________________
২৬২
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [चतुर्थे विधिनियमारे ___ यद्येष न्यायो नेष्यते ततः तथा सर्वतो व्यावृत्तेरयुक्तः प्रसज्यप्रतिषेधः, खतोऽपि व्यावृत्तेः खपुष्पवदसत्त्वात् । अन्यत्वाच तत्त्व एव प्रागभावादिव्यावृत्तेबोलकुमारादिवत् तत्त्व एव चेतना।
सा पुनर्ज्ञानदर्शनादिसंवेदना निवृत्त्युपकरणलब्धितत्त्व उपयोगात्मा । अतो 5 रूपादिमदप्यात्मा, चेतनत्वात्, अभिमतात्मवत्, तस्यैव तथाभूतत्वादा मुक्तेः। एवं च कृत्वा ज्ञानं न ज्ञानं पुद्गलात्मकत्वाद् रूपादिवत्, अज्ञानमपि च ज्ञानं तत एव तद्वत्, चेतनोऽचेतनः, अचेतनश्चेतन इत्यादि।
यद्येष न्यायो नेष्यतेऽन्यः स प्रसज्यप्रतिषेधे इष्यते चेतनो न भवत्यचेतन इत्यादिरिष्यते त्वया तत एवं सति तथा तेन प्रकारेण सर्वतो व्यावृत्तिः, घटः पटो न भवतीति पटोऽपि घटो न भवतीति 10 परस्परव्यावृत्तिवत् सर्वभावव्यावृत्तेश्चेतनाचेतनयोावृत्तिः । ततश्च सर्वतो व्यावृत्तेरयुक्तः प्रसज्य
प्रतिषेधो निर्विशेषव्यावृत्त्यर्थत्वाद् नत्र इति । स्यान्मतम् - स्वतस्त्वव्यावृत्तिर्भविष्यति घटवैदिति चेत् , उच्यते - स्वतोऽपि व्यावृत्तेः, स्वतोऽपि तर्हि व्यावृत्तं तत् परपरिकल्पितं वस्तु प्राप्नोति सर्वतो व्यावृत्तत्वात् खपुष्पवत् । तस्माच्चावस्तुत्वं स्वपरतो व्यावृत्तत्वात् खपुष्पवदेवेति । तत आह - असत्त्वा
दिति । तस्मात् स्थितमेतत् - असत्त्वप्रसङ्गात् प्रसज्यप्रतिषेधाभावाच्च प्रागभावादिव्यावृत्तेरन्यत्वमर्थः 'बालः २६६-१ कुमारो न भवति' इत्यादिषु । तत उपसंह्रियते मौल एव अन्यत्वाच्च तत्त्व एव प्रागभावादिव्यावृत्ते_1bबालकुमारादिवत् तत्त्वमेव चेतनेति ।।
सा पुनरिदानी चेतना किंस्वरूपा ? इति वाच्या, उच्यते - ज्ञानदर्शनादिसंवेदना, साकारानाकारोपयोगी सप्रभेदौ ज्ञानदर्शनग्रहणेन गृहीतौ, आदिग्रहणेन सुखदुःखरागद्वेषभयादिसंवेदना गृहीता ।
सापि च निवृत्त्युपकरणलब्धितत्त्व उपयोगात्मा, इन्द्रियाणां चक्षुरादीनां निर्वृत्तिः पक्ष्मपुटकृष्ण20 सारादित्वेन निष्पत्तिः, उपकरणं तु मसूरकातिमुक्तककदम्बक्षुरपानेकाकारतया प्रदेशानां निष्पत्तिः, एतन्नयदर्शनेन वाञ्जनपादाभ्यङ्गप्रदीपाद्यप्युपकारकमुपलब्धेः सर्वमुपकरणम् । लब्धिः पुनर्निर्वृत्तेः प्राक् पश्चाच्चात्मना पूर्वोपात्तं तद्योग्यनामकर्मोदयजं द्रव्यं ज्ञानदर्शनावरणयोर्वीर्यान्तरायस्य च क्षयक्षयोपशमौ, तत्तत्त्व उपयोगो ज्ञानदर्शनस्वतत्त्वव्यक्तिः, स एव चात्मा । ततः किमिति चेत्, अतो रूपादिमदप्यात्मा, यदेतद् रूपरसादिधर्म मूर्तपौद्गलमाध्यात्मिकमिन्द्रियपाण्याद्यवयवात्मकं शरीरं तदपि आत्मैव । कुतः ? चेतन25 त्वात् , 'चेतनत्वं चास्यानन्तरं प्रतिपादितम् । किमिव ? अँभिमतात्मवत् , यथा शुद्धोपयोगलक्षणः केवली
आत्मा चेतनत्वात् तथेन्द्रियाद्यपि रूपादिमदिति । तत् समर्थयति-तस्यैव तथाभूतत्वादा मुक्तेः, स एव हि द्रव्यकेवली संसारावस्थ उपयोगात्मा तथाभूतो निरावरणज्ञानदेर्शनः संवृत्तोऽभिमतात्मा, तस्मादा
मुक्तेस्तस्यैव तथाभूतत्वादिहापि संसारे स एवेति रूपादिमतः पुरुषस्य मुक्तस्य चोपयोगात्मकत्वादविशेष २६६-२ एव । एवं च कृत्वा ज्ञानं न ज्ञानं पुद्गलात्मकत्वाद् रूपादिवत् , पुद्गलात्मकत्वं च ज्ञानस्यानन्तरं
१ यद्येव कन्यायो प्र० ॥ २ धाख्यते चेतनो य० ॥ ३ वच्चेत् य० ॥ ४ कुमारादिरूपादिवत् यः॥ ५ प्रागनेका प्र० । दृश्यतां पृ० १८३ पं० २० ॥ ६चेतनस्यां चास्या भा० । चेतनस्य चास्या य० ॥ ७ अभिहिता भा०॥ ८तथातथा भा० ॥ ९३
प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org