________________
आत्मपुद्गलाकाशधर्माधर्माणामैक्यवर्णनम् ] द्वादशारं नयचक्रम्
___३६९ ऐक्यं प्रवर्तकप्रवर्त्यन्यायात्, तव्यत्वात्, पृथिव्यादिवत् । अवगाहादिद्रव्यं यथा वियदादि एवमात्माद्यपि, तस्यैव तथाभूतेः, उदकादिव्रीहित्वशिवकादिघटत्ववत् ।
अविभक्तावगाहावगाडावगाहकमेकमेवेदं भवनं मिथ्याग्राहोत्थापितद्रव्यगुणकर्मसामान्यविशेषसमवायप्रभेदं सर्वगतेतराभिमतद्रव्य[मात्र मुत्क्षेपणादि तद
न केवलं कर्मात्मनोरेवाभिन्नैक्यम् , किं तर्हि ? यथा चात्र तत्त्वं कर्मात्मनोः सर्वप्रभेदेषु वृत्तं । भावितमस्माभिस्तथा अवगाहादिलक्षणैरस्तिकायैः अवगाहगतिस्थितिलक्षणैराकाशधर्माधर्माख्यैः सह कर्मात्मविचारोक्तात् प्रवर्तकप्रवर्त्यन्यायाद् भावनीयमिति वर्तते । यथा प्रवर्तक एव प्रवर्त्य इत्युक्तं तथा अवगाहादि प्रवर्तकं प्रवर्त्य चोभयमेकमेव कर्मात्मवदिति । पुनरपि तद्भावनार्थमाह - तद्रव्यत्वात् , यद यद यद्व्यं तेत् तत् तत्तत्त्वम् , यथा प्राग भावितं पृथिव्यादि व्रीह्यादि । पृथिव्यादिवत् तद्रव्यत्वमसिद्धमिति चेत्, नेत्युच्यते, अवगाहाँदिद्रव्यं यथा वियदादि एवमात्माद्यपि, यथावगाहोपकार-10 गुणमाकाशं गतिस्थित्युपकारगुणौ धर्माधर्मावेवमात्मपरमाण्वादिद्रव्यमपि । कुतो हेतोः ? तस्यैव तथाभूतेः, तदेव ह्यात्मपुद्गलद्रव्यं तथा तथावगाहगतिस्थितिरूपेण भवति । किमिव ? उदकादिव्रीहित्वशिवकादिघटत्ववत् , यथोदकपृथिव्याकाशवातबीजाङ्करादय एव व्रीहीभवन्ति युगपद्भाविनो भावाः यथा च क्रमभाविनः शिवक-स्थासक-कुशूलकादय एव घटीभवन्ति तथा आत्माद्यप्यवगाहादि, अवगाहादि वियदादि, वियदाद्यवगाहादि, अवगाहाद्यात्मादि च भवतीति तस्य तस्य तद्रव्यत्वम् , तद्व्य-15 त्वात् प्रवर्तकप्रवेत्यैक्यन्यायोऽवस्थितः । तस्माच्चात्मपुद्गलाकाशधर्माधर्मास्तिकाया एकं तत्त्वं सर्वप्रभेदवृत्तमिति ।
२६४.१ किश्चान्यत् , अविभक्तेत्यादि यावदेकमेवेदं भवनम् । अवगाहोऽवगाहमानादात्माण्वादेरविभक्तः अवगाह्यमप्याकाशमवगाहधर्मस्य स्वलिङ्गस्य पृथगसिद्धेरवगाहकादविभक्तं द्रव्यार्थविवक्षायां पर्यायस्याभावात् । तस्मादेकमेवेदं भवनमिति साधूक्तम् । तत् पुनरन्यत्र प्रतिवादिमते मिथ्याग्राहोत्थापितेत्यादि 20 यावत् सर्वगतेतराभिमतद्रव्यमिति । कार्यद्रव्यं पटादि कारणद्रव्यात् तन्त्वादेरन्यत् तन्त्वादि च कार्यादन्यत् , एवं गुणाः पैटरक्तश्यामत्वादयः पटात् कारणकार्याख्याः परस्परतश्च, कर्माप्युत्क्षेपणादि क्रियाव
व्यसमवेतं सर्वगतासर्वगतद्रव्याद् गुणेभ्यः परस्परतश्च, द्रव्य-गुण-कर्मभ्यः परस्परतश्चान्ये सामान्यविशेषसमवाया इतीत्थंप्रभेदं तदेवास्मदुक्तं भवनं मिथ्याग्राहोत्थापितं कैश्चित् । यैश्चेत्थं विकल्पितं तान् प्रति सर्वगतेतराभिमतद्रव्यस्वरूप,त्क्षेपणादि, आदिग्रहणाद् रूपरसादिगुणगणः सामान्यविशेषसम-25 वायाश्च, तच्च सर्वगतासर्वगतद्रव्यं परस्परतोऽन्योन्यान्यतरस्वरूपमात्रमिति प्रतिज्ञार्थः । तदव्यतिरिक्तत्वादिति हेतुः, अनन्तरोक्तविधिना च तदव्यतिरिक्तत्वं सिद्धम् । 'तत्स्वरूपमात्रं तदव्यतिरिक्तम्' अनयोः शब्दयोः कोऽर्थभेद इति चेत्, न कश्चिदेतन्नयदर्शनेन, अपरस्तु शब्दबुद्ध्यादिभेदमिच्छतीति तन्मता
१“गतिस्थित्युपग्रहो धर्माधर्मयोरुपकारः ।५।१७। आकाशस्यावगाहः ।५।१८।"-तत्त्वार्थसू० ॥ २ तत् तत्तत्त्वम् य० ॥ ३°हादे द्रव्य भा० । "हादेव द्रव्यं यः॥ ४ हादिरवगाहादि य० । हादिरवगाहादिरवगाहादि भा०॥ ५ वत्यैकान्या प्र०॥ ६ प्रवादि भा० ॥ ७ पउरक्तश्यामत्वादयः पत्रात् प्र० ॥ ८ कर्माद्युत्क्षेप्र०॥ ९वेत प्र०॥ १० दृश्यतां पृ० ३७० पं० ८, पृ० ३७६ पं० २२॥
नय०४७ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org