Book Title: Dvadasharam Naychakram Part 1 Tika
Author(s): Mallavadi Kshamashraman, Sighsuri, Jambuvijay
Publisher: Atmanand Jain Sabha

View full book text
Previous | Next

Page 436
________________ साङ्ख्यमतेन प्रधानास्तित्वसाधनम्] द्वादशारं नयचक्रम् ३१९ धृतिसङ्ग्रहपक्तिव्यूहावकाशदानैः परस्परार्थं कुर्वन्ति । इन्द्रियाण्यप्यन्योन्यविषयग्रहणसाहायकेनोपकुर्वन्ति । यच्च यस्य विषयं प्रख्यापयति अर्जयति पाति संस्करोति उपधत्ते वा तत् कारणमितरत् कार्यम् । स्थानसाधनात्मप्रख्यात्युपभोगैः करणार्थं करोति कार्यम् , करणं वृद्धिक्षतभग्नसंरोहणसंशोकपरिपालनैः कार्यार्थं करोति । एवं बाह्याध्यात्मिकानां दैवमानुषतैर्यग्योनानां सप्रपञ्चानामन्योन्योपकारः रक्षा-सङ्ग्रह-सेवन-पूजन-पोषणस्थिति-शुश्रूषादिविकल्पा वर्णाश्रमादीनां योज्याः । एककर्तृका भेदाः, परस्परोपकारकोपकार्यत्वात् , शयनादि-5 वत् । तस्मादस्ति प्रधानमिति । __ इतश्च अस्ति शक्तिमदवस्थामात्रत्वाच्छक्तीनाम् । कार्यकारणानामधिष्ठितानामनधिष्ठितानां , स्वकार्यसमास्त्रिषु कालेषु शक्तयोऽवतिष्ठन्ते । तद्यथा-प्राक् प्रवृत्तेः शक्त्यवस्थानमनुमीयते प्रवृत्त्युपलब्धेः, प्रवृत्तिकालेऽवस्थानमपवर्गदर्शनात् , प्रवृत्त्युत्तरकालावस्थानं प्रवृत्तिव्यतिरेकेणावस्थानदर्शनात् । एवमाद्यन्तवद् व्यक्तमुपलभ्य व्यक्तशक्त्यवस्था स्ति, अनवस्थितशक्तेराद्यवसानाभावात् खपुष्पवत्, अवस्थितशक्तेरेव 10 तद्भावाद् मृदः पिण्डादिभाववत् । तस्माद् व्यक्तशक्तिप्रवृत्त्युपलब्धरस्ति प्रधानमिति । १ वृत्तिस प्र० । “सहभावे तु तेषामुपकारो न प्रतिषिध्यते, तद्यथा पृथिव्यादीनां धृतिसङ्ग्रहपक्तिव्यूहावकाशदानैः।”-सालयका० युक्तिदीपिका, का० १५, पृ० ८० पं० २६ । “पृथिव्येव पृथिवीधातुः धृत्यादिधर्मधारणात् ।" - नयचक्रवृ०, पृ० २६७-१ । “पञ्च महाभूतानि कृतानि - आकाशमवकाशने, भूमिर्विहरणे, आपः पिण्डीकरणे शुद्धौ च, अग्निराहारपचने, वायुयूहने ।” जे० सालयका० वृ० B, का० ३९ ॥ २ “आह-कः पुनर्व्यक्तस्य परस्परकार्यकारणभाव इति । उच्यते-गुणानां तावत् सत्त्वरजस्तमसा प्रकाशप्रवृत्तिनियमलक्षणैर्धमैरितरेतरोपकारेण यथा प्रवृत्तिर्भवति तथा 'प्रीत्यप्रीतिविषादात्मकाः' [साय का० १२] इत्येतस्मिन् सूत्रे व्याख्यातम् । तथा शब्दादीनां पृथिव्यादिषु परस्परार्थमेकाधारत्वम् । श्रोत्रादीनामितरेतराजनरक्षणसंस्काराः । करणस्य कार्यात् स्थानसाधनप्रख्यापनादिकार्यस्य करणाद् वृद्धिक्षतभङ्गसंरोहणसंशोषणपरिपालनानि पृथिव्यादीनां धृतिसङ्ग्रहपक्ति व्यूहावकाशदानैर्गवादिभावो देवमानुषतिरश्वा यथर्तुविधानेज्यापोषणाभ्यवहारं संव्यवहारेतरेतराध्ययनं वर्णानां स्वधर्मप्रवृत्तिविषयभावः । अन्यच्च लोकाद् यथासम्भवं द्रष्टव्यम् ।" सायका० युक्ति दीपिका, का० १५॥