________________
२७१
साङ्ख्यमतखण्डनम्]
द्वादशारं नयचक्रम् ननु प्रकाशात्मकत्वादेव सत्त्वस्य रजसा प्रवर्त्यत्वम् , अग्नेरिव सन्धुक्षणेन । यद्यप्रवृत्तोऽसावसंस्तर्हि अप्रवृत्तवात्मत्वाद् वान्ध्येयवत् । एवं हि कार्य कारणे सद् यदि तद् वर्तते प्रवर्तते, अनारम्भात्, वर्ततेरस्त्यर्थत्वात् । _न, प्रकर्षणावृत्तत्वात् । रजोनुग्रहात् तद्रूपव्यक्तिः प्रकर्षण वृत्तिः । न, रजसोऽपि सत्त्ववदपरिसमाप्तरूपत्वात् । रजसोऽपि हि तथा काशनं व्यक्तिरिति । प्रकाशात्मकसत्त्वानुग्रहाद् भवति, अप्रवृत्तं च कथमन्यप्रवर्तने प्रवर्तेत ?
अप्रवृत्तत्वान्न प्रकाशेत । आह - ननु प्रकाशात्मकत्वादेवेत्यादि, अप्रवृत्तत्वमसिद्धं सत्त्वस्य रजसा प्रवर्त्यत्वात् अग्नेरिव सन्धुक्षणेन, यथाग्निर्भस्मच्छन्नः सन्नपि न प्रकाशते, तुषचीवरेन्धनादिभिस्तु सन्धुक्षितः प्रकाशते, न चाप्रकाशमानोऽग्निर्न भवतीति । अत्रोच्यते - यद्यप्रवृत्तोऽग्निस्तस्यामवस्थायाम-१९७२ सन्नेवासौ, अतोऽस्मदिष्टमप्रकाशत्वमेव गमयति, अग्नेहि एषा काचित् प्रकाशनस्य मात्रा सैवात्मा, प्रका-10 शनात्मप्रवृत्त्यभावात् तदासौ तीसन वन्ध्यापुत्रवत् , तथा सुखमप्यप्रवृत्तत्वादिति । एवं हीत्यादि, कारणे कार्यस्य सत्त्वमेवं हि स्याद् यदि तत् सत्वं प्रकाशात्मना प्रवर्तते, अनारम्भात् । ईतरथा अर्थान्तरसम्बन्धारभ्यत्वादसत्कार्यवाद एवायमपि स्यात् , यथाहुरसत्कार्यवादिनः "क्रियागुणव्यपदेशाभावादसत्, समवाय्यसमवायिकारणसम्बन्धे सति द्रव्याणि द्रव्यान्तरमारभन्ते, येषां चाधिकृतमारम्भसामर्थ्य तैरारब्धे कार्यद्रव्ये तत्समवेता नियमत एव गुणाश्च गुणान्तरमारभन्ते' इत्यारम्भवादः प्रसज्यते, स चानिष्टः । तस्मादनारम्भाद् 15 वर्तते सत्त्वं प्रकाशनात्मना, यस्मादेवं हि कार्य कारणे सद् यदि सत्त्वं वर्तते प्रवर्तते । किं कारणम् ? अनारम्भात् आरम्भवादपरित्यागात् । कुतो वर्तते प्रवर्तत इति पर्यायकथनमिति चेत् , उच्यते - वर्ततेरस्त्यर्थत्वात् , वर्ततेऽस्ति भवति प्रवर्तत इति पर्यायाः । इतर आह - न, प्रकर्षणावृत्तत्वात् । न हि वर्ततिः पँवर्ततिपर्यायः प्रकर्षार्थेन 'प्र'शब्देन विशिष्टाया वृत्तेरन्यार्थत्वात् वर्तनमात्रस्याविवक्षितत्वात् प्रकृष्टवृत्तिविवक्षितत्वात् । सा च रजोऽनुग्रहात् तद्रूपव्यक्तिः प्रकर्षण वृत्तिः, रजसानुगृहीतस्य 20 सत्त्वस्य बीज॑स्येवाबाद्यनुगृहीतस्योच्छूनाङ्कुरत्वादिवृत्तिः सृष्टयभिमुखी सृष्टिरेव वा सात्र विवक्षितेति । अत्रोच्यते-न, रजसोऽपि सत्त्ववदपरिसमाप्तरूपत्वात् । तस्यां ह्यवस्थायां रजःप्रवृत्तिलभ्यप्रकाशात्मरूपव्यक्तिसत्त्ववद् रजसोऽपि हि स्वरूपव्यक्तिरसमाप्तरूपैव सत्त्वात् प्रतिलभ्यत्वात् । लब्धात्मवृत्ति हि १९८०१ स्वयं सद् रजः सत्त्वे प्रकाशनप्रवर्तनाय समर्थं स्यात्, अप्रकाशितस्य सत्त्वेन तस्य स्वरूपव्यक्तिरेव नास्ति, कुतः सत्त्वप्रकाशात्मप्रवर्तना रजसः ? तथा काशनं प्रवर्तकत्वेनाभिव्यक्तिः, काशनमेव हि स्वरूप-25 व्यक्तिरिति प्रकाशात्मकेत्यादि यावत् प्रवर्तेतेति गतार्थम् , अप्रतिलब्धात्मनाननुग्रहात् ।
१ दृश्यतां पृ० २७५ पं० १९ पृ० २०६-२ ॥ २ दृश्यतां पृ० २०६-१ ॥ ३°ग्निर्भव य० ॥ ४ इतरथांतर प्र० ॥ ५ "कियागुणव्यपदेशाभावादसत्कार्यम् ।९।१।१1 द्रव्याणि द्रव्यान्तरमारभन्ते गुणाश्च गुगान्तरमारभन्ते ।१।१।१०।" इति वैशेषिकसूत्रे ॥ ६ तत्वं य० । तत्व ( त ? ) भा० ॥ ७ प्रवर्ततिः प्रवर्ततिपर्यायः भा० । प्रवर्तति प्रवर्ततिपर्यायः य० ॥ ८ प्रवृ य० ॥ ९ वर्तमानमात्र प्र०॥ १० स्यैवाचनु प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org