेः, एवमेकैकस्य जीवप्रदेशस्य अनन्तैर्ज्ञानावरणाविभाग. परिच्छेदैरावरणेऽपि तथास्वभावत्वाद् ज्ञानस्यानन्तभागो नित्योद्घाटित एव । यदि पुनः सोऽप्याब्रियेत तत एकान्ततो निश्चतनस्वाजीवः ‘अजीवतां गच्छेत्' अजीवो भूयात् , घटवत् ॥ ७४ ॥” इति मलयगिरिसूरिविरचितायां बृहत्कल्पभाष्यवृत्तौ ॥ २ जवि आव भा० । जवि याव य० ॥ ३°रिजिज य० ॥ ४ वि. विना वारिगुणावकृष्टिं प्र० । वारिगुणाप्रकृष्टिं वि० । (वारि, गुणप्रकृष्टिं ? ) ॥ ५ सिद्धावातिकर्म य० ॥ ६ वादि प्र० ॥ ७°पभोग प्र० ॥ ८ पुद्गलाः प्र० ॥ ९ पुद्गला प्र० ॥ १० 'क्यात् पुद्गलशब्दयों प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org