________________
२५८
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः, पुरुषोऽपि न तर्हि पुरुषः पुरुषलक्षणत्वाद् विनिद्रावस्थावत् । एवं शेषा अपि । इति पुरुषाभाव एव, कुतोऽस्य सर्वगतता ? तदभाव एव त्वदभिप्राय एव एवं प्रतिपाद्यते, तदात्मत्वाभिमतनिरसनात्, उष्णत्वनिरसनेन अग्यभावप्रतिपादनवत् । 5 यत्तु यत्नेन अलक्षणत्वमुक्तमतो ननूक्तवत् त्वयैव स्फुटीकृतमसत्त्वं सर्व
पपत्तौ सत्यां ता अपि चतस्रोऽवस्था अन्यत्वापत्तिवत् पृथक् पृथक् पुरुषः, चत्वारः प्रभेदाः स्युः पुरुषाः । इदमपि त्वदुक्तिवदेव, तत् कथम् ? इति तदुच्यते – यथा केनचिदुपपत्तिप्रकारेणासम्भाव्यमप्यन्यत्वमुच्यते तथा ता अप्यवस्थाः सम्भावनापादितान्यत्वाः पृथक् पृथक् स्युः । ततश्च ताः पुरुषस्वात्मत्वात्
परस्परतोऽन्यत्वाच्च पुरुषाः पृथक् पृथक् , विनिद्रावस्था प्रत्येकं पुरुषः, एवं शेषा अपि प्रत्येकं पुरुषाः । 10 केन पुनरुपपत्तिप्रकारेणान्यत्वम् ? अवधारणभेदादेव । एवं पुरुषातिदेशात् पुरुषबहुत्वं विनिद्राद्यवस्थानां पुरुषस्वात्मत्वादिति ।
अथेत्यादि । अथ पुरुषलक्षणापि विनिद्रावस्था न पुरुषः यदि प्रत्येकं पुरुषत्वं तद्बहुत्वं च दोषौ दृष्ट्वा पुरुषलक्षणापि विनिद्रावस्था पुरुषो नेष्यते ततः पुरुषोऽपि न तर्हि पुरुषोऽस्तु पुरुषलक्षणत्वाद् विनिद्रावस्थावत् । एवं शेषा अपीति, यथा विनिद्रावस्था पृथक् पुरुष इत्यापाद्य तत्परिहारार्थ 15 पुरुषलक्षणत्वे सति अपुरुषत्वमाशङ्कय 'पुरुषस्यापुरुषत्वं तद्वत्' इत्यापादितं तथा प्रत्येकं सुप्ताद्यवस्था अपि
पुरुष इत्यापाद्य तत्परिहारार्थं पुरुषलक्षणत्वे सति अपुरुषत्वमाशङ्कय सुप्ताद्यवस्थानां तद्वत् पुरुषस्यापि पुरुषात्मनोऽपुरुषत्वमित्यापादनीयम् । इति पुरुषाभाव एव, इत्थं पुरुषस्याभाव एव प्रसक्तः । कुतोऽस्य सर्वगतता? विद्यमानस्य हि सर्वत्वमसर्वत्वं सर्वगतत्वमसर्वगतत्वं वेति विचार्यं स्यात् । अथवा त्वदभि
प्रतमेवैतत् तदभावप्रतिपादनम् , नास्मदभिप्रायः, एवमित्येतेन विधिना । कुतः ? तदात्मत्वाभिमतनिर१८८-१ सनात् , यो यदात्मत्वेनाभिमतोऽर्थस्तं निरस्यन् वादी तमेवार्थ निरस्यन् दृष्टः, यथा 'उष्णो न भवत्यग्निः' 20 इति ब्रुवन्नौष्ण्येनाविनाभाविनमौष्ण्यात्मानमग्निमेव निरस्येति तथेहापि विनिद्राद्यवस्थालक्षणं पुरुषमुक्त्वा 'पुरुषस्वात्मताः पुरुषान्न भिन्नाः सन्ति' इति ता निराकुस्तदात्मानं पुरुषमेव त्वं निराकरोषीति त्वदभि
प्राय एवायं पुरुषाभावः । एवं तावत् प्रवृत्त्योपलक्षितस्त्वदीयोऽभिप्रायो व्याख्यातः । ... नाभिप्रायमात्रादेवाभावः, किं तर्हि ? स्फुटमेव त्वयोक्तं 'नास्ति पुरुषः' इति, तद्यथा- यत्तु यत्नेने25 त्यादि । सामान्येनायं न्यायोऽवतार्यते, भावना त्वस्य विशेष्य वक्तव्या- यथा अवस्थालक्षणः पुरुषः पुरुषलक्षणा अवस्था इति वातिदिश्यमानानां परस्परमेकत्वमन्यत्वमवक्तव्यत्वमसत्त्वं चेति विकल्पाः स्युः सविकल्पत्वे, न पुनरेते सन्ति कल्पनाऽविषयत्वाद् विकल्पातीतनिर्विकल्पपरमार्थत्वाच्चालक्षणत्वं त्वयोक्तं प्राक् , अतो ननूक्तवत् त्वयैव स्फुटीकृतमसत्त्वं प्रतिपादयितुमिष्टं वचनेनैव सर्वस्यापि, न केवलं पुरुषस्यैव, ... १ दृश्यतां पृ० २०२-१ ॥ २ न्यथापत्ति प्र० ॥ ३ सप्रभेदाः भा० ॥ ४'चेदुच्यते' इत्यपि पाठोऽत्र स्यात् ॥ ५°स्य तथेहापि प्र. ॥ ६ (खात्मैव ताः ?)॥ ७°नावि प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org