________________
३६६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे एवं च अविभक्तद्वयात्मकतायां द्विविधः कर्माख्यपुरुषकारस्य प्रवृत्तिप्रबन्धः साध्योऽसाध्यश्च तीव्रमन्दादिहेतूपसेवनसञ्चितत्वात् साध्यासाध्यव्याधिवत्, चलनीयोऽविचाल्यश्च बद्धाबद्धमूलत्वाद् वृक्ष-हटवत् , निकाचितानिकाचितावयवत्वादयाशलाकाकलापवत्।
5निष्टविधिव्याप्रियमाणत्वात् । उत्कर्षापकर्षाविष्टानिष्टौ, तयोविधिः तत्प्राप्युपायः प्रमादाप्रमादौ, तौ च दृश्यते । तस्मादयं पुरुषश्चेतनोऽचेतनश्च प्रमादाप्रमादयोरिष्टानिष्टविध्योर्व्याप्रियमाणत्वात् । अतोऽचेतनकर्मानुभावोपलम्भाच्चेतनपुरुषानुभावोपलम्भाञ्चासौ तद्व्यपरमार्थः । तस्माच्च कर्मापि प्रवर्तयित । अथैवं नेष्यते त्वया, यदि च पुरुषश्चेतनशक्तिरेवेष्यते ततोऽसौ भवेत् पशुवद् मनुष्यत्वेनापि गम्यागम्यभक्ष्याभक्ष्याद्यविशेषज्ञो यथा पशुर्भवत्यल्पचेतनस्तथा मनुष्यत्वेऽपि भवेत् । व्यक्तवर्णपदवाक्या10 दर्थप्रत्यायनसमर्थशब्दोच्चारणादिशक्तिश्च मनुष्यस्तद्वत् पशुरपि भवेत् । कृम्यादिवद् मनुष्योऽपि जडः स्यात्, मनुष्यवत् कृमिरपि पण्डितः स्यादित्यादि । तस्मात् कर्मापि चेतनं पुरुषोऽप्यचेतनः, तच्चोभयमविभक्तमिति ग्राह्यम् ।
- एवं च कृत्वा तस्यैव तु उदितवदविभक्तद्वयात्मकतायां चेतनाचेतनैकात्मतायां सत्यां द्विविधः प्रवृत्तिप्रबन्धः फलपरिणामप्रबन्धः प्राग्भवीयकर्माख्यपुरुषकारस्य साध्योऽसाध्यश्च, तत्सञ्चयहेतु15 भूतोपादानकालपरिणामद्वैविध्यात् । तदर्शयति - तीव्रमन्दादिहेतूपसेवनसञ्चितत्वादिति, तीव्रण
योगपरिणामेन सञ्चितं कर्म तीव्रानुभावस्थितिप्रदेशं बंद्धपुष्टनिकाचितं सुखदुःखफलमुपक्रमितुमशक्यत्वाद... साध्यमवश्यं विपच्यते । मन्देन तु सञ्चितं मन्दानुभावादि शक्यत्वादुपक्रम्यम् । साध्यासाध्यव्याधि२६२.२
वत् , यथा व्याधिवराँतिसारादिर्निदानमन्दतीव्रत्वाभ्यां साध्योऽसाध्यश्च भवति तथा कर्माख्यपुरुषकार
प्रवृत्तिप्रबन्धः । साध्यासाध्यस्वभावव्याख्यानं च - चलनीयोऽविचाँल्यश्च बद्धाबद्धमूलत्वाद् 20 वृक्षहटवत् । यथासङ्खथं साध्यश्चलयितव्यः, इतरोऽविचाल्यो न कम्पयितव्यः । प्रथमो बद्धमूलो वृक्षवत् , द्वितीयो 'हैटवदबद्धमूलः, दुःखविश्लेष्यः सुखविश्लेष्यश्चेत्यर्थः, निकाचितानिकाचितावयवत्वात् ,
१च्चेति त य० ॥ २ शक्तिरेव प्रोच्यते य० ॥ ३ प्योऽतिजडः भा० डे० लीं० वि० । 'ष्योमिजडः पा० २० ही० ॥ ४ तस्यैव वतूदित प्र०॥ ५°त्मकायां भा० ॥ ६ “अट्ठमे कम्मप्पवाए पुव्वे कम्मं पण्ण विज्जति, जीवस्स य कम्मस्स य कहं बंधो? तत्थ ते भणंति बद्धं पुढें णिकाइयं । बद्धं जहा सुइकलावो, पुढे जहा घणणिरंतरातो कयाओ, णिकाईयं जहा तावेऊण पिट्टिया, एवं कम्मं रागदोसेहिं जीवो पढमं बंधइ, पच्छा तं परिणामं अमुंचंतो पुढे करेति, तेणेव संकिलिट्ठपरिणामेण तं अमुंचंतो किंचि णिकाएति । णिकाईयं णिरुवक्कम, उदएण णवरि वेइज्जइ, अन्नहा तं ण वेइज्जति ।” इति उत्तराध्ययनसूत्रस्य शान्तिसूरिविरचितायां टीकायां तृतीयाध्ययने गोष्ठामाहिलनिववादे; एतादृश एव पाठो नेमिचन्द्रसूरिरचितायामुत्तराध्ययनसूत्रवृत्तावपि, किन्तु तत्र "बद्धं जहा सुइकलावो तंतुबद्धो, पुढे जहा किट्टेण घणनिरंतराओ कयाओ" इति विशिष्टः पाठः ॥ ७रातीसा भा० ॥ ८°चल्यश्च प्र०॥ ९ हट्ट पा० । “जइ तं काहिसि भावं जा जा दिच्छसि नारिओ । वायाविद्धव्व हडो अद्विअप्पा भविस्ससि ॥ [ उत्तराध्य० २२१४४] । यदि त्वं करिष्यसि भावं प्रक्रमाद् भोगाभिलाषरूपं या या द्रक्ष्यसि नारीस्तासु तासु इति गम्यते, ततः किम् ? इत्याह-वाताविद्धो हठः वनस्पतिविशेषः, स इव अस्थितात्मा भविष्यसि ।" इति उत्तराध्ययनसूत्रस्य नेमिचन्द्राचार्यरचितायां वृत्तौ ॥ १० चल्यो य० ॥ ११ हट्ट य० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org