________________
३७०
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे व्यतिरिक्तत्वात् घटघटभवनवत् । एवं पचिक्रियापि पृथिव्यादिकाष्ठादिखतत्त्वप्रतिनियता कचिदप्यनतिक्रान्तद्रव्यस्वरूपा पृथिव्यादिकाष्ठादिद्रव्यमानं भवनमेव ।
तच यदसौ भवति स तस्य भावः पुरुषादिनियमचेतनाचेतनविकल्पद्वैतविशेषणविनिर्मुक्तः। तदेव हि भवनं यत् सर्वात्मकमसद्यावृत्तार्थम् । अनेन हि प्रवर्तयितृत्वात् सर्वप्रभेदेन भूयते, न न भूयतेऽपि अभावेन प्रागभावादिना, तदात्मान
पेक्षयैतदुक्तम् । दृष्टान्तः घटघटभवनवत् , यथा घट एव घटभवनं न ततोऽन्यत् ततस्तदव्यतिरिक्तम् । यद्यन्यत् स्याद् घटो न भवेद् भवनादन्यत्वाद् भवनव्यतिरिक्तत्वात् खपुष्पवत्, भवनं वा तस्य न स्यात् ततोऽन्यत्वात् पटभवनवैदिति । अतो घटमात्रं घटभवनं तदव्यतिरिक्तं च एवं सर्वगतेतरद्रव्यमात्रमुत्क्षेपणादीति ।
एवं पचिक्रियापीत्यादि । काष्ठादिपृथिव्यादिस्वतत्त्वे प्रतिनियता पैचिक्रियाया वृत्तिः पूर्वोक्तसर्व२६४-२ परिणाँवृत्तिरूपत्वादन्योन्यस्वरूपापत्तेश्च तेषामैक्यापत्तिश्चेति अनतिक्रान्तं द्रव्यस्य स्वरूपं देशे काले वा
यया पचिक्रियया सा कचिदप्यनतिक्रान्तद्रव्यस्वरूपा । सा चोत्क्षेपणादिवदेव पृथिव्यादिकाष्ठादिद्रव्यमानं भवनमेव ।।
_ 'भवनं भावोऽस्तिता' इति पर्यायशब्दाः । तच्च भवनं यदसौ भवति से तस्य भावः, न 15 ततोऽन्यः, स्वभावसम्बन्धार्थस्तु षष्ट्यपदेशः शयत्यचेतसः [ ] इति वचनात् स्वार्थाभिधायिन्येवाभेदे कर्तृलक्षणा षष्ठी- द्रव्यस्य भवनं द्रव्यमेव भवतीति । स च भावः पुरुषादिनियमचेतनाचेतनविकल्पद्वैतविशेषणविनिर्मुक्तः, 'पुरुष एवेदम् , नियतिरेव, काल एव' इत्यादि चेतनमचेतनं च भवतीत्यनेन विकल्पेन द्वैतमिदं मनुष्यादि घटादि चेति विशेष्यते यत् पुरुषादिवादे जानत्सुप्ताद्यवस्थाभेदेन क्रमयोगपद्यादिभेदेन वा तेन विशेषणेन विनिर्मुक्तः स भावो निर्विशेषण एव सर्वात्मकः, 20 घटादि पटो भवति व्रीहिरुदकम् मनुष्यो नभो धर्माधर्मादि, पटोऽपि घटो व्रीयुदकादि, इत्यविशेषेण सर्व भवत्येवैकैकमिति तदेव हि भवनं यत् सर्वात्मकमसद्वयावृत्तार्थम् , न ह्यसन्नाम किश्चिदस्ति । किं कारणम् ? यस्मादनेन प्रवर्तयितृत्वात् सर्वप्रभेदेन व्रीहुंदकाकाशाङ्कुरादिना भूयते, न न भूयतेऽपीति द्विः प्रतिषेधाद् भवनमेवाभावव्यावृत्त्या नियम्यते 'भवत्येव, न न भवति' इति । केन पुनर्न भवति ?
अभावेन प्रागभावादिना, अस्मिन् हि नये न केनचित् प्रकारेण किश्चिन्न भवतीति प्राक्प्रध्वंसान्या२६५.१ त्यन्ताभावा न सन्त्येव । कुतः ? तदात्मानतिरिक्तत्वात् , स स आत्मा तदात्मा तस्यात्मा [वा] तदात्मा, 'ततोऽनतिरिक्तत्वात् । यद् यद् यदात्मानतिरिक्तं तस्य तस्य प्रागभावाद्यभावः, तेनाप्यात्मना भवत्येवेत्यर्थः ।
१°वत् । अतो भा० ॥ २ तत्त्वो य० । 'तत्त्वेतत्त्वो भा० ॥ ३ 'पचिक्रियावृत्तिः पूर्वोक्तसर्वपरिणत्यावृत्तिरूपत्वादन्योन्यस्वरूपापत्तेश्च तेषामैक्यापत्तिश्चेति अनतिक्रान्तं द्रव्यस्य खरूपं यया पचिक्रिय । वृत्तिः पूर्वोक्तसर्वपरिणत्यावृत्तिरूपत्वादन्योन्यस्वरूपापत्तेश्च तेषामैक्यापत्तिश्चेति अनतिकान्तं द्रव्यस्य स्वरूपं यया पचिक्रियया' इति द्विभूतो भा० प्रतौ पाठः॥ ४ त्याव्यतिरू य० ॥ ५स चस्य भावः भा० । स च स्वभावः य० । दृश्यतां पृ० १८ पं० २२ । पृ० २१९ पं० १६, टि. ५॥ ६विशिष्यते य०॥ ७नसोध य० । नसौध भा०॥ ८त्यर्थम् प्र०॥ ९ भावस्खेनाप्यात्मना य० ॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org