________________
३७४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ चतुर्थे विधिनियमारे
इति । स एष परमार्थः । एतदुक्तं भवति - अतः परं शब्दार्थव्यवहारो निवर्तते निर्विकल्पत्वात्, व्यवहारातीतोऽयमर्थः । अत्रानुवृत्तिव्यावृत्ती अनन्तरोक्तपृथिव्यादिधातुविकल्पज्ञान सत्यत्वानुप्रबन्धसामर्थ्योपहितरूपे यथाभागं प्रसिद्धिं गच्छतः । अत्र उत्पादविनाशशब्दावपि तत्स्थितरूपावेव, ऊर्ध्वपदनम् । अनित्य० घटादिशब्दा अपि स्वतत्त्वबीजं द्रव्यमेवाविच्छिन्नमाहुः ।
भावादवस्थितत्वाद्वा सर्वात्मक एकैकस्य सर्वार्थरूपानुस्यूतत्वात् । अन्वाह चेति ज्ञापकमाह, एतमेव नयमनुवर्तमानोऽन्योऽप्याह । पृथिवीधातावित्यादि यावत् तद् ब्रह्मेति । पृथिव्येव पृथिवीधातुः धृत्यादिधर्मधारणात् । तत्र किं सत्यम् ? विकल्प इति स्वयमेव पृष्ट्वा व्याचष्टे । न कदाचिदप्यत्र पृथिवी नामास्ति अश्मसिकतामृल्लोष्टवत्रादीन् विमुच्य त एव हि विकल्पाः पृथिवी, न पृथिव्येव ते । विकल्पे किं 10 सत्यम् ? ज्ञानम्, तेऽपि च विकल्पा ज्ञानादन्ये न सन्ति ज्ञानमेव आत्मकर्मलक्षणं चैतन्यं तथा तथा विजृम्भते, चैतन्यस्यैव व्यवहारमार्गपातित्वात् । ज्ञाने किं सत्यम् ? ओम्, अवति रक्षतिपति तृप्यति चेतनाचेतनभेदे सैत्यप्येवमादिधात्वर्थात्मना विपरिणममानं कर्मात्मतयैकं भवति येन यथा परिकप्यते तत् तथानुवर्तत इत्योम् । तदेतद् ब्रह्म । स एष परमार्थः, तदेतत् तत्त्वं परमं ब्रह्म बृहदिति । तस्यार्थं कथयति एतदुक्तं भवति - अतः परं शब्दार्थव्यवहारो निवर्तते निर्विकल्पत्वादिति, इयं - 15 शब्दार्थव्यवहारगतिर्यावन्निर्विकल्पं ज्ञानमेवैतदिति, अतः परं 'ब्रह्म' इति यत् परं तत्त्वं तंत्र ज्ञानमपि निर्विकल्पं सद् न क्रमते, तद्दर्शयति - व्यवहारातीतोऽयमर्थः । अयमिति व्याख्यातमधिगमोपायक्रममात्रं "दर्शयति ।
२६७-२
कथम् 'ओम्' इत्येषोऽन्वयव्यतिरेकरहितः शब्दार्थो भवितुमर्हतीति चेत्, को ब्रूतेऽन्वयव्यतिरेकरहित इति ? यस्मादत्रानुवृत्तिव्यावृत्ती अनन्तरोक्तपृथिव्यादिधातुविकल्प ज्ञानसत्यत्वानुप्रबन्धसामर्थ्यो20 पहितरूपे, पृथिव्यादिधातूनामचेतनाभिमतानां विकल्पसत्यानां चेतनकैर्मात्मनोकर्माभिमतानां च ज्ञानसत्यस्वरूपपुरुषत्वेन वाँन्धितव्यतिरिक्तानाम् 'ओम्' इति कर्मात्मैक्यापत्त्या तत्सत्यत्वानुप्रबन्धेन शक्त्युपधानं नित्यमेवेत्यन्वयव्यतिरेकवानेवायं शब्दार्थ इति । ते चानुवृत्तिव्यावृत्ती यो यो भागो यथाभागं प्रसिद्धिमभिधानाभिधेयव्यवहारात्मिकां 'कर्म' इति 'पुरुषः' इति 'कर्मपुरुषकार इति एक एव' इति वा प्रसिद्धिं गच्छत इति ।
1
25
स च शब्दार्थोऽनाद्य[नु]प्रबन्धसामर्थ्योपहितानुप्रवृत्तित्वाद् नित्यः । अत्रोत्पादविनाशशब्दावपि तत्स्थितरूपावेव नासदुद्भवात्यन्तविनाशरूपाविति, तद्वयाचष्टे - ऊर्ध्वपदनमित्यादि गतार्थम्, यथासङ्ख्यमाविर्भावतिरोभावस्वरूपयोरपि भावाभिधायित्वादवस्थित एवार्थ उत्पद्यते विनश्यतीति चोच्यते तथा
१ 'ऊर्ध्वपदनमुत्पादः आविर्भाव इत्यर्थः, विनशनं विनाशस्तिरोभाव इत्यर्थः । ' इत्याशयको मूलपाठः सम्भाव्यतेऽत्र । “ऊर्द्धपत्तिरुत्पत्तिरात्मलाभः प्रत्यक्षोपलब्धिः, विविधमदर्शनं विनाशोऽनुपलब्धिरभावः ।" इति वक्ष्यते नयचक्रवृत्तौ पृ० २९७ - १ ॥ २ तुर्ववृत्यादि ० ॥ ३ सत्येवमादि य० ॥ ४ तदतद् य० । तदथतद् भा० ॥ ५ तत्वज्ञान प्र० । ६ कर्मात्मनेकर्मा य० । कर्त्तात्मनेकर्मा भा० ॥ ७ ( चान्वित ? ) ॥ ८ ऊर्ध्ववदन प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org