________________
२७२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे ___ एवं तु नानयोरितरेतरानुग्राहिता उत्थाप्यसाहायकशक्तित्वाद् वाताहतनी द्वयवद् ग्लानशिबिकावाहकवत् । असम्पूर्णशक्तिता वाऽप्रकर्ष इति कारगतैव न स्यात् तस्य असम्पूर्णशक्तित्वादुपहतबीजवत् । असदकरणादितश्चान्यतो न तत्वरूपव्यक्तिः। यदा च सुदूरमपि गत्वा प्रागवृत्तेरसत्कार्यत्वं मा भूदिति प्रकर्षः 5 परिणामादेव तदा युवत्ववदात्ममात्रवृत्तित्वमेव परिणामस्यान्यत्र वृत्तस्यान्यत्रापरिणामकत्वात् , नान्यत्र वृत्तोऽन्यदन्यथा करोति ।
एवं त्वित्यादि। नानयोः सत्वरजसोरितरेतरानुग्राहिता उत्थाप्यसाहायकशक्तित्वात् , सहायभावः साहायकम् , तस्मिंस्तेन तदेव वा शक्तिः, सा उत्थाप्या ययोस्तदानीमेव ते वस्तुनी उत्थाप्यसाहायकशक्तिनी, तद्भावादुत्थाप्यसाहायकशक्तित्वाद् वाताहतनौद्वयवत् , यथा जलेऽन्योन्याबद्धे द्वे नावौ नेतरेतरत्राणाय तथा 10 सत्त्वरजसी । शिबिकावाहकवदितरेतरानुग्राहिता किं न भवेदिति चेत् , न, 'उत्थाप्य'विशेषणात्, अयमेव हि दृष्टान्तो ग्लानशिबिकावाहकवत् , यथा ग्लानोऽनुत्थापितो न शक्नोति वोढुमुत्थाप्यसाहायकशक्तित्वात् तथानुत्थापिते सत्त्वरजसी न शक्नुतः परस्परं प्रवर्तयितुं स्वयमलब्धात्मके इति प्रकर्षवृत्तेरभावः, प्रकर्षवृत्त्यभावादसम्पूर्णशक्तितेत्यत आह - असम्पूर्णशक्तिता वाऽप्रकर्ष इति इत्थं कारणतैव न स्यात् तस्य सत्त्वस्य असम्पूर्णशक्तित्वादुपहतबीजवत् , यथोपहतं बीजमसम्पूर्णाङ्करोत्पादनशक्ति15 त्वान्न कारणमेवं सत्त्वमपि स्यात् । अभ्युपेत्यापि कारणत्वं साम्यावस्थायां सत्त्वस्य असदकरणादित
श्चान्यतो न तत्स्वरूपव्यक्तिः, तस्य सत्त्वस्य प्रकाशनस्वरूपप्रकर्षोऽन्यतो रजस्तमसोः पुरुषतोऽन्यतोऽन्यतो ...वा कुतश्चिन्न भवति असदकरणादिभ्यो हेतुभ्यः, तद्यथा- अंसदकरणाद् यथा मृदि सदेव कार्य
घटादि क्रियते न खपुष्पादि, स च मृदः स्वात्मनियतो घटात्मस्वरूपव्यक्तिप्रकर्षों नान्यतः पुरुषादेस्तन्त्वादेर्वापत्तिकारणाद् भवति, किं तर्हि ? स्वत एव भवति, तथा सत्त्वस्वरूपव्यक्तिप्रकर्षो नान्यतो भवति, किं 20 तर्हि ? स्वत एव । एवम् उपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् [ साङ्ख्यका० ९] इत्येतेभ्यो हेतुभ्यः सत्त्वगुणोऽन्यनिरपेक्षस्वरूपव्यक्तिप्रकर्ष इति ग्राह्यम् । एवं सत्त्वस्य प्रकाशनं तमसा सह योज्यं रजसश्च प्रवर्तनमिति ।
किश्चान्यत् , यदा च सुदूरमपीत्यादि यावत् परिणामकत्वात् । सुदूरमपि विचाराधना गत्वा न प्रागवृत्तेरसत्कार्यपरिहारेण प्रकर्षः परिणामवादाढते, अतः परिणामः प्रकर्षेण वृत्तेः कारणमेषित25 व्यम् । यदा चैवं तदा परिणामाभ्युपगमेन पुनरप्येतदेवापन्नम् - परिणामादात्मन्येव वर्तते युवत्ववत्,
अन्यत्र वृत्तस्य परिणामस्यान्यत्रापरिणामकत्वात्, जिनदत्ते वृत्तः परिणामो न साधुदत्ते कौमारयौवनादि प्रवर्तयति कौमारं वा यौवनं वा, किं तर्हि ? जिनदत्त एव करोति, नान्यत्र वृत्तोऽन्यदन्यथा करोति यथा, तथा न सत्त्वे प्रवृत्तिं कश्चिदन्यः कुर्यात् , स्वत एव प्रवर्तेतेति ।
१ दृश्यता पृ० २०७-१ ॥ २ अन्योन्यमाबद्धे इत्यर्थः । दृश्यता पृ० ३४ टि० ५॥ ३"त्यादि कारणत्वं सावस्थायां प्र०॥४"असदकरणादुपादानग्रहणात् सर्वसम्भवाभावात् । शक्तस्य शक्यकरणात् कारणभावाच्च सत् कार्यम् ॥ ९॥"-साड्डयका० ॥५स्यरूप प्र०॥ ६चान्यत् किं य०॥ ७°मपीति य०॥ ८ रात्वना प्र०॥ ९ दाहतेनः परि भा० । दादतेन परि य० ॥ १० दृश्यतां पृ० २०७-१ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org