________________
३६४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे नन्वेवं पुद्गल एव आत्मा प्राप्तः, तस्योपयोगात्मनः पुद्गलत्वात्, कुतोऽस्य रूपाद्यात्मकता ? न, उपयोगात्मकत्वादेव रूपादीनामप्युक्तवत् ।
अनेन सर्वमपि कर्मकारणैकान्तवादिमतं पुरुषकारकारणैकान्तवादिमतं च असम्बद्धं बोद्धव्यम् , इतरेतरात्मकत्वात् ।
सर्वात्मना सार्वात्म्येन सर्वैः प्रदेशैाह्ये द्रव्ये उपयोगमयान् उपयोगमगच्छन् अनुपयुज्यमानोऽचेतन एव पटानुपयुज्यमानघटादिवत् स्यादिति सम्भन्त्स्यते । कथं पुनरुपयोगं यान् यायात् ? मृत्पिण्डः शिवकादितायामिव, यथा मृत्पिण्डः कृत्स्नः शिवकादिभावे सार्वात्म्येन व्यापारं गच्छति तथा यदि न गच्छेदात्मा ग्राह्ये ततस्तादात्म्यमप्रतिपद्यमानः सोऽचेतन एव स्यात् पटेऽनुपयुज्यमानघटादिवदिति यथाक्रमं वैधय॒ण साधर्म्यण च दृष्टान्तौ । चेतनो झुपयोगलक्षणस्तदभावादचेतनः स्यादिति एष दोषो 10 रूपाद्यात्मकत्वाभावे स्यादात्मन उपयोगलक्षणस्य । तस्मात् सिद्धं रूपाद्यात्मकत्वमात्मन उपयोगात्मकत्वात् ।
अतः पुद्गलस्वतत्त्वमेव मत्यादि इति साधूक्तम् । इतश्च आत्मा पुद्गलस्वतत्त्व एव, आत्मस्वतत्त्वेत्यादि यावद् भावाव्यतिरिक्तरूपत्वाच्च । आत्मनः स्वतत्त्वमौदयिको भावः, उदये भव औदयिकः, कस्य ? कर्मणो ज्ञानावरणीयादेरष्टविधस्यापि, स च तदुदयप्रवृत्तितोऽपृथग्भूतोऽव्यतिरिक्तो भावः स्वं तत्त्वमात्मनः, तदव्यतिरिक्तरूपश्चात्मा, तस्मादात्मस्वतत्त्वज्ञानावरणायुदयप्रवृत्त्यव्यतिरिक्तरूपत्वाच्चात्मा 15 पुद्गलात्मतत्त्व एव तादात्म्यप्रतिपत्तेः रूपाद्यात्मकपरमावादिवदित्यर्थः ।
- अत्राह - नन्वेवमित्यादि यावत् कुतोऽस्य रूपाद्यात्मकता ? इति । ननु भोः ! त्वदुक्तेन २६१-१ विधिना एतेनैव पुद्गल एवात्मा प्राप्तः तस्योपयोगात्मनः पुद्गलत्वात् , योऽयं पुद्गलोपयोगः 'रूपं
रसः' इत्यादिज्ञानात्मनः स चात्मोपयोग एव उपयोगव्यतिरिक्तस्य रूपादेरभावादुपयोगस्य रूपाद्यात्मकत्वा
दुपयोगरूपत्वाच्च रूपादीनाम् । तस्मात् कुतोऽस्य आत्मनो रूपाद्यात्मकता ? इति प्रस्तुतस्योपयोगस्य 20 मत्यादेः पुद्गलात्मत्वमुपरुणद्धि एष विचार इति । अत्रोच्यते - एतन्न, उपयोगात्मकत्वादेव रूपादीना
मप्युक्तवत् । नैष दोषः, रूपाद्यात्मकता आत्मनः, रूपादीनां चोपयोगात्मकता । यस्मादुपयोगात्मकत्वं रूपादीनामप्यनन्तरमेवोक्तम् । तस्माद् रूपादीनामप्युपयोगात्मकत्वादुक्तवत् पुद्गलोऽप्यात्मा आत्मापि पुद्गल एवेति रूपाद्यात्मकत्वमात्मनो न दोषाय ।
अनेन सर्वमपीत्यादि यावदितरेतरात्मकत्वात् । एवं च कृत्वा पुरुषस्य रूपादिमत्पुद्गलात्म25 कत्वात् पुद्गलस्यापि उपयोगात्मकपुरुषात्मकत्वात् तदुच्यते 'कर्मैव कारणम् , पुरुषकार एव कारणम्' इत्यवधारितमुभयमप्येकान्तगतमसम्बद्धं बोद्धव्यमिति । उभयोरपि पक्षयोः सह दोषोक्तिरेषा ।
१ यान्यात् म प्र०॥ २ उदयेन य० ॥ ३ स्वतत्त्व य० ॥ ४ (°क्तभावाव्यतिरिक्तरूप° ? ) ॥ ५ तावदात्म्य य० । त्तावदात्म्य भा०॥ ६°ण्वादित्यर्थः प्र० । दृश्यतां पृ० ३६३ पं० २३ । (°ण्वात्मकत्वादित्यर्थः ? ) ॥ ७ पुद्गला प्र० ॥ ८(यदुच्यते ?)॥ ९ दृश्यतां पृ० ३५२ पं० ४ । पृ० ३५७ पं० ३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org