________________
२६७
साङ्ख्यमतेन प्रकृतिपुरुषनिरूपणम्] द्वादशारं नयचक्रम्
सुखं च दुःखं चानुशयं च वारेणायं सेवते तत्र तत्र । विशन्ति योनि व्यतिरेकिणस्त्रयः अजस्तु जायामतिमत्यशुद्धः ॥ [ उभा सखायौ सयुजा सपर्णी समानं वृक्षं परिषस्वजाते। तयोरेकः पिप्पलं स्वाद्वत्त्यनश्नन्नन्योऽभिचाकशीति ॥ [ मुण्डको० ३।१।१]
]
क्रमेण ब्रह्मादिस्तम्बान्ताः सृजमानामुत्पादयन्तीं सरूपाः सुखाद्यात्मिका आत्मरूपा आत्मसरूपाः, B येतो ह्यजा बहुवर्णिकात्मस्वरूपप्रजासर्जिनी प्रधानीति गण्यते । तामजो ह्येको जुषमाणः सेवमानः प्रीयमाणः, स हि न जायत इत्यजो नित्यत्वात् , एकः सन्निधिभवनस्याभिन्नस्यैकरूपत्वात् सर्वगतत्वाच्च, तामेव जुषमाणोऽनुशेते अनुशयमनुबन्धं च तस्या न मुञ्चति अनुधावतीत्यर्थः, यथा वत्सोऽजामनुधावति तथा तां प्रकृतिं पुरुषः । जहात्येनां भुक्तभोगामजोऽन्यः, असावेव पुरुषोऽन्य एव तस्या उपरतः संवृत्तो भुक्तभोगां दृष्टदृश्यां विदितात्मानात्मविशेषः प्रकृतिपुरुषान्तरज्ञो नर्तक्या इव विकारान् 10 बाह्यान् भ्रक्षेपक्रमकरवलनादीननुशयहेतूनन्तःकरणशरीरादिसमुद्भूताननात्मभूतानुपलभ्य भिक्षुरिव स्वभावावचिन्तनाद् विरक्तोऽहमनया वृथा क्लेशितो बहिरन्तरशुद्धयेति विरमति, सापि दर्शितविकारा 'दृष्टाहमनेन' १९५-१ इति ब्रीडितेव विनिवर्तत इति । तथैतदर्थसम्बन्धिनी व्याख्यातैव द्वितीया गाथा
सुखं च दुःखं चानुशयं च वारेणायं सेवते तत्र तत्र ।
विशन्ति योनि व्यतिरेकिणस्त्रयः अजस्तु जायामतिमत्यशुद्धः॥ इति । 15 उभा उभौ, सुपां डादेशादुभा । सखायौ अन्योन्यसहितावेव विभुत्वनित्यत्वाभ्याम् । सयुजा पूर्ववद् डादेशात् समानयुजौ समानस्य सकारादेशात् । सह पर्णाभ्यां सपौँ सपक्षौ शुद्ध्यशुद्धिपक्षौ । सुयुजौ सुपर्णाविति वा पाठः, सुष्टु अतीव युक्तौ सर्वगतत्वादविभागेन सदा युक्तौ शोभनपर्णौ च परस्परबन्धैक्यापत्तिजनितविचित्रवर्णसुखासुखपक्षौ । एकं वृक्षं लोकाख्याश्वत्थम्, स्थैत्वादचलत्वाद् वृक्षोऽश्वत्थसाध
ात् , परिषस्वजाते परिष्वक्तवन्तौ । तयोरेकः तयोः शकुन्योरेकवृक्षपरिष्वङ्गिणोरेक एव शकुनिर्भोग- 20 समर्थस्तस्य पिप्पलस्य पिप्पलं फलं स्वाद भोग्यविकारविशेषं विचित्ररसमत्ति खादति भुते पुरुष एव भोक्तृत्वाज्ज्ञत्वात् । अनश्नन्नन्यः प्रकृतिसंज्ञः शकुनिरभुञ्जानः अभिचाकशीति आभिमुख्येन तस्यात्यर्थ काशते, शकुनिप्रस्तुतेः ''पुल्लिङ्गम् ।
१“द्वा सुपर्णा सयुजा सखाया" इति मुण्डकोपनिषदि पाठः ॥ २ प्रत्या य० । पत्या भा० । अत्र प्रकृत्या इत्यपि पाठः स्यात् ॥ ३ प्रधानेति भा० ॥ ४ दृष्टदृश्या य० । दृश्या भा० ॥ ५°षांरज्ञो भा० । षांराज्ञो य० ॥ ६"सुखलेशस्य तद्व्याप्तत्वाद् यावदिदं लिङ्गं न निवर्तते तावदवश्यं दुःखेन भवितव्यम् , पर्यायेण संस्कारस्य सामर्थ्यालो कान्तरोपपत्तेः । तथा चाह -सुखं च दुःखं च हि संशयं च वारेणायं सेवते तत्र तत्र।" इत्येवमस्या गाथायाः पूर्वार्धमात्रमुद्धृतं युक्तिदीपिकाख्यायां सात्यकारिकावृत्तों ५५॥ ७ ही० ॥ ८ सत्यपा० डे० ली०॥ ९°ऽशुद्धः डे० लीं० २० ही० ॥ १० सुपी डा प्र० । “सुपा सुलुक् पूर्वसवर्णाच्छेयाडाज्यायाजालः ।७।१।३९।” इति पाणिनीयव्याकरणे ॥ ११ स्तत्वाद भा० । स्तत्वत्वाद य० ॥ १२ पुलिंगम् प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org