SearchBrowseAboutContactDonate
Page Preview
Page 377
Loading...
Download File
Download File
Page Text
________________ २६० न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे सर्वत्वम् । त्वदुक्तैकसर्वतायां तु प्रत्यक्षानुमानखवचनाभ्युपगमलोकविरोधाः, अविकल्पशब्दार्थादभ्युपगतधर्मधर्मिखरूपविशेषोभयविरोधाः, असिद्धादिहेतुता च, साध्यसाधनोभयधर्मधर्म्यसिद्ध्यादयो दृष्टान्तदोषाः। ___ यथा च पुरुषे तथेतरद्रव्यार्थेष्वपि प्रतिखं योज्यं विनिद्रावस्थास्थाने भेदैकत्वं 5 सामान्यलक्षणं क्रमयोगपद्यादयो निद्रादिवद् विशेषलक्षणमिति व्याख्याय । __किश्चान्यत् , त्वदक्तैकसर्वतायां त्वित्यादि । 'एक एव सर्वम्' इत्येतस्यामेकसर्वतायाम् , 'सर्वैकतायामिति वा पाठात् सर्वैकपुरुषमयतायां प्रत्यक्षत एव भिन्नानेकैकसर्वताया दर्शनात् प्रत्यक्षविरोधः। ग्रहणभेदादनुमानविरोधः, ग्रहणभेदे हि न्याय्यो ग्राह्यभेद इति, भेदत्वपरिणामित्वादिभावाभावे सर्वत्वापत्तिभवनाभावाद्वानुमानविरोधः । त्वदुक्तास्मदुक्तैकार्थ्याभावे भेदाभ्युपगमात् स्ववचनाभ्युपगर्मविरोधः, 10 लोके घटपटादिभेदप्रतीतेलॊकविरोधः। अविकल्पशब्दार्थादित्यादि, 'अविकल्पः शब्दार्थः' इत्यभ्युपगम्य विकल्पव्यवहाराङ्गीकरणाचाभ्युपगमविरोधः, 'सर्वमेकम्' इति विकल्पधर्मत्वेन धर्मित्वेन च तदुभयविशेष त्वाभ्यां चेष्टस्य तेनैवाभ्युपगमेन निराकरणादविकल्पशब्दार्थस्याभ्युपगतधर्मधर्मिस्वरूपविशेषोभय१८९-२ विरोधाः । असिद्धादिहेतुता च, हेतोः 'अनतिरिक्तपरापराणीयोज्यायोरूपात्मकत्वात्' इत्यादेः प्रतिज्ञातैकपुरुषाभेदात् त्वया अस्माभिश्वोक्तेन न्यायेन पुरुषाभावाद् धर्म्यसिद्धराश्रयासिद्धिः, त्वन्मतेना15र्थान्तराभावेऽसाधारणता, अस्मन्मतेन विपक्ष एव भावाद् विरुद्धता साधारणानैान्तिकता वा, सपक्षमभ्युपगच्छतो वो ते घंटाद्यवस्थाभेदाद् वृक्षादिदृष्टान्तं 'वृक्षः' इति पुरुषव्यतिरिक्तवृक्षाद्यवस्थाभेदाभावे साध्यसाधनोभयधर्मधर्म्यसिद्धयो दृष्टान्तदोषाः, आदिग्रहणाद् यथासम्भवं कल्पनां कृत्वा वैधर्म्यदृष्टान्तदोषा योज्याः । एवं तावत् पुरुषमयत्वं सर्वस्यायुक्तमित्युक्तम् । अधुनातिदेशेन निय-दिवादेष्वपि दोषांस्तानेवाह - 20 यथा च पुरुष तथेतरद्रव्यार्थेष्वपीति नियति-काल-स्वभाव-भावेष्वपि स्वं स्वं प्रति प्रतिस्वं प्रत्येक योज्यम् । तमतिदेशोपायमाचष्टे, तद्यथा-विनिद्रावस्थास्थानेऽभेदकम् , विनिद्रावस्था सामान्यलक्षणं पुरुषस्य पुरुषवादे सुप्ताद्यवस्थाव्यापित्वात् , सुप्ताद्यवस्था अपि विशेषास्तस्य तदात्मत्वादिति यथा व्याख्यातं तथा नियत्यादावभेदैकत्वं नियत्यादेः सामान्यलक्षणमतीतानागतवर्तमानबाल्यकौमारयौवनक्रमयोगपद्यादयो निद्रादिवद् विशेषलक्षणमिति व्याख्याय विकल्पद्वयप्रतिषेधस्तथैव कर्तव्यः – अथ किं या एता अवस्थास्ता एव 25 नियत्यादिः ? उत नियत्यादिरेवावस्थाः ? यदि ता एव नियत्यादिः, समुदयवादः क्षणिकवादो विज्ञानमात्रता१९०-१ वादः शून्यतावाद इत्यादि । अथ नियत्यादय एवावस्थाः, तथाऽभेदैकत्वावस्थालक्षणत्वादिः स एव प्रपञ्चो ५ वा न घटा” य० ॥ ६ ( वटायव ? ) ॥ ७ “दृष्टान्ताभासो द्विविधः- साधर्येण वैधर्मेण च । तत्र साध १ सत्वैक प्र०॥ २ °विरोधा लोके प्र० ॥ ३ दृश्यतां पृ० २४७ पं० ५॥ ४ कान्तिका वा प्र०॥ ५ वा न घटा' य० ॥ ६ (वटाधव)॥ ७ "दृष्टान्ताभासो द्विविधः-साधम्र्येग वैधम्र्येण च । तत्र साधयेण तावद् दृष्टान्ताभासः पञ्चप्रकारः । तद्यथा--साधनधर्मासिद्धः १, साध्यधर्मासिद्धः २, उभयधर्मासिद्धः ३, अनन्वयः ४, विपरीतान्वयश्चेति ५।..."वैधयेणापि दृष्टान्ताभासः पञ्चप्रकारः, तद्यथा-साध्याव्यावृत्तः १, साधनाव्यावृत्तः २, उभयाव्यावृत्तः ३, अव्यतिरेकः ४, विपरीतव्यतिरेकश्चेति ।" इति न्यायप्रवेशे ॥ ८°त्यादिदेष्वपि प्र०॥ ९ अत्र 'ऽभेदैकत्वम् इत्यपि पाठः स्यात् ॥ १० तुलना पृ० २४६ पं० ३- पृ० २४७ पं० ४ ॥ ११ शून्यवाद य० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001108
Book TitleDvadasharam Naychakram Part 1 Tika
Original Sutra AuthorMallavadi Kshamashraman
AuthorSighsuri, Jambuvijay
PublisherAtmanand Jain Sabha
Publication Year1966
Total Pages662
LanguageSanskrit
ClassificationBook_Devnagari, Nay, & Nyay
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy