________________
२५९
पुरुषस्य सर्वत्वनिरासः] द्वादशारं नयचक्रम् स्थापि, वयमपि च ब्रूमः-कुतोऽस्यापत्तिभवनम् , भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वाद् वन्ध्यापुत्रवत् । अव्यभिचरितानेकत्वैकगतिर्हि भेदभावः
अवस्थानामवस्थावतः पुरुषस्य चेति । वयमपि च ब्रूमः, न केवलं त्वद्वचनादेवासत्त्वं पुरुषस्य, त्वंद्वचनसमर्थनाय वयमप्यसदेव सर्वं त्वदिष्टमिति ब्रूमः । कुतः ? त्वन्मते सर्वस्याभावात् , भवनं हि द्विविधं मया वक्ष्यमाणम् - इतरेतरापेक्षद्वैतवृत्ति सन्निधिभवनमापत्तिभवनं च । सन्निधिभवनमापत्तिभवनाभावे न भवितु- 5 मर्हति। तिष्ठतु सन्निधिभवनम् , इदमपि कुतोऽस्यापत्तिभवनं पुरुषस्य ? कथं नास्ति? भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वाद् वन्ध्यापुत्रवत् , यथा वन्ध्यापुत्रो भेदत्वेन परिणामित्वेन वा अभूतत्वान्नास्ति तथा त्वदिष्टं सर्वमापत्तिं नानुभवतीत्यसत् । किमर्थमित्थं विशेष्यते भेदेन परिणामित्वेन वाभूतत्वात्' इति, न पुनः 'अभेदत्वादपरिणामित्वात्' इत्युच्यते ? उच्यते - भेदो न भवतीत्यभेदो भेदादन्यो वा १४४२ स्यादेवमपरिणामीत्यभेदत्वादपरिणामित्वादिति, नास्य भेदोऽस्तीत्यभेदः नास्य परिणामित्वमित्यपरिणामित्वा-10 दभेदत्वादिति बहुव्रीहिसमासो वा स्यात् । बहुव्रीहिस्तावन्न घटते एव अन्यपदार्थत्वादन्यस्यार्थस्याभावात् , अतः समन्वयाभावः, समन्वयाभावात् तदभावः । तत्पुरुषोऽपि प्रसज्यप्रतिषेधपक्षे न घटते नरः क्रियापदसम्बन्धिनोऽसमर्थत्वात् , तस्माद् भेदादन्य इति पर्युदासः स्यात्, स च बहुव्रीहितुल्य एवार्थत इति 'भेदत्वेनाभूतत्वात् परिणामित्वेनाभूतत्वात्' इति सुखग्रहणार्थं शङ्कापोहार्थं चेत्युक्तम् । भिन्नानां हि भावानामव्यभिचरितैकत्वापत्तीनां सर्वत्वं भवति, न त्वदिष्टस्यैकस्याभिन्नस्येति, तद् व्याचष्टे - अव्यभिचरिते-15 त्यादि यावद् भेदभावः सर्वत्वम् । अव्यभिचरितमनेकत्वं यस्य तदिदमव्यभिचरितानेकत्वमेकम् , तस्य गतिः परिणामस्तदापत्तिः, सैकत्वापत्तिरनेकेन विना न भवतीति, यथा शुक्रशोणितादेरनेकस्यैकत्वापन्नस्याध्यात्मिकस्य । यथोक्तम् - मातुओयं पितुसुक्कं तं तदुभयसंसिर्ल्ड कलुसं किञ्चिसं तप्पढमं आहारमाहारेत्ता जीवो गब्भत्ताए वक्कमति । सत्ताहं कललं होति सत्ताहं होति अब्बुदं ।
20 - अब्बुदा जायते पेसी पेसीतो जायते घणं ॥ [तन्दुलवै० १७] इत्यादि। भिन्नानां वैषम्येण परिणतानां शुक्रशोणितसंसृष्टाहारादीनामैक्यापत्त्या हि सर्वत्वं शरीरेन्द्रियादेः । तथा १८९-१ बाह्यमपि सर्वत्वं, भूम्यम्बादिप्रीहितोयदेशकालादिभिन्नार्थानां वैषम्येण विपरिणाममापन्नानामैक्यापत्त्या सर्वत्वं दृश्यते, नान्यथेति । हिशब्दो यस्मादर्थे, यस्मादित्थं भिन्नार्थाव्यभिचरितैकगतिः सर्वत्वम् , स हि भेदभावः सर्वत्वम् , तस्मान्नाभिन्नस्यैकस्य सर्वत्वं कस्यचित् । तस्मात् सर्वत्वाभावादयुक्तमुच्यते 'पुरुष 25 एवेदं सर्वम्' इति ।
१ त्वद्वचनमनर्थनयना वयम प्र० ॥ २ भेदत्वेन इत्यपि पाठोऽत्र स्यात् ॥ ३ भवत्यमें प्र० ॥ ४गतिपरिप्र०॥ ५स्तत्तदापत्तिः भा०॥ ६मातं तेयं पितं प्र० । "इमो खलु जी माऊओयं पिउसुक्कं तं तदुभयसंसर्ल्ड कलुसं किव्विसं तप्पढमयाए आहारं आहारित्ता गम्भत्ताए वक्कमइ । सत्ताहं कललं होइ सत्ताहं होइ अब्बुयं । अब्बुया जायए पेसी पेसीओ वि घणं भवे ॥ १७ ॥” इति तन्दुलवैचारिकप्रकीर्णके पाठः । “जीवे णं भंते गभं वक्कममाणे तप्पटमयाए किमाहारमाहारेइ ? गोयमा ! माउओयं पिउसुक्नं तं तदुभयसंसिटुं कलुसं किविसं तप्पढमयाए आहारमाहारेइ।" इति भगवतीसूत्रे पाठः १८।६१॥ ७वाक्यमपि प्र० ॥ ८ (सर्वत्वं भूम्यम्ब्वादेः, व्रीहि ? ) ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org