________________
३६८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे एवमनयैव दिशा पुरुषकारैकान्तवादः प्रतिषेध्यः । यत्रैकस्य खातव्यं तत्र तत्प्रदर्शिततत्त्वस्य इतरस्यापीति भावनीयम् । तथावगाहादिलक्षणैरस्तिकायैः
क्रमस्य कर्मात्मात्मन इत्यादि यावत् तूंणदाहवद्वेति तस्यैव सहकीभूतस्य आत्मनश्चेतनाचेतनत्वेन पुरुषात्मनेत्यादिना सापेक्षान् उदयोपशमक्षयोपशमक्षयान् अवस्थाविशेषान् दर्शयति सोदाहरणान् । 5 एवमनयेत्यादि योवद्भावनीयमिति । एवं तावद् व्यात्मकतया आत्मकर्मैकान्तवादप्रत्युक्तिदिगियं प्रदर्शिता । अनयैव दिशा अनयैव पुरुषकार इत्यापाद्योक्तन्यायेन तदेव वस्तु कर्मसंज्ञामात्रेण भावयित्वा पुरुषकारैकान्तवादः प्रतिषेध्यः । तद्यथा - कर्म च कारणं प्रवर्तयितृत्वात् सुखदुःखोत्कर्षापकर्षविकल्पानुभवावश्यम्भावि, तस्य चैकस्य उक्तवत् सर्वत्वादुपयोगत्वात् पुरुषतापि इत्यादि सर्वमशेषं ..योजनीयम् , यत् परेणानभ्युपगतमन्यतरंदितरत् तदितरस्मिन्नापाद्यमिति, तत आह - यत्रैकस्य स्वातन्त्र्यं 10 तत्र तत्प्रदर्शिततत्त्वस्य इतरस्यापीति भावनीयमिति भावनोपायं प्रदर्शयति सामान्येन । तथा विशेष्य भावितमेवास्माभिरिति ।
२६३-२
१"अत्राह-चतुर्गतावपि संसारे किं व्यवस्थिता स्थितिरायुष उताकालमृत्युरप्यस्तीति । अत्रोच्यते-द्विविधानि आयूंषि अपवर्तनीयानि अनपवर्तनीयानि च । अनपवर्तनीयानि पुनर्द्विविधानि - सोपक्रमाणि निरुपक्रमाणि च, अपवर्तनीयानि तु नियतं सोपक्रमाणीति । तत्र 'औपपातिकचरमदेहोत्तमपुरुषासङ्ख्ये वर्षायषोऽनपवायषः ।' [ तत्त्वार्थ० २॥
औपपातिकाश्वरमदेहा उत्तमपुरुषा असङ्ख्येयवर्षायुष इत्येतेऽनपवायुषो भवन्ति ।..... शेषा मनुष्यास्तिर्यग्योनिजाः सोपक्रमा निरुपक्रमाश्चापवायुषोऽनपवायुषश्च भवन्ति । तत्र येऽपवायुषस्तेषां विषशस्त्रकण्टकाम्युदकाद्यशिताजीर्णाशनिप्रपातोद्वन्धनश्वापदवज्रनिर्घातादिभिः क्षुत्पिपासाशीतोष्णादिभिश्च द्वन्द्वोपक्रमैरायुरपवर्त्यते, अपवर्तनं शीघ्रमन्तर्मुहूर्तात् कर्मफलोपभोगः, उपक्रमोऽपवर्तननिमित्तम् । अत्राह-यद्यपवर्तते कर्म, तस्मात् कृतनाशः प्रसज्यते यस्मान वेद्यते । अथास्त्यायुष्कं कर्म म्रियते च तस्मादकृताभ्यागमः प्रसज्यते, येन सति आयुष्के म्रियते ततश्चायुष्कस्य कर्मण आफल्यं प्रसज्यते, अनिष्टं चैतत् । एकभवस्थिति आयुष्कं कर्म, न जात्यन्तरानुबन्धि । तस्मान्नापवर्तनमायुषोऽस्तीति । अत्रोच्यते- कृतनाशाकृताभ्यागमाफल्यानि कर्मणो न विद्यन्ते, नाप्यायुष्कस्य जायन्तरानुबन्धः । किन्तु यथोक्कै रुपक्रमैरभिहतस्य सर्वसंदोहेन उदयप्राप्त. मायुष्कं कर्म शीघ्रं पच्यते तदपवर्तन मित्युच्यते, संहतशुष्कतृणराशिदहनवत् । यथा हि संहतस्य शुष्कस्यापि तृणराशेरवयवशः क्रमेण दह्यमानस्य चिरेण दाहो भवति, तस्यैव शिथिलप्रकीर्णोपचितस्य सर्वतो युगपदादीपितस्य पवनोपकमाभिहतस्य आशु दाहो भवति, तद्वत् । यथा वा सङ्ख्यानाचार्यः करणलाघवार्थ गुणकारभागहाराभ्यां राशिं छेदादेवापवर्तयति न च सङ्ख्येयस्यार्थस्याभावो भवति, तद्वदुपक्रमाभिहतो मरणसमुद्धातदुःखार्तः कर्मप्रत्ययमनाभोगयोगपूर्वकं करणविशेषमुत्पाद्य फलोपभोगलाघवार्थ कर्मापवर्तयति, न चास्य फलाभाव इति । किच्चान्यत् , यथा वा धौतपटो जला एव संहतश्चिरेण शोषमुपयाति स एव च वितानितः सूर्यरश्मिवाय्वभिहतः क्षिप्रं शोषमुपयाति, न च संहते तस्मिन् प्रभूतस्नेहागमो नापि वितानितेऽकृत्स्नशोषः, तद्वद् यथोक्तनिमित्तापवर्तनैः कर्मणः क्षिप्रं फलोपभोगो भवति न च कृतप्रणाशाकृताभ्यागमाफल्यानि ।" इति वाचकवरश्रीउमास्वातिप्रणीते तत्वार्थाधिगमसूत्रभाष्ये २०५२ । “सोपक्रम निरुपक्रमं च कर्म, तत्संयमादपरान्तज्ञानमरिष्टेभ्यो वा' [ ३।२२] । आयुर्विपाकं कर्म द्विविधं सोपक्रम निरुपक्रमं च । तत्र यथा आईवस्त्रं वितानितं लघीयसा कालेन शुष्येत् तथा सोपक्रमम् । यथा च तदेव सम्पिण्डितं चिरेण संशुष्येद् एवं निरुपक्रमम् । यथा चाग्निः शुष्के कक्षे मुक्तो वातेन समन्ततो युक्तः क्षेपीयसा कालेन दहेतु तथा सोपक्रमम् । यथा वा स एवाग्निस्तुणराशौ क्रमतोऽवयवेषु न्यस्तश्चिरेण दहेतु तथा निरुप. क्रमम् । तदैकभविकमायुष्कर कर्म द्विविधं सोपक्रम निरुपक्रमं च ।" इति पातञ्जलयोगदर्शनस्य व्यासप्रणीते भाष्ये ३।२२ ॥ २ यावदानीय य० । याववानीय भा० ॥ ३ दृश्यतां पृ० ३६५ पं० १॥ ४ सर्वादुप प्र० । दृश्यतां पृ० ३६५ पं० २॥ ५ रदितरस्मिन्नापाद्यमिति भा०॥ ६ तत्तत्प्रदर्शि भा० । तत्तत्प्रतिदर्शि° य० । ( यच्चैकस्य खातच्यं तत् तत्प्रदर्शिततत्त्वस्य ?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org