________________
२६२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे आपत्तिभवनं तु अस्तिभवनं सन्निहिततथावृत्ति कारणे कार्यस्य सत्त्वात् , यथा घटो भवति निर्वर्तते आपद्यते ।
- सा च भोक्तभोग्यद्वैतभूततायां सन्निधिसिद्धिः, न ततो न्यूनतायामधिकतायां वा व्यतिरेकाभावात् । न ज्ञेयमन्तरेण ज्ञातृत्वम् , ज्ञेयासत्त्वात्, खपुष्प5ज्ञत्ववत्, वैधर्येण इतरकुसुमज्ञत्ववत् । एवं हि ज्ञातुआतृत्वम् । न ज्ञातारमुप
आपत्तिभवनं तु अस्तिभवनमित्यादि यावदापद्यत इति । इदमपि चेषद्भिन्नं सन्निधिभवनमेव तथावृत्ति, सन्निहितस्य तथा वृत्तेरापत्तिभवनम् । अथवा तथा वृत्तिरस्य तथावृत्ति, सन्निहितं च तथावृत्ति च तदिति सन्निहिततथावृत्ति, किं तत् ? आपत्तिभवनम् , कुतः सन्निहितमेव तथा वर्तत इत्युच्यते ? उच्यते - कारणे कार्यस्य सत्त्वात् , कार्य ह्यङ्करादि बीजादौ सन्निहितमेव तथा तथा देशकालाकार10निमित्तवशाद् व्यक्त्यव्यक्तिरूपेण वर्तते इति । तन्निदर्शयति - यथा घटो भवतीति, पूर्वमघटत्वेन मृत्त्वेन दृष्टं सन्निहितमेव मृदि घटभवनं व्यक्तमित्यर्थः । तत्पर्यायकथनम् - निर्वर्तत आपद्यत इत्यर्थः,
सन्निधिभवनमेवापत्तीभवति । उक्तमापत्तिभवनमपि । १९१-१ अनयोरन्यूनाधिकरूपतया सिद्धिरुच्यते-सा चेत्यादि । सामान्यत्वात् सन्निधिभवनसिद्धिस्तावत्
सा च भोक्तृभोग्यद्वैतभूततायां सन्निधिसिद्धिः सन्निधिभवनसिद्धिः, तद्धि सन्निधिभवनं द्वैतभूत15 तायां सिध्यति नाद्वैततायां दर्शितैकभोक्तृभोग्यत्वायुक्तत्वादिदोषाद् न ततो न्यूनतायां सिद्धिरधिकतायां
वा द्वैतात् , तृतीयस्याभावात्। न्यूनाधिकानुपपत्तौ कारणमाह - व्यतिरेकाभावादिति, व्यतिरेकः पृथक्त्वेन एकस्यैव वृत्तिः, विनापि भावः । तदभावाद् न्यूनतायामसिद्धिः, यथा स्वामिना विना भृत्यस्य भृत्येन विना वा स्वामिनः । आधिक्येऽपि व्यतिरेकः, यथा भावव्यतिरिक्तं नास्तीति तथेह भोक्तृभोग्यव्यतिरेकाभावात् । अतो न्यूनाधिकाभावात्तद्वैते सन्निधिभवनं सिध्यति, नाद्वैतत्रैतादितायामिति । 20 तत्प्रतिपादनार्थमुपपत्तिरुच्यते-न ज्ञेयमन्तरेण ज्ञातृत्वम् , भोग्यस्य ज्ञेयत्वाच्छब्दादिगुणपुरुषोपलब्धिद्वयपुरुषोपभोगार्थत्वात्तज्ज्ञेयमापत्तिभवनम् , तदन्तरेण न ज्ञातु तृत्वम् । कुतः ? ज्ञेयासत्त्वात् । ज्ञेयस्यासत्त्वादिति वैयधिकरण्यात् ज्ञस्याधर्मत्वादसिद्धो हेतुरिति चेत्, न, ज्ञातृज्ञेययोः संम्बन्धित्वेन साध्ययोस्तदसत्त्वस्य धर्मत्वात् । अथवानुपपन्नं ज्ञातृत्वमसज्ज्ञेयत्वादिति प्रयोगकालेऽर्थव्याख्या, तच्च ज्ञेयस्यासत्त्वादगृहीतज्ञेयत्वादिति । दृष्टान्तः खपुष्पज्ञत्ववत् , यथा खपुष्पविषयं ज्ञातृत्वमसज्ज्ञेयत्वादनुपपन्न25 मेवमसज्ज्ञेयं ज्ञातृत्वम् । वैधhण इतरकुसुमज्ञत्ववत् , यथा चूतादिखपुष्पेतरकुसुमज्ञत्वं सज्ज्ञेयत्वादु२९१-२ पपद्यते तथा त्वेदभिमताद्वैतज्ञत्वं द्वैते सत्युपपद्येत, तंत्रतस्य ज्ञातृयव्यतिरेकाभावात् तदन्तःपातित्वाद
१ वृत्तिरा इत्यपि पाठोऽत्र स्यात् ॥ २ अनयोरेव(वा १)न्यूना य० ॥ ३ भोक्त प्रतिषु नास्ति ॥ ४°क्तित्वा प्र० ॥ ५ पृथक्त्वनैकस्यैव पा० डे० ली. २० ही० ॥ ६ अधिके य० ॥ ७°वात्त द्वैते प्र० । अत्र वात् द्वैते इत्यपि पाठः स्यात् ॥ ८ तज्ञेय भा० । तद् ज्ञेय य० ॥ ९त्वात्त(त्वात् ?) ज्ञेय भा० । त्वात्तद् ज्ञेय य० ॥ १० संभिन्नत्वेन य० ॥ ११त्वादिप्रयोग प्र०॥ १२ तदभिम प्र०॥ १३ पद्यते २० ही०॥ १४ तत्रैतस्य प्र०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org