________________
सन्निध्यापत्तिभवनयोर्निरूपणम् ]
द्वादशारं नयचक्रम्
२६३
द्रष्टारमन्तरेण ज्ञेयत्वम् ज्ञातुरसत्त्वात् वन्ध्यासुतज्ञेय घटत्ववत्, वैधर्म्येण इतरसुतज्ञेयघटत्ववत् । एवमेव हि ज्ञेयस्य ज्ञेयता । न भोग्यमन्तरेण भोक्तृत्वम्, भोक्तुरसत्त्वात्, खपुष्पमकरन्दभ्रमरवत्, वैधर्म्येण इतरकुसुममकरन्दभ्रमरवत् । एवमेव हि भोक्तुर्भोक्तृत्वम् । न भोक्तारमन्तरेण भोग्यम्, भोक्तुरसत्त्वात्, वन्ध्यासुतायौवनवर्धितकवत्, वैधर्म्येण इतरसुतायौवनवर्धितकवत् । एवमेव हि 5 भोग्यस्य भोग्यत्वम्, तत्सम्बन्धित्वात् ।
यदपि च तथा तथा वर्तनं भवनं रूपादौ तदपि नैकैकस्मादपरिणामिनो वा
पर
सत्त्वमिति । अथवा पृथक् साधनम् - ज्ञातृत्वमुपपद्यते सज्ज्ञेयत्वादितरकुसुमज्ञत्ववत् । वैधर्म्येणानुपपन्नमसज्ज्ञेयत्वात् खपुष्ंज्ञत्ववदिति । एवं हि ज्ञातुज्ञतृत्वम्, यो हि सज्ज्ञेयं जानीते स तु मुख्यो ज्ञाता, यथा सलिलं 'सलिलम्' इति विद्वान् । यः पुनरसज्ज्ञेयं विजानीते स तु न ज्ञाता, यथा मृगतृष्णिकां 'सलि - 10 लम्' इति विद्वान् । एवं तावत् 'ज्ञातैव, न ज्ञेयम्' इत्येतद् दर्शनं निरस्तमद्वैतम्, अधुना 'ज्ञेयमेव, न ज्ञाता' इत्येतन्निरस्यते - न ज्ञातारमित्यादि, ज्ञातारमन्तरेण, तत्पर्यायं दर्शयति - उपद्रष्टारमिति, ज्ञात्रा विना न ज्ञेयत्वं ज्ञातुरसत्त्वात्, अत्रापि पूर्ववत् 'असज्ज्ञातृत्वात्' इति वा हेतुः । साधर्म्यदृष्टान्तो वन्ध्यासुतज्ञेयघटत्वम्, वैधर्म्येण इतरसुतज्ञेयघटत्वम् । विपर्ययेण वा पूर्ववत् साधनद्वयम्, 1 स्परापेक्षज्ञातृज्ञेयत्वसाध्यतया वा वैयधिकरण्यपरिहारेण हेतुर्वाच्यः । एवमेव हि ज्ञेयस्य ज्ञेयता भवितु- 15 मर्हति यदि केनचिदनुपहतेन्द्रियज्ञानेन ज्ञायते, यथा अनुपहतेन्द्रियबुद्धिपुरुषज्ञेयघटवत् मध्यस्थेन तर्कागमकुशलेन विपश्चिता प्रमात्रा वा ज्ञेयं साधनं यथेति । तथा न भोग्यमन्तरेण भोक्तृत्वम्, असोग्यत्वात् खपुष्पमकरन्दभ्रमरवत्, वैधर्म्येण इतरकुसुम मकरन्द भ्रमरवत् सोग्यत्वाद् भोक्तृत्वमिति तत्साधर्म्येण वा, वैधर्म्येण खपुष्पभ्रमरवत्, परस्परावधिकं वा पूर्ववद् भोक्तृभोग्यत्वसाधनम् । अत्रापि च एवमेव हि भोक्तुर्भोक्तृत्वमिति ग्रन्थो द्रष्टव्यः । तथा न भोक्तारमन्तरेण भोग्य मसद्भोक्तृत्वाद् 20 वन्ध्यासुतायैौवनवर्धितकवत्, सद्भोक्तृकं भोग्यत्वादितरसुता यौवनवर्धितकवत् पूर्ववदेवात्रापि व्याख्या यावदेवमेव हि भोग्यस्य भोग्यत्वमिति । युगपद्वा परस्परसम्बद्धसत्ताको भोक्तृभोग्यौ, तत्सम्बन्धित्वात् तयोः सम्बन्धित्वादिति अयमर्थ प्रदर्शनहेतुः, प्रयोगहेतुस्तु 'सम्बन्धित्वात्' इत्येव । यथा सम्बन्धी भ्राता सम्बन्धिना इतरेण भ्रात्रा विना न भवति कनीयान् ज्यायसा ज्यायान् वा कनीयसा तथा भोक्तृभोग्यौ,
"
१९२-१
[H]दलङ्कारौ दम्पतीत्येवमादिदृष्टान्तैर्भोक्तृभोग्यसम्बन्धित्वसिद्धिरन्योन्याविनाभाविनीति प्रागुक्तं 25 सन्निधिभवनं द्वैते सति सिध्यतीति ।
अधुनेर्तेरत - यदपि च तथा तथा वर्तनं भवनं रूपादौ तेन तेन प्रकारेण अन्यथान्यथा चॉपत्तिभवनं रूपे रसे गन्धे स्पर्शे पृथिव्यादौ गवादौ घटादौ च सकलजगद्वर्तविवर्तरूपं तदपि नैकैकस्मात्, एकमेव एकमेकैकं पुरुषादि, तस्मादेकस्मादेकस्मान्न भवति । किं तर्हि ? यदनेकमेकं तस्मादनेकस्मादेकस्माद्
३० ॥ ४ तद्यपि च
१ष्पज्ञवदिति भा० । ष्पवदिति य० ॥ भा० । 'तरद्यदि च य० ॥ ५ व्यापत्ति प्र० ॥
Jain Education International
२ ज्ञातुज्ञत्वम् भा० ॥
For Private & Personal Use Only
www.jainelibrary.org