________________
२५७
पुरुषाद्वैतनिरासः]
द्वादशारं नयचक्रम् अचेतनव्यक्तमूर्तानित्यादिरूपार्थपुरुषपरमार्थता ।
अवस्थास्त्वन्यत्वानेकत्व एव पुरुषः। अवश्यमन्यास्तास्तस्मात्, तद्रूपापत्त्यनिष्टत्वात् , अवस्थान्तरवत्, यतोऽवस्थावात्मत्वमस्य नेष्यते । पुरुषातिदेशात्तु पुनः खपरविषयकृतभेदद्वारान्यत्वासम्भवात् कस्यचित् कथञ्चिदप्यन्यस्यानुपपत्ती ता अपि अन्यत्वापत्तिवत् पृथक पृथक् पुरुषः।
स्यान्मतम् - एतद्दोषभयादिदंशब्दवाच्यप्रत्यक्षार्थादन्यं पुरुषमभ्युपगम्य 'एता एवावस्थाः पुरुषः' इति प्रत्यक्षार्थेदंविषयतया 'पुरुष एवेदं सर्वम्' इति इंश्यस्पृश्यादि अतिदिश्यात् , यथा 'अयं देवदत्त एव' इति अयंशब्दवाच्यो हि देवदत्तः प्रत्यक्षाप्रत्यक्षत्वयोः स एव तथा 'पुरुष एवेदम्' इति । एतच्चायुक्तम् , यस्मादस्यां प्रत्यक्षार्थेदंविषयतायां सत्यामचेतनव्यक्तमूर्तानित्यादिरूपार्थपुरुषपरमार्थता प्राप्नोति , आदिग्रहणादसर्वात्मककार्यानेकत्वादिरूपार्थपुरुषपरमार्थतापि, न चेतनाव्यक्तामूर्तनित्यसर्वात्मकसर्वगतकारणै- 10 करूपार्थपुरुषपरमार्थतापि स्यादिति प्रसङ्गतोऽयं दोष आपादितः । एवं तावदन्यानेकत्वः पुरुष इति पुरुषस्वात्मापरित्यागेन अवस्थाभेदं तद्वारेणोक्त्वा उक्तः ।
इदानीमवस्थान्यत्वद्वारेणैव पुरुषानेकत्वं त्वदुक्तवद् ब्रूमः - अवस्थास्तु अन्यत्वानेकत्व एव १८७-१ पुरुष इत्येतत् प्रत्या(त्य ? )भेदोपन्यासवाक्यम् , तद्वचनस्मारणेन विचारार्थोपन्यास इत्यर्थः । अवस्थास्तु पुरुषोऽन्यत्वानेकत्वे सति एव, यतोऽवस्थास्वात्मत्वं पुरुषस्येष्यते ततस्तासामन्यत्वेनानेकः अन्योऽनेकश्चेति 15 वा । तत् कथमिति चेत्, त्वदुक्तेरेवावश्यमन्यास्ताः पुरुषादन्या विनिद्राद्यवस्थाः ताभ्यश्च सोऽन्य इति परस्परावधिकमन्यत्वं साध्यते । तद्रूपापत्त्यनिष्टत्वादिति हेतुः, तयोश्वावस्थावस्थावतोस्तद्रूपापत्त्यनिष्टत्वं सिद्धम् , अन्यथावस्थानां विशेषितानामन्यत्वे साध्ये पुरुषपृथक्त्वेन तदसिद्धराश्रयासिद्धिस्तद्रूपापत्त्यनिष्टत्वं वाऽसिद्धमाशङ्कयेत । अथवा पुरुषोऽवस्था इति चाविशेष्य पराभिमतं वस्तूभयमपि परस्परतोऽन्यदिति सामान्येन साध्यते इतरस्येतररूपापत्त्या अनिष्टत्वादित्यर्थः, अवधारणभेदाचेतररूपापत्त्य- 20 निष्टत्वमापादितम् । किमिव ? अवस्थान्तरवत् , यथा विनिद्रावस्था सुप्तावस्थारूपापत्त्या नेष्टा तथा स्वतोऽन्याश्चेति । तद्रूपापत्त्यनिष्टत्वासिद्धिः' इति मा मंस्था इत्यत आह-यतोऽवस्थास्वात्मत्वमस्य नेष्यते पुरुषस्य, एतदवस्थारूपापत्त्या पुरुषानिष्टत्वादवस्थाद्वारेण पुरुषस्य अवस्थानां चान्यत्वानेकत्वं त्वदुक्तौ चैवमुपपादितम् ।
पुरुषातिदेशात् तु पुनरित्यादि । 'पुरुष एवेदं सर्वम्' इति पुरुषत्वेनावस्थानामतिदेशेऽन्यत्वं न 25 सम्भवत्येव, कथम् ? स्वपरविषयकृतभेदद्वारान्यत्वासम्भवात् , स्वविषयकृतो घटस्य रूपादीनां प्रधानस्य सत्त्वादीनां चैकवस्तुगतानामेव धर्माणां भेदः, परविषयकृतस्तु तयोरेव वस्त्वन्तरात् पटादेः पुरुषाच भेदः, तदुभयभेदद्वारमन्यत्वं सम्भाव्येत । तत्तु अनभ्युपंगतमन्यत्वद्वारद्वयं भेदद्वयासम्भवात् । ततोऽन्यत्वानुपपत्तिः १८७-२ कस्यचिदिति वस्तुनः कथञ्चिदिति रूपादिसत्त्वादिप्रकारेण तहारानभ्युपगमादेव । ततः पुरुषादन्यस्यानु
१ दृश्यतां पृ० २०१-२॥ २ दृश्यता पृ० १८९ पं० २६ ॥ ३ (प्रकृत्या मेदो ? तदुक्त्या भेदो ?)॥ ४ मन्यस्ताः प्र०॥ ५ शंकेत भा० । शंकत य० ॥ ६ नामेक धंय०॥ ७°पगमान्यत्वप्र०॥
नय०३३
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org