________________
२६६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे भूतादीनि वैकारिकारब्धानि चेन्द्रियाणि त्रयाणां सुखदुःखमोहानां सन्निवेशविशेषाः सुखादिमया एव, तथा पृथिव्यादयस्तन्मयकारणारब्धत्वात् । यद् यन्मयैः कारणैरारब्धं तन्मयं तत्, कासिकपटवत् । भूतैरारब्धानि पुनः शरीरादीनि पटकुटिवत् परम्परारब्धत्वात् । अनेकात्मकैकपूर्वकं शरीरमन्वितविकारत्वाच्चन्दन5 शकलवत्, नैकैकपूर्वकं नापूर्वकमन्वितत्वात् । अन्वाह च
अजामेकां लोहितशुक्लकृष्णां बह्वीः प्रजाः सृजमानां सरूपाः। अजो टेको जुषमाणोऽनुशेते जहात्येनां भुक्तभोगामजोऽन्यः ॥ [ श्वेताश्व० ४।५]
भूतादीनि भूतादिमयानि त्रिगुणानि वैकारिकारब्धानि च श्रोत्रादीन्येकादशेन्द्रियाणि सर्वाण्येव त्रयाणां सुखदुःखमोहानां सन्निवेशविशेषाः, ततस्तन्मयता । बाह्यानि घटादीनि रूपादिसमूहत्वात् 10 तेषां च सुखाद्यात्मकत्वात् तन्मयानि तदात्मकान्येव । तथा पृथिव्यादयस्तन्मयकारणारब्धत्वादिति १९४-१ महदादेः सकलस्य विकारस्य ब्रह्मादिस्तम्बान्तस्य च जगतः सुखादिमयकारणारब्धत्वात् । यद् यन्मयै
रित्युपनयः, तन्मयं तदिति निगमनम् । दृष्टान्तः कापासिकपटवदिति, कार्यासविकौरैस्तन्तुभिरारब्धः पटोऽपि कार्यासिक इति यथोच्यते तथा भूतानि सुखाद्यारब्धशब्दाद्यारब्धानि सुखाद्यात्मकानि ।
भूतैरारब्धानि पुनः शरीरादीनि, घटादीनि आदिग्रहणात् , पटकुटिवत् परम्परारब्धत्वात् , यथा 15 कार्यासिकतन्त्वारब्धपटमयी कुटिरपि 'कार्यासिकी' इत्युच्यते तथा सुखाद्यारब्धशब्दाद्यारब्धभूताधारब्धपृथिव्यादिगवादिघटादिसरित्समुद्रमन्दरादीन्यपि तदात्मकानि ।
___ अनेकात्मकैकपूर्वकं शरीरमिति प्रतिज्ञा । किं पुनः कारणमेवं प्रतिज्ञायते ? प्रोक्तपुरुषायेककारणपूर्वकत्वनिराकरणार्थं वक्ष्यमाणेश्वरादिकारणपूर्वकत्वनिराकरणार्थं च । को हेतुः ? अन्वितविकारत्वात् ,
अन्विता विकारा यस्य तदन्वितविकारम् , हस्ताकुञ्चनप्रसारणामुल्युत्क्षेपणापक्षेपणपादप्रक्षेपार्जाविवर्तनादि20 विकाराः शरीरावयवाश्च सुखादिभिः शब्दादिभिश्वान्विता विकारैः, तस्मादन्वितविकारत्वाच्चन्दनशकल
वत् , यथा मृदुसुरभिशीतहरितरक्तश्वेतादिभेदस्पर्शरसरूपगन्धादिविकाराणि चन्दनशकलानि सुखाद्यन्वितानि परमाणुव्यणुकाद्यनेकात्मकैकचन्दनतरुपूर्वकाणि तथेदं शरीरमपि सुखाद्यनेकात्मकैककारणपूर्वकमिति
नैकैकपूर्वकम् यथा पुरुष एव इत्यादि, नापूर्वकम् न निर्हेतुकं नासत्पूर्वकं वैनाशिकाद्यभिमतवदित्ये.... तस्य साधनस्य व्यावार्थोद्देशार्थम् , अन्वितत्वादिति सामान्येनास्यैवोक्तस्य निगमनार्थम् , अथवा " एकैकपूर्वकत्वादिनिराकरणसाधनं वा पृथगेव ।।
अन्वाह चेति पूर्ववत् । अजामिति न जायत इत्यजा नित्या, अथवा पुनः अज गतिक्षेपणयोः [पा० धा० २३० ] इति क्षिप्रगमनादजा, ईयं प्रकृतिः क्षिप्रपरिणतिगतिसाधाद् बहुप्रसवसाधाद्वा अजेवाजा । एकामद्वितीयां सर्वगताम् । मा भूदेकैकेति अनेकात्मकैकां लोहित शक्लकृष्णां दुःखसुखमोहात्मकरजःसत्त्वतमोमयीम् । बह्रीः प्रजा अनन्ताः, प्रजायन्त इति प्रजाः, महदहकारतन्मात्रादि
१ दृश्यतां पृ० २५७ टि० ४ ॥ २ ब्रह्मास्त प्र० ॥ ३ञ्चप्रसा प्र०॥ ४ निवर्तना वि० २० ही० ॥ ५ दृश्यता पृ० १८९ पं० ५॥ ६ ईर्यप्रकृतिः य० । ऽर्यप्रकृतिः भा० ॥ ७°त्मकैकी प्र० ॥
१९४-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org