कार य० । दृश्यतां पृ० २९८ टि० ३ ॥ ४ "देहस्य वृद्धिक्षतभनसंरोहणादि. निमित्तत्वात् [प्रशस्त० भा०] देहस्येति । वृद्धिरवयवोपचयः भमक्षतयोर्विघटितविश्लिष्टयोरस्थिचर्मासभागयोः संरोहण पुनः सङ्घटनम् ।” इति प्रशस्तपादभाष्यकिरणावल्याम् आत्मनिरूपणे । दृश्यतां टि. २॥ ५ "तैर्यग्योनमानुषदेवतानि च परस्परार्थत्वात् । [व्यासभा०] । परस्परार्थत्वादिति । मनुष्यशरीरं हि पशुपक्षिमृगसरीसृपस्थावरोपयोगेन ध्रियते, एवं व्याघ्रादिशरीरमपि मनुष्यपशुमृगादिशरीरोपयोगेन, एवं पशुपक्षिमृगादिशरीरमपि स्थावराधुपयोगेन, एवं देवशरीरमपि मनुष्योपहृतच्छागमृगकपिज्जलमांसाज्यपुरोडाशसहकारशाखाप्रस्तरादिभिरिज्यमानं तदुपयोगेन, एवं देवतापि वरदानवृष्ट्यादिभिर्मनुध्यादीनि धारयतीत्यस्ति परस्परार्थत्वमित्यर्थः।" इति पातञ्जलयोगदर्शनव्यासभाष्यस्य वाचस्पतिमिश्रप्रणीतायां तत्त्ववैशारा वृत्तौ २।२८ ॥ ६ (काराः?) ॥ ७ °सेचनपूजनपोषण भा० ॥ ८°षादेर्विकल्पा य० ॥ ९ श्रया(श्रम्या?). दीनां प्र० । ब्राह्मणक्षत्रियवैश्यानां वर्णानां ब्रह्मचारि-गृहस्थ-वानप्रस्थ-यतीनामाश्रमिणां च कार्याणि वर्णितानि वैशेषिकदर्शनप्रशस्तपादभाष्ये द्रष्टव्यानि धर्मनिरूपणे । स्मृत्यादिष्वपि धर्मशास्त्रेषु तद्वर्णनमस्ति ॥ १०चा भा० । अत्र वा इत्यपि पाठः स्यात् ।। ११ “किञ्चान्यत् , शक्तितः प्रवृत्तेश्च । इह यावती काचिल्लोके प्रवृत्तिरुपलभ्यते सा सर्वा शक्तितः । तद्यथाकुम्भ कारस्य दण्डादिसाधनविन्यासलक्षणायाश्च शक्तेः सन्निधानाद् घटकरणे प्रवृत्तिः, अस्ति व्यक्तस्य चेयं कार्यत्वात् तद्भावेन प्रवृत्तिरिति । अतस्तस्यापि शक्त्या भवितव्यम् । यासौ शक्तिस्तदव्यक्तमिति । आह-प्राक् प्रवृत्तेः शक्यभावः प्रवृत्त्यनुपलब्धेः ।........"अत्र ब्रूमः-न, अप्रसिद्धत्वात् । .."तस्मात् प्राक् प्रवृत्तेः शक्तिः । यत् पुनरेतदुक्तं तावदेव प्रध्वंस इति, अत्र ब्रूमः-न, कार्यनिष्ठादर्शनात् । यदि प्रवृत्तिसमकालमेव प्रध्वंसः स्यात् कार्यनिष्ठैव न स्यात् , तन्निमित्तत्वात् कार्यस्य । ..... तस्मान्नास्ति शक्तीनां प्रवृत्तिकाले विनाशः । प्रवृत्त्युत्तरकालमपि नास्ति । कस्मात् ? पुनः प्रवृत्तिदर्शनात् । ...... तस्मात् त्रिषु कालेषु शक्तयोऽवतिष्ठन्ते।"-सात्यका० युक्तिदीपिका, का० १५॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606 607 608 609 610 611 612 613 614 615 616 617 618 619 620 621 622 623 624 625 626 627 628 629 630 631 632 633 634 635 636 637 638 639 640 641 642 643 644 645 646 647 648 649 650 651 652 653 654 655 656 657 658 659 660 661 662