________________
२५४
न्यायागमानुसारिणीवृत्त्यलङ्कृतम् [तृतीये विध्युभयारे पगमेऽपि नुः अवस्थानां चतसृणामप्यैक्यं स्यात् पुरुषखात्मत्वात् पुरुषवदिति। सर्वत्वसम्भाव्याभावात् सर्वाव्यापिता पुरुषस्य । विनिद्रावस्थैव हि जाग्रदवस्था विनिद्रावस्थावात्मत्वाद् विनिद्रावस्थावत्, एवमितरे अपि । जाग्रदवस्थैव विनिद्रावस्था जाग्रदवस्थावात्मत्वाजाग्रदवस्थावत्, एवमितरे अपि । सुप्तावस्थैव विनिद्रावस्था 5 सुप्तावस्थावात्मत्वात् सुप्तावस्थावत्, एवमितरे अपि । सुषुप्तावस्थैव विनिद्रावस्था सुषुप्तावस्थावात्मत्वात् सुषुप्तावस्थावत्, एवमितरे अपि । यैवान्यावस्था सैवान्यापि
इति व्याख्ययोर्भेद इत्यसन् पुरुषोऽनवस्थत्वात् खपुष्पवत् । अनवस्थस्य तस्य अभ्युपगमेऽपि नुः पुरुषस्य अवस्थानां चतसृणामप्यैक्यं स्यात् । कुतः ? पुरुषस्वात्मत्वात् , त्वया युक्तं 'पुरुषस्वात्मैवावस्था नान्याः' इत्यतस्तासामैक्यं तत्स्वात्मत्वात् पुरुषवत् , यथा हि पुरुषस्वात्मत्वात् पुरुष एक एव 10 तथा ता अप्यवस्थास्तत्स्वात्मत्वादेकमिति चतुष्वाभावात् 'चतस्रोऽवस्थाः' इति बहुवचनानुपपत्तिः । ततश्चैकत्वात् सर्वत्वेन सर्वथा सम्भाव्यो न भवति पुरुषः, स गतौ [पा० धा० ९३५, १०९५] इति सर्वत्वस्यानेकाश्रयत्वात् 'पुरुष एव सर्वम्' इति यदाश्रयादुच्यते तत् सर्वं किमाश्रयं यदुक्त्वा सर्वं पुरुषस्य सर्वव्यापिता वर्ण्यते ? तत आह-सर्वत्वसम्भाव्याभावात् सर्वाव्यापिता पुरुषस्य प्राप्ता व्याचिख्यासितसर्वव्यापित्वविरोधिनी । 15 तत् पुनरेकत्वं विनिद्रावस्थास्वात्मत्वात् तासाम् , पुरुषस्वात्मत्वात् परस्परात्मकत्वं च सिद्धम् । तदिदानीं भाव्यते -विनिद्रावस्थैव हि जाग्रदवस्था, विनिद्रावस्थास्वात्मत्वात् , विनिद्रा
वस्थावत् । यथा विनिद्रावस्था विनिद्रावस्थास्वात्मत्वाद् विनिद्रावस्थैव तथा जाग्रदवस्थापि विनिद्रावस्था१४४-१ स्वात्मत्वाद् विनिद्रावस्थैवेतीत्थं विनिद्रावस्थया सहैक्यं जाग्रदवस्थायाः । विनिद्रावस्थास्वात्मत्वं च सर्वा
वस्थानां पुरुषस्वात्मत्वात् त्वयैवाभ्युपगतम् । एवमितरे अपीति, विनिद्रावस्थैव सुप्तावस्था विनिद्रावस्था20 स्वात्मत्वाद् विनिद्रावस्थावत् , विनिद्रावस्थैव सुषुप्तावस्था विनिद्रावस्थास्वात्मत्वाद् विनिद्रावस्थावत् । तथा
जाग्रदवस्थैव विनिद्रावस्था जाग्रदवस्थास्वात्मत्वाज्जाग्रदवस्थावत् , अस्यापि पूर्ववद् व्याख्या । एवं जाग्रदवस्थया सहैक्यं विनिद्रावस्थाया व्याख्येयम् । एवमितरे अपीत्यतिदेशः, जाग्रदवस्थैव सुप्तावस्था जाग्रदवस्थास्वात्मत्वाजाग्रदवस्थावत् , जाग्रदवस्थैव सुषुप्तावस्था जाग्रदवस्थास्वात्मत्वाज्जाग्रदवस्थावत् । तथा सुप्तावस्थैव विनिद्रावस्था, सुप्तावस्थास्वात्मत्वात् , सुप्तावस्थावत् । एवमितरे 25 अपीत्यतिदेशः, "सुप्तावस्थैव जाग्रत्सुषुप्तावस्थे सुप्तावस्थास्वात्मत्वात् सुप्तावस्थावत् । तथा सुषुप्तावस्थैव विनिद्रावस्था, सुषुप्तावस्थास्वात्मत्वात् , सुषुप्तावस्थावत् । एवमितरे अपीत्यतिदेशः, सुषुप्तावस्थैव जाग्रत्सुप्तावस्थे सुषुप्तावस्थास्वात्मत्वात् सुषुप्तावस्थावत् । एवमवस्थानां प्रत्येकं विशेष्य परस्परत ऐक्यं भावितम् , सामान्येनापि सर्वोपसंहारेणोच्यते - यैवान्यावस्था सैवान्यापि एकस्वात्मत्वात् सेवेति ।
१ पुरुषोवस्थात्वात् प्र० ॥ २ तुः प्र० ॥ ३ चतुष्काभा य० ॥ ४ सर्ववा प्र०॥ ५ सर्वत्रस य० ॥ ६ * *एतच्चिह्नान्तर्गतः पाठो य० प्रतिषु नास्ति ॥ ७ एवमेवमव य० ॥ ८ ये चान्या भा० २० ही० विना ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org