________________
२५६
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे स्त्याज्यः । तदत्यागे यदर्थमयमतिदेशोऽद्वैतैकान्तार्थस्तस्यैवासिद्धिः । योऽसावेक एव पुरुषः सम्भाव्यते तस्याप्यनेकतैवमापद्यते, यत्स्वरूपाव्यतिरिक्तलक्षणा अवस्था बिना भेदेनोच्यन्ते स पुरुषोऽपि पुरुषेणाभिव्याप्तत्वादनवस्थितैकत्वतत्त्वप्रतिष्ठः 'पुरुषः' इत्यतिदेश्यः स्यात् पुरुषखात्मत्वादवस्थावत् । प्रत्यक्षार्थदंविषयतायां वा
5मयत्वविरोधादिति । एष दोषो मा भूदिति तदत्यागे यदर्थमयमतिदेशोऽतिसर्गः प्राग् व्याख्यातः 'पुरुष एवेदं सर्वम्' इति, किमर्थमसावतिदेश इति चेत् , अद्वैतैकान्तार्थः 'अद्वैतमेकपुरुषमयम्' इत्येतप्रतिपादनार्थः, तस्यैवासिद्धिरद्वैतैकान्तस्य । किं कारणम् ? यस्मादेकपुरुषाभ्युपगमोऽयमेकपुरुषासिद्धिमेव ते करोति ।
तत् कथमिति चेत्, योऽसावेक एव त्वया पुरुषः सम्भाव्यते तस्याप्यनेकतैवमापद्यते । 10 एवमिति त्वदभिहितेनैव पुरुषस्वात्मातिदेशाद्वैतेन, का पुनर्भावना ? उच्यते - यत्स्वरूपेत्यादि यावदव
स्थावदिति । यस्य स्वरूपं यत्स्वरूपम् , कस्य स्वरूपम् ? पुरुषस्य, किं स्वरूपम् ? नित्यसर्वगतसर्वात्मकत्व१८६-१ कारणत्वादि, तदव्यतिरिक्तं लक्षणमासां ता अवस्थास्तव्यतिरिक्तलक्षणास्तत्स्वरूपपुरुषाव्यतिरिक्तलक्षणा
स्त्वया विना भेदेनोच्यन्ते तस्मात् पुरुषादभिन्ना एवोच्यन्ते इत्यर्थः, तद्यथा- 'पुरुष एवावस्थाः,
नावस्था एव पुरुषः' इत्यवधारणभेदादेव भेदोपदर्शनेन च भेदोऽभ्युपगम्यते, तत एव तस्य ताभ्यो 15 नानात्वं तासां च त्वद्वचनादेव सिध्यति, यथा 'ऊर्ध्वग्रीवादिलक्षणो घटः, घट एव ऊर्ध्वग्रीवादयः, न पटो न पटचातुरश्यादयः' इति तस्य तासु तासां च तस्मिन्नवधारणानवधारणाभ्यां भेद एव सिध्यति । न त्वभेदेऽवधारणभेदोऽस्ति, यथा 'घटस्वात्मैव घटः, न घट एव घटस्वात्मा' इति । तस्मादवस्थानां विनिद्रादीनामवस्थावतश्च पुरुषस्य भेदस्त्वद्वचनादेवेति । किञ्च, स पुरुषोऽपीत्यादि, एवं च सति एकपुरुषमयत्वातिदेशात्यागे सोऽपि पुरुषः पुरुषान्तरेणाभिव्याप्तः पुरुषस्वात्मत्वादवस्थावदिति प्राप्तः । यथा विनि20 द्राद्यवस्थाः पुरुषस्वात्मैव नावस्थान्तरात्मिका इति कृत्वा पुरुषेणाभिव्याप्तास्तथा पुरुषोऽपि पुरुषस्वात्मत्वात्
तदविनाभावात् पुरुषान्तरेणाभिव्याप्तः स्यात् , तथा तदपि पुरुषान्तरं पुरुषस्वात्मत्वात् तद्वदेवेति पुरुषानेकत्वं स्यात् , तस्यापि तथैवेत्यनवस्था च, ततश्च पुरुषेणाभिव्याप्तत्वादनवस्थितैकत्वप्रतिष्ठः पुरुष इति
प्राप्तम् , अनवस्थिता एकत्वेन एकत्वे वा प्रतिष्ठाऽस्य सोऽयमनवस्थितैकत्वप्रतिष्ठः पुरुषः स्यात् पुरुषस्वा१८६-२ त्मत्वादवस्थावत्, यथावस्थाः पुरुषस्वात्मत्वादनवस्थितैकत्वप्रतिष्ठास्तथा पुरुषोऽपि स्यादिति । तथा 25 अनवस्थिततत्त्वप्रतिष्ठः, तस्य भावस्तत्त्वमात्मस्वरूपम् , अनवस्थिता तत्त्वेन तत्त्वे वा प्रतिष्ठाऽस्य सोऽय
मनवस्थिततत्त्वप्रतिष्ठः, न स्वरूपे प्रतिष्ठितः स्यात् पुरुषः, पुरुषस्वात्मत्वादवस्थावत् । यथावस्थाः पुरुषस्वात्मानोऽनवस्थितात्मस्वरूपव्यवस्थाप्रतिष्ठाः पुरुषस्वरूपव्यवस्था एवेष्यन्ते, तत्रैव तासां प्रतिष्ठा, न स्वात्मसु, तथा पुरुषोऽपि स्यात् । पुरुषान्तरातिदेश्यश्च पुरुषः स्यात्, पुरुषस्वात्मत्वात् , अवस्थावत् । यथेमाः सुप्ताद्यवस्थाः पुरुषस्वात्मत्वात् 'पुरुष एवेदं सर्वम्' इत्यतिदिश्यन्ते तथा पुरुषः पुरुषस्वात्मत्वात् 30 'पुरुषान्तरमेवायम्' इत्यतिदेश्यः स्यात् ।
१ यमर्थ प्र० ॥ २ यस्य प्र० ॥ ३°दिति तद प्र० ॥ ४ "त्मनो प्र० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org