________________
२७०
न्यायागमानुसारिणीवृत्यलङ्कृतम् [तृतीये विध्युभयारे नन्वविभक्तरसग्रीवाद्यापत्तिवत् प्रधानस्यैव च सापत्तिः। कस्य वा न मनोरथा....'कल्पना । अविभक्तानेकार्थकारणमेवेदं विभक्तवृत्ति पृथिव्यादि मयूरग्रीवादि दध्यादि व्रीह्यादि, उक्तवक्ष्यमाणवत्।
भिन्नात्मकतायां तु सत्त्वं न प्रकाशेत, अप्रवृत्तत्वात्, पुरुषवत् पूर्वव5 दनग्निप्रकाशवद्वा। वादिनामसदापत्तिप्रवृत्तेर्यतो यस्मादिह एतेषु वादेषु भाव एव यतः नियतः 'नि'शब्दलोपात् । तस्मादप्रवृत्तिलक्षणं चेत्, न स्यात् सुखादि इति ।। .आह - नन्वविभक्तरसग्रीवाद्यापत्तिवत् प्रधानस्यैव च सापत्तिः। त्वदुक्तमयूराण्डकरसगताविभक्त
ग्रीवादिप्रविभागापत्तिभावदृष्टान्तसामर्थ्यादेव त्रिगुणसाम्यावस्थैकप्रधानापत्तिरेव सा [सिध्यति, न सुखा10 द्यापत्तिरिति । अत्रोच्यते-कस्य वा न मनोरथः कथं भवान् ‘एकमेव कारणमनेककार्यतया विपरिवर्त
मानम्' इत्येतद् दर्शनं प्रतिपाद्यतेति । तस्य च कारणस्य 'प्रधानं पुरुषो नियतिः शब्दब्रह्म' इत्यादिसंज्ञा त्वयेष्टा यास्तु सास्तु, किं नो विवादेन ? तदर्थ एव मे प्रयास एककारणमयत्वं त्वं प्रतिपादयितव्य इति, एष प्रतिपादितोऽसि, त्वमेव तु न वेत्थेति गतार्थं यावत् कल्पनेति । __ तदुपपाद्यसे-अविभक्तानेकार्थकारणमेवेदं पृथिव्यादि, अविभक्तोऽनेकार्थो यस्मिंस्तदविभक्तानेका15 र्थम् , किं तत् ? कारणमस्य पृथिव्यादेः तदविभक्तानेकार्थकारणं पृथिव्यादि, न विभक्तसुखाद्यनेकार्थात्मकैक
कारणपूर्वकम् । विभक्ता वृत्तिरस्य पृथिव्यादेस्तद् विभक्तवृत्ति पृथिव्यादि, सा वृत्तिः पृथिव्युदकघटादित्वा१९७१ पत्तिः । मयूरग्रीवादीति, ग्रीवाबई शिखण्डादिवृत्तिर्विभक्ता तदात्मानेकार्थाविभक्ताण्डकरसगतकारणैव ।
दध्यादिवृत्तिः क्षीरपूर्वा, आदिग्रहणात् पुनः शुक्ररसरुधिराङ्गोपाङ्गादि । व्रीह्यादि पूर्वोक्तम् , आदिग्रहणादाम्रपनसमातुलुङ्गादिपत्रपुष्पफलादिवृत्तिस्तदात्माविभक्तपूर्वा । दृष्टान्तबाहुल्यं व्यापित्वप्रदर्शनार्थम् । उक्त20 वक्ष्यमाणवत् , वत्करणं प्रत्येकमभिसम्बध्यते उक्तवद् वक्ष्यमाणवत् । पुरुषनियत्याद्यभिन्नैककारणवदित्युक्तवत्, 'घट एव सर्वम्' इति विधिनियम एवं वक्ष्यमाणवत् । एवं तावत् कारणमयवादो यथास्माभिरिष्टस्तथा घटते, न यथा त्वयेष्ट इत्युक्तम् । ___इदानीं त्वत्पक्षे दोषा वक्ष्यन्ते - प्रकाशप्रवृत्तिनियमानां तु भिन्नात्मकतायां सत्त्वं न प्रकाशेत इति प्रतिज्ञा दिङ्मात्रत्वेन, अप्रवृत्तत्वात् , पुरुषवत् । त्वयैव हि प्रधानावस्थायामप्रवृत्तीः समा इतीष्यन्ते 25 गुणाः सत्त्वादयः, तस्मात् सिद्धमप्रवृत्तत्वम् । पूर्ववद्वेति प्रधानावस्थायामिवेत्यर्थः, यथा प्रधानावस्थायामप्रवृत्तत्वान्न प्रकाशते सत्त्वमेवमुत्तरकालमपि । तथा रजस्तमसोः प्रवृत्तिनियमनिषेधः कार्यः । अनग्निप्रकाशवद्वा, यथाग्निरप्रवृत्तोऽप्रवृत्तिलब्धात्मा अनग्निः, अनग्निश्च न प्रकाशते, तथा सत्त्वमलब्धप्रवृत्ति . १ 'कस्य वा न मनोरथः कथं भवानेकमेव कारणमनेककार्यतया विपरिवर्तमानमित्यतत् प्रतिपाद्यतेति ? तस्य च यथेष्टमस्तु संज्ञाकल्पना' इत्याशयको मूलपाठोऽत्र सम्भाव्यते ॥ २ दृश्यतां पृ० २७८ पं० ८, पृ० २०५-२, २२३-१, २॥ ३ पत्तिप्रै(त्तेः, प्र? )वृत्ते भा० पा० विना। अत्र पत्तिप्रसक्ते इत्यपि पाठः स्यात् ॥ ४°दिरिति प्र०॥ ५ ननु विभ' प्र०॥ ६°पादिपासि त्वामेव न तु वे भा० ॥ ७°स्य देस्तद् प्र०॥ ८°ण्डकादि भा० ॥ ९ पुरा प्र०॥ १० °णत्वात् प्र० ॥ ११ एव य० ॥ १२ कतया प्र० ॥ १३ °त्तः प्र० ॥ १४ श्च प्रकाशते तथा य० । श्च प्रकाशते । त । तथा भा० । अत्र श्च 'प्रकाशते न, तथा' इत्यपि पाठः स्यात् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org