________________
मैकान्तवाद निरसनम् ]
द्वादशारं नयचक्रम्
प्रत्येकप्रत्युक्तिभावनादिक् तु प्रवर्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, तस्यैवोक्तवत् सर्वत्वात् कर्मापि । तस्यैव कर्मतापि । पुरुषकाराणां च तत्साध्यानां च सिद्धयोsसिद्धयश्च नाना स्युरेव पुरुषस्यैवाव्यतिरिक्तभिन्नकारणत्वात्, अहिभोगविस्तरणकुञ्चनवत् ।
तथानतिरेकातिरेकात् कर्मापि प्रवर्तयितृ । स एव हि पुरुषश्चेतनोऽचेतनश्च : इष्टानिष्टविधिव्याप्रियमाणत्वात् । अथैवं नेष्यते ततोऽसौ भवेत् पशुवद् मनुष्यत्वेनापि ।
३६५
इदानीं प्रत्येकप्रत्युक्तिभावनादिक् तु [तु] शब्दो विशेषणार्थः, युगपत्प्रत्युक्तिदिक्तः प्रत्येकप्रत्युक्तिदिग् विशिष्यते । कर्मैकान्तवादप्रत्युक्तिदिक् तावत् प्रवर्तयितृत्वात् पुरुषश्च कारणमुत्कर्षार्थी, चशब्दात् कर्म चेति, एकान्तप्रतिषेधस्य वक्ष्यमाणत्वात् । उत्कर्षमर्थयतीत्युत्कर्षार्थी, उत्कर्ष एवार्थः 10 सोऽस्यास्तीति वा, अर्थाच्चासन्निहिते [ पा० वा० ५।२।१३५ ] इति इनिः स चोत्कर्षो बाह्यो धनधान्यमित्रभूम्यादिसम्पत्, आन्तरस्त्वारोग्यज्ञानादिसम्पत्, कृतार्थस्य तदर्थारम्भो परमादसन्निहितार्थोऽर्थीति । कस्मात् पुरुषश्च कारणमिति चेत्, उच्यते - तस्यैवोक्तवत् सर्वत्वात् 'व्रीहिणैव व्रीहिः क्रियते इत्यादिन्यायो - २६१-२ क्तवदसावेव पुरुषः प्राणादिमांश्चेतनः कर्मापि, अपिशब्दाद् नोकर्मापि प्राणापानभाषामनोद्रव्यादिपुद्गल आध्यात्मिको बाह्योsपि रूपादिपुद्गलश्चेतनो यस्मात् तस्मात् स एव प्रवर्तयिता । तस्यैवास्मिन् पक्षे 15 कर्मादिसर्वसर्वत्वात् किं तदन्यत् कर्म ? इति तस्यैव कर्मतापि, 'अपिशब्दात् पुरुषतापि पुद्गलतापि ।
तस्मादेव यदुक्तं 'प्रधानमध्यमाधमाः पुरुषकारास्तेषां च सिद्धयोऽसिद्धयश्च प्रधानमध्यमाधमा नाना न स्युः' इति तदयुक्तमुक्तम् । पुरुषकाराणां च तत्साध्यानां च सिद्धयोऽसिद्धयश्च नाना स्युरेव, न न स्युः । किं कारणम् ? उत्कर्षपरम्पराया बहुप्रभेदाया अपि आ मुक्तेः पुरुषस्यैवाव्यतिरिक्तभिन्नकारणत्वात् । स एवाव्यतिरिक्तो भिन्नश्च कारणम्, तस्यैव सर्वप्रभेदात्मकत्वाद् भिन्नत्वम्, तेषां 20 च कर्म नोकर्मबाह्यरूपादिभेदपुद्गलानां पुरुषोपयोगात्मकत्वादव्यतिरिक्तत्वम् । तस्मात् पुरुषकारनानात्वं तत्साध्यसिद्ध्यसिद्धिनानात्वानि च स्युरेव स चैक एव कारणं स्यादेव । को दृष्टान्तः ? अहिभोगविस्तरणकुञ्चनवत्, यथा अहिः स्फटाटोपकुण्डलँकीकरणाद्ययुगपदवस्थायिधर्मे रूपादिभिर्युगपद स्थायि - भिश्च भिन्नोऽप्यव्यतिरिक्तभिन्नाहित्वसत्यस्तदव्यतिरिक्तभिन्नकारणत्वात् प्रवर्तयिता तथा पाण्यादिसङ्घातसहवर्ती पुरुष उपयोगात्मा गत्याद्युत्कर्षार्थी तेषु युगपदयुगपद्भाविषु पुरुष एंव सत्य इति ।
तथानतिरेकातिरेकात् कर्मापि प्रवर्तयितृ, यथा पुरुष: पुद्गलात्मकर्मधर्मप्रभेदभिन्नोऽप्यव्यतिरिक्तः प्रवर्तयिता तथा कर्मापि तद्नतिरिक्तातिरिक्तकारणत्वात् प्रवर्तयितृ । किञ्च चेतनाचेतन-, परमार्थत्वाच्च पुरुषस्यैवेष्टानिष्टविधिं प्रति व्यापारः, स एव हि पुरुषश्चेतनोऽचेतनश्च, कुत: ? इष्टा
१ दृश्यतां पृ० ३६८ पं० ७ ॥ २ दृश्यतां पृ० ३५८ पं० १ ॥ ३ दृश्यतां पृ० ३५२ पं० ५ ॥ ४ इति व तद भा० ॥ ५ कर्मनोबाह्य प्र० । दृश्यतां पं० १४ ॥ ६ 'लीकरणा य० ॥ ७ ( °तभिन्ना° ? ) ॥ ८ युगपद्भावेषु य० । अत्र 'युगपदयुगपद्भाविभावेषु' इत्यपि पाठः स्यात् ॥ ९ एव विसत्य भा० ॥ १० क्तो प्रव प्र० ॥
Jain Education International
For Private & Personal Use Only
25
२६२-१
www.jainelibrary.org