________________
३६७
कमैकान्तवादनिरसनम् ]
द्वादशारं नयचक्रम् परिणमनमपि च कर्मणः पुरुषकारस्य विषयो न च विषयः कचित् , अप्राप्तप्राप्तविपरिणामावस्थत्वात् , पुष्पतुग्दृढफलवत्।
एवं च कृत्वा क्रियासहायश्च स फलं प्रयच्छति एकश्च, सापेक्षानपेक्षशक्तित्वात् , भारोत्पाटवत् । सोपक्रमस्य कर्मात्मात्मनः पुरुषात्मना .... तृणदाहवद्वा ।
निकाचिताः कर्मप्रदेशाः तीव्रक्रोधाद्यशुभपरिणामेन, अनिकाचिता मन्दपरिणामेन । किमिव ? अयः-5 शलाकाकलापवत् , यथा सूत्रमात्रोपनिबद्धा अयःशलाका एकशलाकापकर्षमात्रप्रयासेन सर्वाः प्रच्यवन्ते, प्रतप्तसम्पृक्तप्रहताः सङ्घर्षणाहते न शक्याः पृथक् कर्तुम् , तथा कर्मविधिः ।
परिणमनमपि चेत्यादि यावत् पुष्पग-दृढंफलवत् । तस्यापि पूर्वकर्मणः तीव्रमन्दादिहेतूपसेवनसञ्चितस्य फलदानमिहत्यपुरुषकारस्य कृष्यध्ययनसेवावाणिज्याद्यनुष्ठानस्य विषयो न च विषयः कचिदिति, अप्राप्तप्राप्तविपरिणामावस्थत्वात् , यथासङ्ख्यं स्वयमप्राप्तविपरिणामावस्थं पुरुषकार-10 विपरिणाम्यं पुरुषकारेण विपाच्यते विषयत्यमानीयते उदीरणाकरणेनोदीर्यते, प्राप्तविपरिणामावस्थं तु
वैयर्थ्यान्न विषयीक्रियते पुरुषकारेण न विपाच्यते नोदीर्यते स्वयमेव विपक्वत्वात् । किमिव ? पुष्पतुगदृढफलवत् , पुष्पतोकं दृढफलं च यथासङ्ख्यं दृष्टान्तौ । यथा दृढफलं स्वयमेव "विपच्यमानं न पाच्यते पुरुषकारेण, पुष्पतोकं तु वृक्षायुर्वेदविधिना विपाच्यते । अथवा पुष्पतोकस्यैवोत्पन्नस्य दृढं फलमस्य २६३-१ भावीति दृढफलं ताहक्छक्त्यैवोत्पन्नमिति तस्यैव भवति तच्छक्तिविरहितस्य न भवतीति तदेवाप्राप्तपाककालं 15 कदलकाम्रादिफलं कोद्रवपलालादिवेष्टितं निखातं वा पार्श्वधूमादिभिर्विपाच्यते, नेतरदवश्यं विनाशीति । अथवा अप्राप्तविपरिणामावस्थं पुष्पतोकमतिमृदुत्वादुपक्रमेणापि न पांच्यते पाचनायोग्यत्वात् कुंथ्यति विलीयते वा, दृढफलं तु पाचनयोग्यं प्राप्तकालत्वात् पाच्यते ।
एवं च कृत्वा क्रियासहायश्च स फलं प्रयच्छति एकश्च सहायीभूतायाः क्रियाया अपि तच्छक्तिमात्रत्वात् , क्रियासहायस्य पुरुषकारस्य फलप्रदानं सापेक्षानपेक्षशक्तित्वात् , भारोत्पाटवत् , 20 यथा भारमुत्पाटयन् कश्चित् पुरुषः स्वयमेवोत्पाटयति, कश्चित् पुनः सहायापेक्षः, एवं पुरुषकारोऽपि फलप्रदाने सहायां क्रियामपेक्षते कश्चित् कश्चिन्नेति सोपक्रमस्य क्रियापेक्षा न निरुपक्रमस्य । तत्र सोप
१ "तोकम् तुगिति च तौतेः के किकि च” इति हैमधातुपारायणे । “भीण्शलिवलिकल्यतिम→र्चिमृजिकुस्तुदाधारा. त्राकापानिहानशुभ्यः कः ॥ २१ ॥ एभ्यः कप्रत्ययो भवति । ..... तुंक् हिंसावृत्तिपूरणेषु, तोकमपत्यम् ॥..... ॥ २१ ॥ तोः किक् ॥ ८६९ ॥ तुक् वृत्त्यादावित्यस्मात् किक् प्रत्ययो भवति, ककारः कित्कार्यार्थः, इकार उच्चारणार्थः, तुक् अपत्यम् ॥ ८६९ ॥” इति सिद्धहेमशब्दानुशासनबृहद्वृत्तौ उणादिसूत्रेषु । एवं च पुष्पतुगिति फलविशेषः पुष्पजन्यं वा फलमित्यर्थः ॥ २°दृट्टफ प्र०॥ ३ वणि भा० ॥ ४ णम्यं प्र० ॥ ५ वैपर्यान्न प्र० । अत्र विपर्ययान्न इत्यपि पाठः स्यात् ॥ ६ दृट्ट' य० । दृढ फलं नालिकेरादिकम् ॥ ७ विपाच्य प्र० ॥ ८ पच्यते प्र० ॥ ९ कुथ्यति व्यलीयते य० । कुथ्यवि लीयते भा० ॥ १० यश्चस्य पु. भा० । यश्च पु य० । (°क्रियासहायश्च पुरुषकारस्य फलप्रदाने ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org