Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 441
________________ ३२४ न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे - अन्यः पुनराह-न सर्वसर्वात्मकत्वपरिग्रहो न्याय्यः, अन्यथा भवनद्वैतपरिग्रहाद् विध्युभयनयैकान्तोपपत्तेः । सन्निधिन हि सन्निधिमात्रवृत्तिरस्ति अनापन्नत्वादनाविभूतत्वादप्रवृत्तत्वादनियतत्वात् । अनापन्नत्वादिभ्यो नास्ति वन्ध्यापुत्रवत् सन्निधिः, पद्यतिवर्तत्यर्थप्रवृत्तत्वादेव सत्तायाः । न हि द्रव्यादिसतेंदवत् 5 पद्यतिवर्तत्योः सत्ताविशेषत्वेन उपादानम् , 'सत्तार्थाः[ ] इत्यविशेषेण वचनात् । 10 तानामतथार्थत्वमुक्तविधिना प्रतिपादितम् , एकत्वं पुरुषवदपरिणामित्वं च सुखादीनाम् । तत एकत्वात् पुरुषवदपरिणामित्वादतथार्थत्वं चेति । तस्मादतथार्थत्वादनुमानाभासत्वादेतेऽर्था नोपपन्नाः, तद्यथाभिन्नगुणत्वं* वैषम्यात्मकत्वं विपरिणामः पुनः साम्यापत्तिश्चेति । तदनुपपत्तेर्जगत्सर्गसंहारकल्पना निर्मूला प्रधानाभावात् । तन्निर्मूलत्वात् पुरुषार्थेन हेतुना प्रयुक्ता प्रवृत्तिरित्येतदपि वितथम् , तद्वितथत्वात् तद्विषयः २३२-२प्रत्ययोऽप्यज्ञानमेव, तदज्ञानत्वात् ज्ञानप्राप्यपुरुषार्थाभावोऽपीति समस्ततन्त्रार्थविघटनमेवेति किमवशिष्यते वार्षगणे तत्रे ? सुभाषिताभिमतस्त्याज्योऽयमनुपपन्नपरोक्षार्थवादः । यद्युपपद्येत परोक्षार्थमपि तं गृह्णीयाम, न तूपपन्नः । तस्मात् सर्वसर्वात्मकत्वपरिग्रह एव न्याय्यः । . ___ अन्यः पुनरित्यादि । न सर्वसर्वात्मकत्वपरिग्रहो न्याय्यः, अन्यथा भवनद्वैतपरिग्रहाद् विध्युभयनयैकान्तोपपत्तेः । तत्र 'भवति भावद्वैतम् , भवतो भावस्य भाव्यभवितृत्वाभ्यां भेदाभ्यां 15 भावोपपत्तिः' इत्येतत् प्रतिपादयिष्यते । न त्वेवं यथानन्तरदूषितं सन्निध्यापत्तिभवनद्वैतम् । तत्र तावद् यः सन्निधिर्न हि स सन्निधिमात्रवृत्तिरस्ति, कुतः ? अनापन्नत्वात् , आपत्तिरनाविर्भूतस्याविर्भावः, तत आह-अनाविर्भूतत्वात् , अनाविर्भवनमप्रवर्तनम् , अप्रवर्तनं चानियमः । अथवा आपत्तिर्विपरिणामो भावान्तरेणोपलब्धिः, आविर्भावो व्यक्तिः, प्रवृत्तिः सन्ततः परिणामप्रबन्धः, नियतस्वरूपत्वमविगतद्रव्यार्थ भावस्थितिः, एभ्यो विपर्ययोऽनापन्नत्वादिः, तेभ्यो हेतुभ्योऽनापन्नत्वादिस्वरूपेभ्यो नास्ति वन्ध्यापुत्रवत् 20 सन्निधिः । आदिग्रहणादप्रवृत्तेरव्यक्तरनियतेरित्यादिभ्यः । अतः सन्निधेरसत्पर्यायत्वात् सन्निधिभवना भावः । ननूक्तम् – अस्तिभवत्यादिषु अस्ति-वर्तती सन्निधिवाचिनौ, भवति-विद्यती सामान्यभवनवाचिनौ, पद्यतिरापत्तिभवनवाची [ ] इति, सत्यमुक्तम् , अयुक्तं तूक्तम् , अस्त्यादीनां सन्निपातषष्ठानां सत्तार्थवाचित्वात् सर्वेऽप्यमी सत्तार्थमेवाविशेषेण ब्रुवते । सा च सत्ता पद्यति-वर्तत्येकाँथैवेत्यत आह -पद्यति-वर्तत्यर्थप्रवृत्तत्वादेव सत्तायाः । स्यान्मतम् - सद्विशेषद्रव्य-गुण-कर्मवद् 25 वर्ततिपद्यत्योरुपादानं सत्ताविशेषत्वेनेति । एतच्चायुक्तम् , यस्माद् न हि द्रव्यादिस देत्यादि यावदुपादानमिति गतार्थम् । किं तथुपादानम् ? उच्यते- अस्त्यादितुल्यार्थत्वेन । कुतो ज्ञायते इति चेत्, सत्तार्था इत्यविशेषेण वचनात् , अस्ति-भवति विद्यति-पद्यति वर्ततयः सन्निपातषष्ठाः सत्तार्थाः [ ] इत्यविशेषेणोक्तत्वात् सिद्धसेनसूरिणा । १* * एतचिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ २ "पुरुषार्थ एव हेतुर्न केनचित् कार्यते करणम् [ साङ्ख्यका० ३१॥ पुरुषार्थः कर्तव्य इति गुणाना प्रवृत्तिः।"-जे० साङ्ख्यका० ७० B॥३ सर्वासर्वात्मप्र०॥ ४ भव्यभवत भा०॥ ५ त्वैवं प्र०॥ ६ दृश्यतां पृ० २६१ पं०१८ । पूर्ववर्णनादत्र भेदो दृश्यते इत्यपि ध्येयम् ॥ ७°कार्थे चेत्यत प्र०॥ ८ दृश्यतां पृ० ३४ पं० २१॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662