________________
द्रव्यशब्दव्युत्पत्तिशब्दार्थादिवर्णनम्] द्वादशारं नयचक्रम्
एवं चायं सङ्ग्रहेषु द्रव्यप्रकृतिनयः। स च सङ्ग्रहैकदेशत्वाद् द्रव्यार्थः ।
द्रव्यशब्दोऽपि कर्तृसाधनः। द्रव्यमपि द्रवति याति न विच्छिद्यते भिन्नरूपव्याप्त्या । ननु कर्मणि कर्मसाधनत्वमुदितम् । ननु कर्मसाधनव्याख्यानेन तेनैव कर्तृसाधनत्वमेव व्यवस्थापितम्, 'द्रव्येणैव द्रव्यं क्रियते व्रीहिवत्' इति कर्तरि तृतीयया कर्तृसाधनत्वाभ्युपगमात् ।
एतस्मिंश्च नये द्रव्यमेव शब्दार्थो नित्यः सर्वात्मकः। अन्वाह च-पृथिवीधातौ किं सत्यम् ? विकल्पः । विकल्पे किं सत्यम् ? ज्ञानम् । शाने किं सत्यम् ? ओम् । तद् ब्रह्म । [ ]
प्रतिपादितम् । अज्ञानमपि च ज्ञानं तत एव तद्वत् , चेतनोऽचेतनः, अचेतनश्चेतन इत्यनेकधा सर्वसर्वात्मकतां भावयति । इत्यादिग्रहणान्निदर्शनमात्रमेतद् भावितम् , अनया दिशा सर्वत्र भावनीयमिति ।
आह - आर्षोक्तेषु नयेषु कतमोऽयम् ? इति, अत्रोच्यते - एवं चायं सङ्ग्रहेषु । सङ्ग्रहः शत-10 विकल्पः, एक्केको य सतविधो सत्तणेयसता हवंति ते चेवं [ आवनि० ७५९ ] इति वचनात् । तेषु सङ्ग्रहेषु अयं विधिनियमनयो द्रष्टव्यो य एवं वर्णितः । तेऽपि च सङ्ग्रहाः सङ्ग्रहेण त्रिविधा भवन्ति द्रव्य-स्थितनयप्रकृतयः । द्रव्यप्रकृतयः, कर्म-पुरुषकाराोकान्तवादाः, स्थितप्रकृतयः पुरुष-काल-नियत्यादिवादाः, नयप्रकृतयः प्रकृतीश्वरादिकारणवादाः । तेषु चायं 'नयः स्थितप्रकृतीनां पुरुष-काल नियति-स्वभावनयानां विरोधिनोरीश्वरनयस्य प्रधाननयस्य चाधिष्ठातृप्रधानाख्ययोर्विपक्षो द्रव्यप्रकृतिनयो विधिनियमभङ्गो 15 द्रष्टव्यः । स च सङ्ग्रहैकदेशत्वाद् द्रव्यार्थः, नियमात्मकत्वात् पर्यायांशस्पर्शित्वेऽपि सङ्ग्रहैकदेशत्वाद द्रव्यार्थ एवायमिति ।
द्रव्यशब्दोऽपि कर्तृसाधनः, द्रव्यमपि द्रवतीत्यादिपर्यायशब्दैस्तदर्थं व्याचष्टे, द्रवति याति न 'विच्छिद्यते भिन्नरूपव्याप्त्या भिन्नानि रूपाणि "चेतनाचेतनानि ब्रीहिपृथिव्यादीनि देवमनुष्यादीनि च साकल्येन व्याप्नोत्येव न किञ्चिदपि त्यजतीति । चोदक आह - ननु कर्मणि कर्मसाधनत्वमुदितम् , 20 कर्मकारणव्याख्यानेऽयं द्रव्यशब्दः कर्मसाधन एवोक्तः 'द्रूयत इति द्रव्यम्' इति, कर्मवादश्च विधिनियमभङ्ग इत्युक्तम् , तत् कथमधुनाऽवधार्य द्रवतीति द्रव्यं कर्तृसाधनमुच्यत इति । अत्र विधिनियमनयो ब्रूते पूर्वोक्तमेव स्मारयन् - ननु कर्मसाधनव्याख्यानेन तेनैव कर्तृसाधनत्वमेव व्यवस्थापितमिति । तत् २६७-१ कथमिति चेत् , उच्यते -द्रव्येणैव द्रव्यं क्रियते व्रीहिवदिति कर्तरि तृतीया 'द्रव्येण' इति, तया कर्तृसाधनत्वाभ्युपगमात् प्रागस्माभिः पुरुषकर्मपृथिवीव्रीह्यादीनामात्मनैवात्मनः कर्तुः कर्मत्वस्य च 25 विस्तरेण वर्णितवत् सत्यां कर्मतायामपि कर्तृत्वं द्रव्यत्वादिति सामान्यार्थस्याविच्छेदात् स्वातव्यात् ।
एतस्मिंश्च नये द्रव्यमेव शब्दार्थः, न पर्यायार्थः पदार्थ इत्यर्थः । स च नित्यो विच्छेदा
१°णान निद भा० । णान्न निद य० ॥२°नय य० ॥ ३ हवंतेवमिति य० । दृश्यतां पृ० २९५-१ ।। ४१॥ एतदन्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ५ नयस्थित प्र० ॥ ६ पर्यायाणांशस्प भा० । पर्यायायांसेस्प य० ॥ ७°मिति द्र य० ॥ ८ विच्छेद्यते प्र० ॥ ९ °पमुपव्या य० ॥ १० चेतनानि प्र०॥ ११ दृश्यतां पृ० ३५६ पं० ७॥ १२ दृश्यतां पृ० ३५७ पं० १॥ १३ ( द्रव्यत्वादिसामान्या?)॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org