________________
[ तृतीये विध्युभयारे
प्रवर्त्यव्यक्तिस्वरूपः, तथाव्यापारणाद् रजःप्रवृत्त्यात्मरूपापादनादितरतथात्मरूपापादनाद् रजोवत् । रजोऽपि हि इतरतथास्वरूपापादनादृते किमन्यत् करोति ?
२७४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
एवं च पल्लववद् रज एवापद्यते तथा प्रकाशस्य प्रवर्त्यत्वात् । तथाप्रकाशानतिरिक्ततत्त्वरूपत्वाद्वा प्रवृत्तेः कुतोऽपल्लवपवनभेदसाधर्म्यम् ? युज्यते हि पल्लव
3
प्रवर्तनात् इह रजः सन्निहितमपि प्राक् सन्निधिमात्रा देवाप्रवर्तकं स्वयमप्रवृत्तं सत्त्वाधीनप्रवृत्तित्वात्, किन्तु प्रवर्त्यमप्रवर्तनात् । कस्तर्हि प्रवर्तकः ? उच्यते - य एवासौ सत्त्वस्यात्मा प्रकाशः । कथमिति चेत्, उच्यते - तथाप्रवर्त्यव्यक्तिस्वरूपः, तेन तेन प्रकारेण शब्दादिनिर्वर्त्यप्रकारेण प्रवर्त्यव्यक्तिस्वरूपः प्रकाश नर्तकाचार्य इव क्षेपणादिप्रवर्तनाभिव्यञ्जनात्मना नर्तक्योः प्रवर्तमानः प्रवर्तकः । किं कारणम् ? तथाव्यापारणात् तेन व्यक्तिरूपेण प्रवर्तमानस्य रजसो व्यापारणात्, सत्त्वेनैव हि प्रकाशनरूपेण प्रवर्त10 मानेन रजः प्रवर्त्यते, तस्मात् संच्यस्यात्मा प्रकाशस्तथाव्यापारणाद् रजसः प्रवर्तक इति त्वदभिमतप्रवर्तकत्वविपर्ययापत्तिरेव रजसः प्रवर्त्यत्वात् सत्त्वेन सत्त्वाधीनप्रवृत्तित्वात् सत्त्वस्यैव प्रवर्तकत्वात् पक्षधर्मविपरीतता चेति । तच्च सत्त्वस्य प्रवर्तकत्वं रजःप्रवृत्त्यात्मरूपापादनात्, रजसो हि प्रवृत्तिरात्मा, तदेव रूपं रजःप्रवृत्त्यात्मरूपम्, तदापाद्यते सत्त्वेन सत्त्वाप्रकाशिते प्रवृत्त्यभावात्, सत्त्वापादितं प्रवृत्त्यात्मकरूपं रजः, २००-१ तस्माद् रजःप्रवृत्त्यात्मरूपापादनात् सत्त्वं प्रवर्तकम् ईंतरतथात्मरूपापादनाद् रजोवत् । रजोऽपि हि 15 इत्यादि, रजसोऽपि हि प्रवर्तकत्वमित्थमेव युज्यते, रजोऽपि हि यस्मात् त्वन्मतेन प्रवर्तमानमितरयोः सत्त्वतमसोस्तथास्वरूपापादनादृते किमन्यत् करोति ? प्रवृत्तिरूपमेवापादयत् प्रवर्तकमितीष्यते, नान्यथा । यथा तत् पूर्वं प्रकाशनियमात्मभ्यामप्रवृत्तयोस्तयोः प्रवर्तनादेव प्रवर्तकमेवं सत्त्वमितस्तथास्वरूपापादनात् प्रवर्तकमस्तु, को दोषः ?
एवं च पल्लववद् रज एवापद्यते, एवं च कृत्वोक्तविधिना पल्लवस्थानीयं प्रवर्त्यं रज एव न प्रवर्त20 कम्, सत्त्वमेव च प्रवर्तकं पवनस्थानीयं न प्रवर्त्यमित्यापन्नम् । किं कारणम् ? तथा प्रकाशस्य प्रवर्त्य -
त्वात् यस्मात् तेन प्रकारेण प्रवर्त्यत्वं रजसः प्रकाशेन तस्माद् रजसः प्रकाशेन प्रवर्त्यत्वादित्यर्थः, उक्तं
"
हि - रजसः प्रवृत्तिरात्मरूपम्, तदापादयति प्रकाशः प्रकाशाप्रकशिते रजसोऽप्रवृत्तेः [
] इति । तस्मात् प्रकाशेन तथा प्रवर्त्यत्वाद् रजसः साधूक्तम् - तदात्मन एव प्रवृत्तत्वादिति । एवं तावत् सत्त्वरजसोर्भेदमुपगम्य हेतोरसिद्धिर्विपर्ययत उक्ता, नैव वा सत्त्वव्यतिरिक्तं रंजोऽभ्युपेम इत्यत आह-तथा26 प्रकाशानतिरिक्ततत्त्वरूपत्वाद् वा प्रवृत्तेः, व्याख्यातप्रकारस्य प्रकाशस्य तत्त्वमतिरिच्य नास्ति प्रवृत्तेः स्वरूपम्, तत एव हेतोः कुतोऽपल्लवपवन भेदसाधर्म्यं सत्त्वरजसोरभिन्नत्वात् पल्लवपवनयोर्भिन्नत्वात् ?
१ दृश्यतां पृ० २०८-२ ॥ २ क्याः प्रवर्तमानप्रवर्तकः डे० लीं० रं० ही ० । क्याः प्रवर्तकः भा० ॥ ३ सतस्यात्मा प्र० ॥ ४ वात्मत्वेन भा० ॥ ५ सर्व प्र० ॥ ६ इतरथात्म प्र० ॥ ७ कर्म य० ॥ ८ रथा य० ॥ ९ " कृत्यानां कर्तरि वा " [ पा० २।३।७१] इति सूत्रेण उभयोरपि षष्ठीतृतीया विभक्त्योन्यय्यत्वाद् वृत्तिकृता अस्य पदस्य 'प्रकाशेन' इति व्याख्यानेऽपि न दोषः । दृश्यतां पृ० २०८-२ ॥ १० शितरजसो २० ही० ॥ ११ दृश्यतां पृ० २७३ पं० ६ ॥ १२ रजोग्यपेम प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org