________________
२७३
प्रकाशप्रवृत्त्योरैक्यापादनम्] द्वादशारं नयचक्रम्
पूर्ववदुदाहरणादेवाप्रवृत्त्यात्मकत्वं सुखस्य, को हि विशेषो रजःप्रवर्तनाहते क्षीरदधिपरिणामकालवत् पश्चात् प्रवृत्तं पूर्व च न प्रवृत्तमिति ? न, परिणामस्य तत्रैवोक्तत्वात् प्रकाशात्मैव वृत्तिः, इतरथा स प्रकाशो न स तथाऽप्रवृत्तत्वात् तथाऽभूतत्वाद् घटपटवत् । यैव च प्रवृत्तिः स एव प्रकाशः, तथावृत्तत्वात्, घटघटखात्मवत् ।
प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेत्, न, तदात्मन एव प्रवृत्तत्वात् सन्निधिमात्रात् पूर्ववदप्रवर्तनात् । य एवासौ सत्त्वस्यात्मा प्रकाशः स प्रवर्तकस्तथा
एवं तावदप्रवृत्तप्रवृत्तिप्रतिषेधादैनग्निप्रकाशदृष्टान्तप्रसङ्गागतवादमवतार्य पूर्ववदुदाहरणे प्रसङ्गमुत्थापयिष्यन्नाह -पूर्ववदुदाहरणादेवेत्यादि यावन्न प्रवृत्तमिति । नन्वेतत् त्वयाभ्युपगतं पूर्वावस्थोदाहरणादेव 'पाश्चात्त्यावस्था विशिष्टा' इति । अन्यथा हि को विशेषः पूर्वपरावस्थयो रजःप्रवर्तनादृते ? १९९-१ तस्मात् स विशेषो रजःप्रवर्तनादेव । को दृष्टान्तः ? क्षीरदधिपरिणामकालवत् , यथा क्षीरावस्थातो दधित्वपरिणामावस्था विशिष्टा पूर्व क्षीरकाले न दध्यासीत् पश्चाद् भूतमिति दृष्टम् , प्रकर्षवृत्त्या च विना न भवत्ययं विशेषस्तथा सोऽपीति । एतन्न, परिणामस्य तत्रैवोक्तत्वात् , नायं विशेषः परतः सिध्यति, कुतः ? परिणामस्य तत्रैव सुखेऽभ्युपगम्यास्माभिरुक्तत्वात् । यस्मात् प्रकाशात्मैव वृत्तिः, प्रकाशस्य यः खात्मा स एव वृत्तिः, प्रकाशस्यैव च वृत्तिः कालः, स च ततोऽनन्यः, क्षीरदधिपरिणामावस्थयोः काला- 15 ख्यत्वात् क्षीरदधित्वापत्तिः कालभेदात् , स च परिणामः सुखस्वात्मेति नान्यत् कारणं मृग्यं स्वात्मन एव परिणामात् । इतरथा स प्रकाशो न सः, स प्रकाश एवं यदि प्रवृत्तिविशेषो न स्यादन्यात्मा स्यात् स एव प्रकाशात्मा न स्यात् , तथा प्रवृत्तत्वात् तेन प्रकाशात्मप्रकारेणाप्रवृत्तत्वात् , पर्यायेण तमर्थं स्फुटीकुर्वन्नाह - तथाऽभूतत्वादित्यर्थः । दृष्टान्तो घटपटवत् , यथा घटः पटो न भवति तेन प्रकारेणाभूतत्वात् पटोऽपि घटो न भवति तथा स प्रकाशोऽप्रकाश एव स्यादिति । विपर्ययेण तत्स्वरूपसाधनमुच्यते - यैव 20 च प्रवृत्तिः स एव प्रकाशो नान्यः कश्चिदर्थ इति प्रतिज्ञा, तथावृत्तत्वात् तथाप्रवृत्तत्वादित्यर्थः घटघटस्वात्मवत् , यथा घटप्रकारेण घटात्मनैव वृत्तत्वादू घट एव घटस्वात्मा नान्यत् किञ्चित् तथा प्रवृत्तिरेव प्रकाश इति ।
प्रवर्त्यप्रवर्तकत्वात् पल्लवपवनवन्नेति चेत् । स्यान्मतम्-'यैव प्रवृत्तिः स एव प्रकाशः' इत्य- १९९-२ युक्तं प्रवर्त्यप्रवर्तकयोर्भेदात् , प्रवयं हि सत्वं प्रवर्तकं रजः, तस्मात् प्रवर्यप्रवर्तकत्वात् तयोर्भेदः पल्लव-25 पवनवत् , यथा पल्लवपवनौ प्रवर्त्यप्रवर्तको परस्परतो भिन्नौ तथा सत्त्वरजसी इति । एतच्च न, तदात्मन एव प्रवृत्तत्वात् , तस्यात्मा तदात्मा, तदात्मनः प्रकाशात्मन एव प्रवृत्तत्वात्, सत्त्वरजसोर्भदासिद्धेः पल्लवपवनवद् भेदसाधाभावादयुक्तोऽयं दृष्टान्त इति वक्ष्यति । तद्वयाख्यानार्थमाह - सन्निधिमात्रात् पूर्ववद
१ दृश्यतां पृ. २०७-१॥ २ दृश्यतां पृ० २०७-२॥ ३°दग्निप्र प्र० । दृश्यतां पृ० २७० पं० ५ ॥ ४ मव(प.)सार्य प्र०॥ ५ दृश्यतां पृ० २७० पं० ४॥ ६पूर्वक्षी प्र०॥ ७ घटपट प्र०॥ ८ दृश्यतां पृ. २७४ पं० ४ ॥
नय० ३५ Jain Education International For Private & Personal Use Only
www.jainelibrary.org