________________
२६४
न्यायागमानुसारिणीवृत्यलङ्कृतम् [तृतीये विध्युभयारे सन्निधिमानभवनात्, आपत्तित्वात्, व्रीहिवत् । नाप्यद्वैते, अनर्थकापत्त्यभावात् । किन्तु सङ्घातात्मकत्वात् गृहघटपृथिव्यादिवत् परार्थत्वम् । तथा चक्षुरादयोऽप्याध्यात्मिका इति आ चक्षुरादेः परार्थी यावच्च रूपादिव्यणुकादयः।
भेदात्मकेन चानेन भवितव्यं कारणत्वात् तन्त्वादिवत्, परार्थार्थेन च 5 शब्दाद्युपलब्ध्यर्थत्वात् । किं हि कारणं रूपादि दृष्टमेकं स्वार्थ च? ।
भवति । अपरिणामिनो वा सन्निधिमात्रभवनात् 'न' इति वर्तते । किं तर्हि ? परिणामिन एवापत्तिभवनयोग्याद् भवति । कुतः ? आपत्तित्वात् आपत्तिभवनत्वाद् व्रीहिवत् , यथा व्रीहेरनेकैकस्य रूपरसादिपरमाणुव्यणुकादिसङ्घाताद्यङ्कराद्यापत्तिरङ्करादेर्वा भूम्यम्ब्वादिदेशकालादिसङ्घातत्याद् व्रीह्यापत्तिस्तथै
तदनेकात्मकैकमापत्तिभवनम् । नाप्यद्वैते, इत्थं तावत् स्वविषयद्वैते सति आपत्तिभवनम् , परविषयद्वैते १९२-२ सत्येवापत्तिभवनमिदमुच्यते - नाप्यद्वैते परविषयद्वैताभावे भवत्यापत्तिभवनम् , अनर्थकापत्त्यभावादे10वैकस्याद्वितीयस्य कस्मैचिदर्थमकुर्वतः । किन्तु सङ्घातात्मकत्वात् परार्थत्वमिति सम्बन्धः, सङ्घातात्मक
भवनात् पारार्थ्यम् , संहत्यकारिणां हि पारायं नानर्थक्यं न स्वार्थत्वं नान्योन्यार्थत्वं च केवलम् । दृष्टान्तो गृहघटपृथिव्यादिवत् , यथा गृहघटपृथिव्यादयः सङ्घातात्मकाः स्वतः पृथग्भूतपुरुषार्थाः नानर्थका न स्वार्था नान्योन्यार्थाः पुरुषार्थमेव चान्योन्यार्थाः स्त्रीशोभनार्थालङ्कारवत् । तथा चक्षुरादयोऽप्याध्या15 त्मिका इति दृष्टान्तवाहुल्यात् परार्थव्यापितां दर्शयति, इत्या चक्षुरादेरिति चक्षुरादयोऽपि सूक्ष्माध्यात्मिका विवेच्या यावत् परार्था यावच्च रूपादिद्वयणुकादयः, किमङ्ग पुनर्गृहघटपृथिव्यादयः स्थूला ग्रामारामादयश्चेति ? _यत् पुनरिष्यत 'एकं कारणं पुरुषादि' इति तन्न वयमभ्युपेमः । त्वन्मतेनाप्येकं चेत् किञ्चित् पारार्यकारणमिष्यते तदभ्युपगम्य भेदात्मकेन चानेन भवितव्यमिति प्रतिजानीमहे, कारणत्वात् 20 तन्त्वादिवत् , तन्तुकपालादयो हि कारणत्वात् पटघटादीनां कार्याणां रूपादितुट्यंश्वादिसङ्घातरूपा अनेकात्मका एव कारणभावं बिभ्रतो दृष्टा नान्यथा तथा तेनापि त्वदिष्टेन कारणेन भवितव्यमनेकात्मकेन । परार्थार्थेन च 'भवितव्यम्' इति वर्तते, परस्मै परार्थः, परार्थोऽर्थः कार्य यस्य कारणस्य तेन कारणेन परार्थकार्येण भवितव्यं कारणत्वात् तन्त्वादिवदेव, यथा देवदत्तशीतत्राणाद्यर्थे पटकार्यास्तन्तवस्तथा तेन
कारणेन त्वदिष्टेन भवितव्यम् । स कतमोऽर्थ इति चेत् , उच्यते-शब्दाद्यपलब्ध्यर्थत्वात् , आदि१९३-१ 25 ग्रहणाच्छब्दाद्युपलब्धिरादिर्गुणपुरुषान्तरोपलब्धिरन्त इत्याद्यन्तोपभोगद्वयं पुरुषस्यार्थः, सोऽस्यापत्तिभवनस्य परार्थार्थः । तस्माच्छब्दाद्युपलब्ध्यर्थत्वात् परार्थार्थेन तेन कारणेन भवितव्यम् । किं हि कारणं रूपादि दृष्टमेकं स्वार्थ च? इति कारणस्यानेकैकत्वाविनाभावं पारार्थ्याविनाभावं च स्वार्थैक्याभावं च दर्शयति, विपक्ष एव नास्तीत्यभिप्रायः । रूपादिग्रहणं तु पक्षत्वाद् रूपादीनां सङ्घातपारार्थ्यपरिणामित्वैः सन्निधिभवनबैलक्षण्यं दर्शयति ।
१ सङ्घाताद् भा० ॥ २ चक्षुरादेरिति भा० प्रतौ नास्ति ॥ ३ सूक्ष्मा ऽ(आ ?)ध्यात्मिका भा० ॥ ४ "उणादौ नाम्युपान्तेति [ उ० ६०९] किदि तुटिः ।" इति हैमधातुपारायणे ६।१२४ ॥ ५ (तथानेनापि?)॥ ६ तस्य प्र०॥ ७ दृश्यतां पृ० १४ टि. ८॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org