________________
सायमतखण्डनम्] द्वादशारं नयचक्रम्
२६९ प्रकाशाद्यात्मना मा प्रवर्तिष्ट निर्गुणत्वादेकत्वाद् वैषम्यानुपपत्तेरपरिणामित्वादनापत्त्यात्मकत्वात् पुरुषवत् । शब्दादि वाप्येकात्मकायेव, आपद्यमानत्वात्, सुखादिवत् । अनेकात्मकं वा सुखादि, तत एव, शब्दादिवत् ।
नैव प्रवर्तते सुखादि, अप्रवृत्तिलक्षणत्वात्, पुरुषवत् । त्रयमपि न न प्रवर्तते, अविभक्तखतत्त्वस्य तथा प्रविभक्तत्वेन व्यवस्थानात्, मयूराण्डकरसगतग्रीवादि-5 भाववत्, यत इह भाव एव यतः।
एवेति चेदित्याशङ्कायाम् , एवं चेन्मन्यसे, साधूक्तम्, एतदेव त्वा वाचयितुम॑वोचम् -- शब्दैकगुणवियदप्रवृत्तिप्रसङ्ग इति । ततश्च यत् पुनरत्रिगुणं सुखादि सुखमेव पृथक् प्रधानावस्थायां सत्त्वं तदत्रिगुणम् , एकसुखस्वात्मत्वादव्यतिरिक्तं तस्य भावस्तत्त्वं यस्य तत् सुखमेकस्वात्मत्वाव्यतिरिक्ततत्त्वम् , प्रकाशादिश्च तस्य तत्त्वस्यात्मा सर्वत्राभेदभावात् , तेन प्रकाशाद्यात्मना मा प्रवर्तिष्ट मा आपत्तिभवनमनुभूत् , निर्गु-10 णत्वात् गुणसन्द्रावानात्मकत्वात् , एकत्वात् अननेकात्मकैकत्वात्, वैषम्यानुपपत्तेरपरिणामित्वात् , १९६.१ वैषम्यापत्तितो हि परिणामित्वं स्यात् , साम्यावस्थायां तु गुणानां तदभावाद् वैषम्यानुपपत्तिः, अतोऽपरिणामित्वम् । अनापत्त्यात्मकत्वात् रूपान्तरप्राप्त्यनात्मकत्वात् , तस्यां ह्यवस्थायामेवंवरूपं सत्त्वम् । दृष्टान्तः पुरुषवत् , यथा पुरुषोऽपि निर्गुणत्वादिधर्मत्वान्न प्रवर्तते तथा सुखाद्यपि मा प्रवर्तिष्ट । निर्गुणत्वादिधर्मत्वे सत्यपि सुखादि प्रवर्तत एव चेत् तथा तद्धर्मत्वात् पुरुषोऽपि प्रवर्ततामेभ्य एव सुखादिवत् , गुणस्या-15 न्यतमस्यैव वा श्वयथुरकस्मात् कुत उत्पन्नः ? । किश्चान्यत् , शब्दादि वाप्येकात्मकायेव निर्गुणमेकं सममपरिणामि चैवमादि, आपद्यमानत्वात् प्रधानावस्थायां प्रवर्तमानत्वात् , सुखादिवत् । अनेकात्मकमित्यादि विपर्ययधर्मापादनं गतार्थं संत एवेति ।
आह -नैवेत्यादि । सिद्धसाधनमिदं 'मा प्रवर्तिष्ट' इति, न प्रवर्तत एव सुखादि, अप्रवृत्तिलक्षणत्वात्, न हि सुखं मोहो वा प्रवृत्तिलक्षणम् , किं तर्हि ? रज एव प्रवृत्तिलक्षणम् , प्रत्येकं हि 20 सत्त्वादयः प्रकाशप्रवृत्तिनियमलक्षणास्त्रयोऽपि, ततोऽप्रवृत्तिलक्षणत्वान्न प्रवर्तते सुखं पुरुषवत् । वैषम्यावस्थायां तु रजः प्रवर्तते पवर्तयति च सुखं मोहं च अप्रवृत्तिलक्षणत्वात् तयोरिति । अत्रोच्यते-त्रयमपि न न प्रवर्तते, प्रवर्तत एव, अविभक्तस्वतत्त्वस्य तथा प्रविभक्तत्वेन व्यवस्थानात् , यदविभक्तस्वतत्त्वं तेन तेन प्रकारेण प्रविभक्तत्वेन व्यवतिष्ठते तत् प्रवर्तत एव, यथा मयूराण्डकरसगतग्रीवादिभावाः, मयूराण्डकरसावस्थायां ग्रीवाबर्हादयोऽविभक्तस्वतत्त्वा ग्रीवादित्वेन प्रविभक्तरूपा व्यवतिष्ठमानाः १९६-२ प्रवर्तमाना एव, नाप्रवर्तमानाः । यन्न प्रवर्तते तदविभक्तस्वतत्त्वं सत् कदाचित् प्रविभक्तत्वेन न व्यवतिष्ठते 25 यथा पुरुषो यथा वा मयूराण्डकरसे हंसादिग्रीवादय इति । किं कारणम् ? द्रव्यार्थनयविकल्पानां सत्कारण
१ त्वाम् ॥ २ मवोच शब्द भा० । 'मवोचत शब्द य० ॥ ३त्वात् व्यति प्र० । अत्र स्वादव्यति' इत्यपि पाठः स्यात् ॥ ४°खं दृष्टान्तः भा० ॥ ५°कायेव भा०॥ ६समनपरिणामि चैवमाधपद्यमानत्वात्प्रधानावस्थानां प्र० ॥ ७ त एवेति प्र०॥ ८°चित्तत्प्रविं भा० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org