________________
मत्यादिपुद्गलयोरैक्यप्रतिपादनम्] द्वादशारं नयचक्रम्
३६३ भवनात्मकत्वाद् निर्वस्तुत्वापत्तेः द्रव्यमेव तथातथाभवनलक्षणं सत्यं चक्षुरादिप्रत्ययोपयोगापदेशेन भवति भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवत् ।
यच्चोपयोगस्वतत्त्वं मत्यादि तदपि पुद्गलात्मतत्त्वम् , रूपाद्यात्मकत्वात्, अण्वादिवत् । उपयोगलक्षण आत्मा रूपाद्यात्मकेषु पुद्गलेषु उपयुक्तः रूपाद्यात्मक एव, सर्वात्मना ग्राह्ये उपयोगमयान् मृत्पिण्डः शिवकादितायामिव सोऽचेतन : एव स्यात् पटेऽनुपयुज्यमानघटादिवत् । आत्मा पुद्गलखतत्त्व एव आत्मखतत्वज्ञानावरणाद्युदयप्रवृत्त्यव्यतिरिक्तभावाव्यतिरिक्तरूपत्वाच ।
रूपादयः स्युः । आदिग्रहणाद् भावभेदेन एकगुणद्विगुणत्रिगुणकृष्णादिभेदेन अगृह्यमाणत्वाद् विशिष्टस्य सामान्यस्यैव ग्रहणात् । ततः किम् ? अभवनात्मकत्वादू निर्वस्तुत्वापत्तिर्वन्ध्यापुत्रवत् । ततश्च निर्वस्तुत्वापत्तरेतत् प्रतिपत्तव्यम् -द्रव्यमेव तथातथाभवनलक्षणं सत्यं न रूपादयो नाम केचिदिति । 10 तथा तथेति रूपरसादिप्रकारेण भवति श्यामरक्ततादितद्भेदप्रकारेण चेति सत्यम् , द्रव्यं च भव्ये [पा० २६०-१ ५।३।१०४ ], ट्रेवति भवतीति । कथं पुनस्तद् द्रव्यमभिन्नं सद् रूपादिभेदेन भवतीति चेत्, चक्षुरादिप्रत्ययोपयोगापदेशेन भवति । चक्षुरादिप्रत्यया इत्यधिपत्यालम्बनहेतुसमनन्तरप्रत्ययाः, ते निमित्तमस्योपयोगस्य ज्ञानदर्शनाख्यस्य स चक्षुरादिप्रत्ययोपयोगः, तदपदेशेन रूपादि भवति ज्ञानापदेशेन चक्षुरूपादिप्रत्ययेनेत्यर्थः । यथोक्तम् -
15 रूपालोकमनस्कारचक्षुर्यः सम्प्रवर्तते ।
विज्ञानं मणिसूर्याशुगोशकृय इवानलः ॥ [ ] इति । दृष्टान्तः-भागिनेयाद्यपदेशविशिष्टैकत्वसत्यपुरुषवत् , यथैक एव पुरुषोऽनेकसम्बन्धिस्त्रीपुरुषापेक्षापदेशविशिष्टो भागिनेयो मातुलो भ्राता पतिः पिता देवरः श्वशुरः पुत्रो भ्रात्रीय इत्यादिर्भवति देवदत्त एक इत्येव च सत्यस्तथा द्रव्यमेकमेव रूपादि भवति चक्षुराद्यपदेशा दिति साधूक्तमेकमेव सर्वात्मकमिति । 20
एवमुपयोगात्मकत्वं पुद्गलस्य रूपादिप्रभेदस्योक्तम् । इदानीमुपयोगस्यापि पौद्गलात्म्यमुच्यतेयच्चोपयोगस्वतत्त्वं मत्यादि तदपि पुद्गलात्मतत्त्वमिति पक्षः । कस्मात् ? रूपाद्यात्मकत्वात् , अण्वादिवत् । स ह्युपयोगलक्षण आत्मा परमाणुब्यणुकत्र्यणुकादिषु रूपाद्यात्मकेषु पुद्गलेषु उपयुज्यते कृत्स्नो व्याप्रियते सार्वात्म्येन व्याप्त उपयुक्तः समाप्त इत्यर्थः, रूपाद्यात्मक एव, अप्रदेशसङ्ख्येयासयेयानन्तप्रदेशपुद्गलवत् तदुपयोगात् तत्परिणामात् तदेव तदिति पूर्वोक्तन्यायाच्च । यद्येवं रूपाद्यात्मकत्वमात्मनो नाभ्यु- 25 पगम्यतेऽसङ्ख्यातप्रदेशस्यापि रूपादिमंदेकद्रव्योपयोगे तादात्म्यं ग्राह्ये यातीति ततोऽसङ्ख्यातप्रदेशोऽपि १६००
१ सत्यम् य० प्रतिषु नास्ति ॥ २ द्रव्यति भवतीति भा० । भवति द्रव्यतीति य० ॥ ३°म्बन्धेस्त्री प्र०॥ ४ अश्वादि° भा० । अंधादि य० ॥ ५ उपा प्र० ॥ ६ अतः परं रूपाद्यात्मकत्वमात्मनो नाभ्युपगम्यतेऽसङ्ख्यातप्रदेशस्यापि इत्यधिकः पाठो य० प्रतिषु अत्र उपलभ्यते, किन्तु भा० प्रतौ अयं पाठः पं० २५ मध्ये यद्यवं इत्यतः परं दृश्यते, तत्रैव च स उचितः॥ ७ दृश्यतां पृ० ३६० पं० ४ ॥ ८1एतचिह्नान्तर्गतः पाटो य० प्रतिषु अत्र नास्ति । दृश्यता टि०६॥ ९ मनेक भा०॥ १०त्म्यं ग्राह्यो प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org