________________
३७५
वाक्यार्थाद्यभिधानम् ]
द्वादशारं नयचक्रम् वाक्यार्थोऽपि च पृथक् सर्व पदम् , सर्वसर्वात्मकत्वात् । निबन्धनमप्यस्य आर्षम् - जे एकणामे से बहुणामे [ आचाराङ्गसू० १॥३॥४] इति ।
तथा परिणममानः । अनित्यघटादिशब्दा अपीति, 'अनित्यः प्रध्वस्तः' इत्यादयो 'घटः पटः' इत्यादयश्च शब्दाः पृथिव्यादिलक्षणा अपि नात्यन्तमुत्पन्नमभूतं वाथ ब्रुवते, किं तर्हि ? स्वतत्त्वबीजं द्रव्यमेवाविच्छिन्नमाहुः, स्वतत्त्वं यदभूत्वा भवति भूत्वा च न भवति तदनित्यम् , सैमानकर्तृकयोः पूर्वकाले क्त्वा-5 प्रत्ययविधानात् । स एव तु श्यादृश्यपरिणामाभ्यां भवति न भवतीति स्वतत्त्वस्य अनित्यत्वस्य बीजं २६८-१ द्रव्यमेवार्थः । घटादि तावत्तदनित्यत्वम् , तस्य बीजमवस्थितं द्रव्यं सामान्यमेव अङ्करादे/हिवत् । तदेवा'विच्छिन्नं महापृथिवीवदनुत्पादव्यययोगि अवृद्धम् अविचालि कूटस्थं ध्रुवं नान्यदिति पदार्थः ।।
वाक्यार्थोऽपि च पृथक् सर्व पदम् , प्रत्येकं पदं वाक्यम् 'देवदत्त गामभ्याज शुक्लाम्' इत्यत्र देवदत्त एवेतरपदार्थपरिसमाप्तेः कर्मविभक्त्यन्ते गोशब्दे च तथापरिसमाप्तेरितरपदार्थानाम् । तच्च सर्वसर्वा- 10 त्मकत्वादुक्तन्यायादुपपन्नम् ।
न चैताः स्वमनीषिका उच्यन्ते, किन्तु निबन्धनमप्यस्य दर्शनस्य आर्षमस्ति यतोऽस्य दर्शनस्य विनिर्गम इति तदर्शयति-जे एकणामे से बहुणामे, यदेकस्य भावः तत् सर्वस्यापि यत् सर्वस्य तदेकस्यापि ।
इति चतुर्थोऽरो नयचक्रस्य समाप्तः प्रथमश्च मार्गों नेमिरित्यर्थः।
अँधमेकपुस्तकं समाप्तम् ॥ छ ।
१ चार्थ भा० वि० ॥ २ “समानकर्तृकयोः पूर्वकाले” इति पाणिनीयव्याकरणे ३।४।२१ ॥ ३ दृश्यपरि० प्र०॥ ४ तावतद भा० ॥ ५ वच्छिन्नं प्र०॥ ६ भावा प्र० । ( भवेत् ?)। अत्र यदेकस्य नाम तत् सर्वस्यापि इत्यपि पाठः स्यात् ॥ ७ अर्धमेकमेकपु° पा० २० ही० । अर्धमेकमेकं पु वि० । अर्धमेकं एक भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org