________________
साङ्ख्यमतेन सृष्टिनिरूपणम् ] द्वादशारं नयचक्रम्
२६५ तदित्थं द्वैते त्वनेकात्मिकायाः प्रकृतेरात्मभिः सुखदुःखमोहैः परिणामानुक्रमेणारब्धाः शब्दादयोऽपि तदात्मका एव, तदात्मकत्वाभिव्यक्तकार्यत्वात् , मृत्पिण्डकार्यशिवकादिमृत्त्ववत् । सुखात्मकानां च शब्दादीनां प्रसादलाघवाभिष्वङ्गोद्वर्षप्रीतयः कार्यम् , दुःखात्मकानां शोषतापभेदोपष्टम्भोद्वेगापद्वेषाः, मोहात्मकानां वरणसदनापध्वंसनबैभत्स्यदैन्यगौरवाणि, तस्मात् सुखादीनामात्मत्वेना-5 भिव्यक्तं कार्यमेषां शब्दादीनाम् । यानि तैरारब्धानि शरीरादीन्याध्यात्मिकानि
१९३-२
तदित्थं द्वैते त्वित्यादि । द्विविधपुरुषोपभोगार्थमनेकात्मिकायाः प्रकृतेरित्यादिना ग्रन्थेन तदापत्तिभवनस्वरूपवर्णनम् । प्रक्रियन्ते विकारास्तत इति प्रकृतिः, प्रधीयन्तेऽस्मिन् महदादय इति प्रधानम् , बहूनां धानं बहुधानकम् , अमरणादविनाशादमृतम् , इत्याद्यन्धर्थनामिकायाः प्रकृतेरनेकात्मिकाया आत्मभिः सुखदुःखमोहैः प्रकाशप्रवृत्तिनियमात्मकैः प्रागभिहिताचार्यपवनपाषाणवत् स्वपरेषां नर्तिकापर्णनावामा-10 त्मनश्च प्रतिपत्तिचलनधरणकरणैरिवेति । ते हि "वैकारिकतैजसभूतादिविकाररूपाः सुखदुःखमोहाः प्रकाश[प्रवृत्तिनियमात्मकाः सत्त्वरजस्तमोलक्षणा गुणाः साम्यावस्थायां 'प्रकृतिः' इत्युच्यन्ते, वैषम्येण तु परिणामानुक्रममापन्नाः परस्पराविनिर्भागवृत्तयोऽङ्गाङ्गिभावेन परिणामाद् विकारीभवन्तः शब्दादीनारभन्ते, तैर्महदादिना परिणामानुक्रमेणारब्धाः शब्दादयोऽपि तदात्मका एव, शब्दादिपरिणामानुक्रमं साँधनानुषङ्गेण स्वयमेव वक्ष्यति, तदात्मकत्वं तावत् साध्यते, तदात्मका एव* सुखाद्यात्मका एव शब्दादयः, 15 तदात्मकत्वाभिव्यक्तकार्यत्वात् , ते सुखादय आत्मा तदात्मा, तद्भावस्तदात्मकत्वं सुखाद्यात्मकत्वम् , तदात्मकत्वेनाभिव्यक्त कार्य येषां [ते] तदात्मत्वाभिव्यक्तकार्याः शब्दादयः, तद्भावात् तदात्मत्वाभिव्यक्तकार्यत्वात् , मृत्पिण्डकार्यशिवकादिमृत्त्ववत् , यद् यदात्मत्वेनाभिव्यक्तकार्य वस्तु तत् तदात्मकमेव दृष्टम् , यथा मृदः कार्य पिण्डः, तस्य कार्य शिवकः, एवं क्रमेण स्तूंपककुशूलकादि यावद् घटः कपालानि वा मृदात्मकान्येव कार्याणि, मौलस्य कारणस्यात्मना विना उत्तरोत्तरेषां कार्याणामभावादादौ मध्येऽवसाने 20 च मृदात्मकत्यं दृष्टमेवं शब्दादयः सुखादीनां कार्यम् , शब्दादिकार्य त्याकाशादि, तत्कार्यं च गवादि घटादि, सर्व सुखाद्यात्मकत्वेनाभिव्यक्तं तदात्मकमिति ग्राह्यम् । कथं सुखाद्यात्मकत्वेन शब्दादि कार्यमभिव्यक्तमिति चेत्, सुखाद्युपलब्धेः । सुखात्मकानां चेत्यादिना तदर्शयति यावदात्मत्वेनाभिव्यक्तं कार्यमेषां शब्दादीनामिति गतार्थम् । एवं तावद् भूतादिनाहङ्कारेणारब्धाः शब्दादयः ।
यानि तैरारब्धानीत्यादि यावत् सुखादिमया एव, परिणामानुक्रमेण भूतानामाकाशादीनां 25 शब्दादिभिः सुखादिमयैरारम्भं दर्शयति । तत्र शरीरादीन्याध्यात्मिकानीति शरीरीभूतानि शब्दाद्यारब्धानि
१ दृश्यतां पृ० १२ पं० १९ ॥ २ दृश्यतां पृ० १३ पं० २०॥ ३ अत्र धारणकारणे इत्यपि पाठः स्यात् ॥ ४“सात्त्विक एकादशकः प्रवर्तते वैकृतादहङ्कारात् । भूतादेस्तन्मात्रः स तामसस्तैजसादुभयम् ॥ २५ ॥-साङ्ख्यका०॥ ५ * * एतञ्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ६ साधुना भा० ॥ ७°त्मत्वेना य० ॥ ८त्मनेनाभि प्र० ॥ ९ स्तूपकुशू य० ॥ १० सुखानां प्र०॥ ११ सर्वे च सुखा भा० ॥
नय०३४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org