________________
३७१
भावस्य सर्वात्मकत्वप्रतिपादनम्] द्वादशारं नयचक्रम् तिरिक्तत्वात् बालकुमारादिवत् । भूत्वा न भवति अभूत्वा च भवति, अन्यथाऽभावत्वापत्तः। ___ अचेतन इति च चेतनादन्य आत्मैवोक्तः पर्युदासवाचित्वान्नञः, नोच्यते चेतनो न भवत्यचेतन इति चेतना न भवत्यचेतना इति ज्ञानादि न भवत्यज्ञानादिर्वा इति ।
किमिव ? बालकुमारादिवत् , यथा 'बालः कुमारो युवा मध्यमः स्थविरो वा' इति देवदत्त एव तेन तेन प्रकारेण भवति बालकाले कौमाराभावेन कौमारे ]बालभावेन यज्ञदत्ताद्यन्याभावेन खरविषाणाद्यत्यन्ताभावेन च सर्वः सर्वदा सर्वत्र सर्वथा च भवति स एव देवदत्तस्तत्तदात्मकस्तथा सर्वद्रव्यभवनमिति । भूत्वा न भवत्यभूत्वा च भवतीति, मृत्पिण्डकाले न न भवति घट[स्तद]व्यतिरिक्तात्मकत्वाद् देवदत्तबालकुमारादिवत् , कपालकाले न [न] भवति घटः तदव्यतिरिक्तात्मकत्वाद् देवदत्तबालकुमारा-10 दिवत् । कस्मात् ? अन्यथाऽभावत्वापत्तेरसत्त्वापत्तेः । यद्येवं नेष्यते त्वया 'प्रागभावादिनापि भवत्येव' इति, ततस्तस्य देवदत्तादेर्वस्तुनो बालकुमारादिसर्वावस्थात्मपरित्यागे किं तद् देवदत्ताख्यं वस्तु ? कास्तास्तद्वयतिरिक्ता बालाद्यवस्थाः ? इत्यभाव आपद्यते । न सन्त्यवस्थाः परस्परसम्बन्धाभावाद् वन्ध्यापुत्रवत् । नास्त्यवस्थावत् , अवस्थाव्यतिरेकेणानवधारणात् , वन्ध्यापुत्रवत् ।
अत्राह - 'न चेतनोऽचेतनः' इति नञा प्रतिषेधवाचिना सम्बन्धादचेतनरूपेण चेतनस्य भावाभाव 15 इति । अत्र ब्रूमः - अचेतन इति च चेतनादन्य आत्मैवोक्तः पर्युदासवाचित्वाद् नञः, नात्यन्ताभाववाचित्वात् । स कोऽन्यश्चेतनादन्य आत्मैव इति चेत् , उच्यते - स्पर्शास्पर्शादिधर्मणस्तस्यैवोपयोगाद्यस्पर्शरूपादन्येन रूपेण स एव स्पर्शादिमान् ज्ञानावरणादिकर्मरूप आत्मा, तेन चेतनादन्येनाचेतन इति चेतन एवोक्तः, न तु भवन्मतात्यन्तचेतनाभावरूपेण, प्रसज्यप्रतिषेधाख्यस्य विकल्पान्तरस्याभावाद् नोच्यते 'चेतनो न भवत्यचेतनः' इति । तथा 'चेतना न भवत्यचेतना' इति नोच्यते[s]ज्ञानादि 20 ज्ञानदर्शनवीर्यादि न भवतीति, किं तर्हि ? चेतनाया अन्याऽचेतना, का सा ? स्पर्शादीति । तथा ज्ञानादि न भवतीत्यज्ञानादि नोच्यते, किं तर्हि ? ज्ञानादेरन्यदज्ञानादि स्पर्शाये । अचेतना[s]ज्ञानयोभूय उदाहरणं चेतनात्मनो द्रव्यस्य निर्देशेनापरितुष्टस्य परस्य तदभिप्रेतपर्यायनिर्देशेन प्रतिपादनार्थम् , अज्ञानादिति, कियती वोदाहरणमाला क्रियते ? योऽप्यज्ञान-संशय-विपर्ययज्ञानादिर्ज्ञानाद् भिन्न इत्यभिमतो धर्मकलापः सोऽपि ज्ञानाज्ञानात्मात्मरूपादेभिन्न एवेति तत्रापि न तु ज्ञानादिर्न भवत्यज्ञानादिरित्युच्यते, किं 25 तर्हि ? ज्ञानादेरन्य एवाज्ञानादिरित्यात्मैव अज्ञानादिरूपेणोच्यते इति ।
१ अत्र 'बालकालेऽकौमारभावेन' इत्यपि पाठः स्यात् ॥ २ सर्वसर्वदा प्र० ॥ ३ सर्व वि० ॥ ४ रास प्र० ॥ ५ नास्यवं भा० । नास्याव य० ॥ ६भावाभावाभाव य० ॥ ७°धर्माण प्र०॥ ८°घेवाचेतनाज्ञानयो प्र०॥ ९ज्ञानात्मात्मात्मरू भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org