________________
२५५
'पुरुष एवेदं सर्वम्' इत्यत्र दोषाः] द्वादशारं नयचक्रम् एकखात्मत्वात् सा इवेति 'पुरुष एवेदं सर्वम्' इत्यतिदेशाभावो भेदाभावात् ।
उपवर्णनभिन्नरूपव्यतिकरसङ्कराभ्यां त्वेवमतथात्वमासामस्य च तत्तत्स्वात्मत्वादिति पुरुषावस्थाव्यवस्थाऽभावः । उक्तवद्वा व्यवस्थानुमतौ पुरुषातिदेश
अथवावस्थानामपि प्रत्येकं भेदेषु परस्परात्मत्वापादनेन मनुष्यतिर्यगमरादिषु घटपटतृणादिषु चैक्यमुन्नेयम् 'इतरात्मकमितरत् , इतरात्मत्वात् , तत्स्वात्मवत्' इति । इति पुरुष एवेत्यादि यावद् भेदाभावादिति ।। इत्यस्मात् कारणादेकत्वाद् यत् प्रोक्तं सर्वत्वसम्भाव्याभावात् सर्वाव्यापिता पुरुषस्येति तदुपनयति - 'पुरुष एवेदं सर्वम्' इत्यतिदेशाभावो भेदाभावादिति । अतिदेशोऽतिसर्जनं पुरुषात्मकत्वव्याख्या १४५.१ तद्भावनेत्यर्थः । पुरुषेण वास्याप्रत्यक्षेण इदंशब्दवाच्यस्य प्रत्यक्षस्यातिदेशः, अनेन वा तस्याप्रत्यक्षस्यातिदेशः 'सर्वमेव तन्मयम्' इति ।
किश्चान्यत् , उपवर्णनेत्यादि यावद् व्यवस्थाभाव एवेति । उप सामीप्ये, सामीप्येन वर्णनमुप-10 वर्णनं विशेषधर्मेण न सामान्यधर्मेण, सामान्यधर्मस्य दूरत्वात् । यथा - पुरुषोऽयम् , समुत्थायोपविष्टत्वात् पाण्यादिसञ्चलनाच्छिरःकण्डूयनादिति नोर्ध्वत्वादिति । उपवर्णनेन भिन्नानि रूपाण्यासां विनिद्राजापत्सुप्तसुषुप्तत्वादिविशेषवर्णनेन, तैश्च रूपैभिन्नैर्व्यतिकरः सङ्करश्च तासां प्राप्तावित्थमुक्तैकत्वात् । व्यतिकरो विनिद्रावस्थास्वात्मत्वं जाग्रदवस्थास्वात्मनः, जाग्रदवस्थास्वात्मत्वं विनिद्रावस्थाम्यात्मनः, एवमितरयोरवस्थयोरपीतरेतरस्वात्मत्वप्राप्तिरेतयोश्च तत्स्वात्मत्वप्राप्तिस्तयोरेतत्स्वात्मत्वप्राप्तिः । ततश्च दानशीलतपोविशेषै-15 नरकावाप्तिः, हिंसादिभिः स्वर्गावाप्तिः, स्वर्गे दुःखानुभवनम् , नरके सुखानुभवनम् , पुरुषतत्त्वाज्ञानादू मुक्तिरिति । सङ्करस्तु क्षीरोदकसंयोगवदविवेचनीयविनिद्रावस्थास्वात्मत्वम् । इत्येतौ व्यतिकरसङ्करौ प्राप्तौ, ताभ्यां च व्यतिकरसङ्कराभ्यां हेतुभ्यामतथात्वं विनिद्रावस्थाया अविनिद्रावस्थात्वम् , एवं शेषाणामप्ययथास्वस्वरूपत्वमासामवस्थानाम् , तत्स्वात्मत्वात् पुरुषस्वात्मत्वात् पुरुषस्वात्माभिन्नविनिद्राद्यवस्थास्वात्मत्वादिति यावत्, तदेवैकत्वं कारणमाह - तत्तत्स्वात्मत्वादिति, तासामतथात्वमित्थमुक्तम् । अस्य चेति:
"१८५-२ पुरुषस्याप्यतथात्वमेव अपुरुषत्वमेव तत्स्वात्मत्वात् तत्स्वात्मवदिति ।
एतमर्थमुपसंहरति - इति पुरुषावस्थाव्यवस्थाऽभावः], इत्थं पुरुषस्यावस्थानां च व्यवस्था विशेष्य असाधारणेन लक्षणेनावधृत्य व्याख्या व्यवस्था, तस्या अभावः स्वरूपसिद्धरभावात् । मा भूदेष दोषः 'पुरुषस्यावस्थानां च व्यवस्थाया अभावः' इति यदि पूर्वोक्तवद् व्यवस्था पृथक् पृथग् मन्यसे पुरुषस्यापि सर्वावस्थाव्यापिनोऽवस्थानां च चैतन्यसमवस्थानाविर्भावतिरोभावोत्कर्षापकर्षभेदभिन्नानां प्राग्व्याख्यात-25 सृष्टिवत् ततश्च उक्तवद् वा व्यवस्थानुमतौ सत्यां पुरुषातिदेशस्त्याज्यः, 'पुरुष एवेदं सर्वम्' इत्येकपुरुषमयत्वातिसर्गस्त्यक्तव्यो जायते पृथक् पृथक् पुरुषस्यावस्थानां च स्वरूपव्यवस्थाभ्युपगमे पुरुषैककारण
१ दृश्यतां पृ० २०२-१॥ २ दृश्यता पृ० २५४ पं० २॥ ३ प्राप्तमित्थ प्र०॥ ४ तत्स्वात्मप्राप्तिस्तयोरेतत्स्वात्मप्राप्तिः प्र० ॥ ५'त्मत्ववदिति भा० ॥ ६ 'पुरुषावस्थाऽव्यवस्था, इत्थं' इत्यपि पाठोऽत्र स्यात् ॥ ७ दृश्यतां पृ० १८९५०५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org