________________
नियत्यादिवादनिरासः] द्वादशारं नयचक्रम्
- २६१ इत्यतस्तत्त्वं तावत् संवदति यदयं भवति सोऽस्य भाव इति, सर्वगतत्वनित्यत्वदेशकालाभेदात्।
यस्तु भवति स कतैवेति सम्प्रधार्यम् , भवतेः सन्निध्यापत्तिभवनद्वयार्थत्वादस्तिभवतिविद्यतिपद्यतिवर्ततीनां सन्निपातषष्ठानां सत्तार्थत्वात् । अस्त्यादिभवनं सन्निधिमात्रवृत्त्येव आपत्तिभवनपृथग्भूतम् , यदुपादानमेतदभिधीयते- अस्तिर्भवन्ती। परः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते, वृक्ष इत्यस्तीति गम्यते [पा० म० भा० २।३।१] । योज्यः । इत्यतोऽस्मात् तत्त्वं तावत् संवदति, शेषं न संवदति सर्वं त्वदुक्तम् । कतमत् संवदतीति चेत्, यदयं भवति सोऽस्य भाव इत्येतत् संवदति, तस्य भावस्तत्त्वं येन भूयते यो भवति स एव भावः, कर्तृलक्षणां षष्ठी कृत्वा तस्य भावः स भावः, इतीदमस्मद्दर्शनेन सह संवदति । किं कारणम् ? सर्वगतत्व-10 नित्यत्वदेशकालाभेदात्, सर्वगतत्वेन नित्यत्वेन च यथासङ्ख्यं देशकालाभ्यामभेदात् , तद्धि भवनं देशे कचिन्न न भवतीति सर्वगतत्वादभिन्नम्, कालतः सततं भवति न कदाचिन्न भवतीति नित्यत्वादभिन्नम् । तस्मादभेदादिष्यत एतत् ।
इदं पुनर्न तावदिच्छामः सम्प्रधार्यत्वात् , यस्तु भवति स कतैवेति सम्प्रधार्यम् , न हि कर्तरिविहिततिप्प्रत्ययान्तभवतिशब्दश्रवणादेव कर्तृत्वम् , अकर्तुराकाशादेरपि भवनादभवनव्यावृत्तिमात्रसत्तार्थत्वाद् 15 भवनस्य, कारणपर्यायत्वात् करोतेरकारणकार्यमपि भवत्येव भवतेः सन्निध्यापत्तिभवनद्वयार्थत्वादस्तिभवति-विद्यति-पद्यति-वर्ततीनां सन्निपातषष्ठानां सत्तार्थत्वादित्येतदस्वतन्त्रस्याव्यापृतस्यापि भवने कारणमाह । भवतेः सन्निध्यापत्तिभवनार्थत्वम् , अस्ति-विद्यति-सन्निपातानां सन्निधिमात्रभवनार्थत्वम् , पद्यतिवर्तयोरापत्तिभवनार्थत्वमिति भागः सव्यापारत्वाद् निर्व्यापारत्वाच्च त्रयाणां भवतेः सामान्यभवनवाचित्वादिति अपरिणामित्वात् परिणामित्वांदकर्तृत्वात् कर्तृत्वाच्च विशेषः । असतो भवनाभावादस्त्यादिभवनं सन्निधि-20 मात्रवृत्त्येव, सन्निधिमात्रा वृत्तिरस्येति सन्निधिमात्रवृत्ति तदस्तिभवनमापत्तिभवनपृथग्भूतं ततोऽन्यदीषद्भिन्न व्यापृतमित्यर्थः । स्यान्मतम् - सर्वतत्रसिद्धान्तेन व्याकरणेन विरुद्धमस्वतत्रभवनम्, भवतेः कर्तृविहिततिप्प्रत्ययान्तत्वादिति । एतच्चायुक्तम् , तत्रैवानुज्ञातत्वात् , यदुपादानमेतदभिधीयत इत्यादि, १९०२इदं तु सन्निधिमात्रवृत्तिभवनमेवोपादायाभिहितं यत्राप्यन्यत् क्रियापदं न श्रूयते तत्राप्यस्तिर्भवन्तीपरः प्रथमपुरुषेऽप्रयुज्यमानोऽप्यस्तीति गम्यते । 'भवन्ती' वर्तमाना विभक्तिः पूर्वाचार्यसंज्ञयोक्ता लडित्यर्थः, तत्परोऽस्तिः असिः, असू भुवि [ पा० धा० २०६५] इति धातुः, इश्तिपी धातुनिर्देशे [पा० वा० ३॥३॥१०८ ], प्रथमपुरुषे न मध्यमोत्तमयोः, अप्रयुज्यमानोऽपि गम्यतेऽर्थसद्भावादविनाभावादर्थेन । तदुदाहरति - वृक्ष इत्यस्तीति गम्यते, किमुक्तं भवति ? अस्ति भवति सन्निहितमित्यर्थः । निर्दिष्टं सन्निधिभवनमुभयोः समानलक्षणत्वादादौ ।
१ दृश्यतां पृ० ३४ पं० २०॥ २ "अस्तिर्भवन्तीपरः प्रथमपुरुषोऽप्रयुज्यमानोऽप्यस्तीति गम्यते । 'वृक्षः' 'प्लक्षः' अस्तीति गम्यते।” इति पातञ्जलमहाभाष्ये पाठः ॥ ३ तत्वे प्र०॥ ४ क्वचिन्न भवतीति प्र०॥ ५ स्याव्यावृत्तस्यापि प्र० ॥ ६ दृश्यतां पृ. २३३-१ ॥ ७ "विभागः द्वयोः सव्यापारत्वाद्' इत्यपि पाठोऽत्र सम्भाव्यते ॥ ८°त्वादकर्तृ य० ॥ ९°दकर्तृत्वाच्च विशेषः भा० २० ही० ॥ १०°मव्यावृत प्र०॥ ११ अस प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org