________________
२६८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे अथ कथमेककारणत्वप्रतिषेधानन्तरं शब्दैकगुणप्रवृत्ति वियदभ्युपगम्यते ? न प्रवर्तेतैवम् , असन्द्रुतेः, पुरुषवद् वन्ध्यापुत्रवद्वा।
शब्दे त्रैगुण्यमस्त्येवेति चेत्, अत्रिगुणं सुखादि एकखात्मत्वाव्यतिरिक्ततत्त्वं
एतदधुना परीक्ष्यते - अथ कथमित्यादि यावद् वियदभ्युपगम्यत इति । यद्यनेकात्मकैककारण5 त्वमिष्यते एवमेककारणत्वप्रतिषेधानन्तरं पुरुषाद्येककारणत्वप्रतिषेधाहितसंस्कारतिरोधानकालमप्य१९५२ प्रतीक्ष्य त्वया कथं शब्दैकगुणप्रवृत्ति वियदभ्युपगम्यते ? अभ्युपगम्यतां तावद् रूपादिसृष्टौ व्यवहारानु
पातिनामेषां लोके दृष्टानां 'द्विव्याद्यनेकस्पर्शरसगन्धगुणानामनेकैकत्वात् तदात्मकवाय्वादिसृष्टिरस्तु नाम, त्वन्मतेन सह घटमानमिदं तु न युज्यते शब्देनैकगुणा प्रवृत्तिरित्थम्भूतेनास्य तच्छब्दैकगुणप्रवृत्ति वियत् 'गैण गुण सङ्ख्याने' [ ] शब्दैकसङ्ख्यानप्रवृत्ति एकस्मात् कारणाद् भवत् त्वन्मतविरोधात्, नानेका10ल्मकैकस्माच्छब्दस्पर्शादिद्वित्रिचतुःपञ्चगुणाद् भवद् वाय्वादिवत् त्वेन्मताविरोधात् । प्रयोगश्चात्र-न
प्रवर्तेतैवम् , शब्दैकर्गुणाकाशं तन्न भवेदित्यर्थः, असन्दुतेः, गुणसन्द्रावो द्रव्यम् [पा० म० भा० ५।१।११९ ] इति लक्षणाभावात् , बहूनां हि गुणानामेकीभवनमैक्यगमनं सन्द्रुतिः, तदभावोऽसन्द्रुतिः, ततोऽसन्द्रुतेर्न प्रवर्तेत, पुरुषवद् वन्ध्यापुत्रवद्वेत्येतदनिष्टापादनमिति ।
अत्राह - शब्दे त्रैगुण्यमस्त्येवेति चेत्। सर्वस्योक्तसुखदुःखमोहमयत्वाच्छब्दोऽपि तदात्मा त्रिगुण "तेभ्यो भूतानि पञ्च पञ्चभ्यः । तत्र शब्दतन्मात्रादाकाशम् , स्पर्शतन्मात्राद् वायुः, रूपतन्मात्रात्
तन्मात्रादापः, गन्धतन्मात्रात् पृथिवी । 'तेभ्यो भूतानि' इति वक्तव्ये 'पञ्च पञ्चभ्यः' इति ग्रहणं समसङ्ख्याकतस्तदुत्पत्तिज्ञापनार्थम् , तेन एकैकस्मात् तन्मात्रादेकैकस्य विशेषस्योत्पत्तिः सिद्धा । ततश्च यदन्येषामाचार्याणामभिप्रेतम् - एकलक्षणेभ्यस्तन्मात्रेभ्यः परस्परानुप्रवेशादेकोत्तरा विशेषाः सृज्यन्ते इति, तत् प्रतिषिद्धं भवति । किं तर्हि ? अन्तरेणापि तन्मात्रानुप्रवेशमेकोत्तरेभ्यो भूतेभ्य एकोत्तराणां भूतविशेषाणामुत्पत्तिः । तत्र शब्दगुणाच्छन्दतन्मात्रादाकाशमेकगुणम् । शब्दस्पर्शगुणात् स्पर्शतन्मात्राद् द्विगुणो वायुः । शब्दस्पर्शरूपगुणाद् रूपतन्मात्रात् त्रिगुणं तेजः । शब्दस्पर्शरूपरसगुणाद् रसतन्मात्राचतुर्गुणा आपः । शब्दस्पर्शरूपरसगन्धगुणाद् गन्धतन्मात्रात् पञ्चगुणा पृथिवी ।"-सात्यका युक्ति दीपिका, का. ३८ । “शब्दतन्मात्रादाकाशम् , स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात् तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात् पृथिवी । एवं पञ्चभ्यः तन्मात्रेभ्यः पञ्च भूतान्युत्पद्यन्ते ।" जे० साडयका०वृ० A, का० २२ । एवं गौडपादभाष्येऽपि, का० २२ । "पञ्चभ्यः पञ्च महाभूतानि शब्दतन्मात्रादाकाशम् , तदेकलक्षणम् । स्पर्शतन्मात्राद्वायुः, स द्विगुणलक्षणः । रूपतन्मात्रात् तेजः, तत् त्रिगुणलक्षणम् । रसतन्मात्रादापः, ताश्चतुगुणाः । गन्धतन्मात्रात् पृथिवी, सा पञ्चगुणा । एवं पञ्चभ्यः पञ्च महाभूतान्युत्पद्यन्ते।" जे० साङ्ख्यका०वृ० B, का० २२ । “शब्दतन्मात्रादाकाशम् , स्पर्शतन्मात्राद्वायुः, रूपतन्मात्रात् तेजः, रसतन्मात्रादापः, गन्धतन्मात्रात् पृथिवी, इत्यादिक्रमेण पूर्वपूर्वानुप्रवेशेन एकद्वित्रिचतुष्पञ्चगुणानि आकाशादिपृथ्वीपर्यन्तानि महाभूतानीति सृष्टिक्रमः।" सायका० माठरवृ०, का० २२ । “शब्दतन्मात्रादाकाशं शब्दगुणम् , शब्दतन्मात्रसहितात् स्पर्शतन्मात्राद्वायुः शब्दस्पर्शगुणः, शब्दस्पर्शसहिताद्रूपतन्मात्रात् तेजः शब्दस्पर्शरूपगुणम् , शब्दस्पर्शरूपतन्मात्रसहिताद्रसतन्मात्रादापः शब्दस्पर्शरूपरसगुणाः, शब्दस्पर्शरूपरसतन्मात्रसहिताद् गन्धतन्मात्राच्छब्दस्पर्शरूपरस. गन्धगुणा पृथिवी जायते ।” साङ्ख्यतत्त्वको०, का० २२ ॥ २ "इत्थंभूतलक्षणे" [पा० २।३।२१] इति सूत्रेण तृतीया ॥ ३“१८५४ गण संख्याने,.....१८९३ ग्राम १८९४ कुण १८९५ गुण चामन्त्रणे।” इति पाणिनीयधातुपाठे। "गणण संख्याने, कुण गुण केतण् चामन्त्रणे” इति हैमधातुपाठे १०१३०६-३०९ ॥ ४ नानका य० । नानेकैका भा०॥ ५ (त्वन्मतविरोधात् ?)॥ ६ गुण[मा ? ]काशं प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org