________________
पुरुषस्य एकत्वान्यत्वाभ्यामवाच्यत्वनिरासः ] द्वादशारं नयचक्रम्
२५३
स्यात्, विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यवचनीयत्वात्, खपुष्पवत् । न तदेकं नान्यद्वा वाच्यं निरुपाख्यत्वात् । यत्तु सत् तद् विनिद्रावस्थया सहकत्वान्यत्वे प्रति वचनीयम्, यथा विनिद्रावस्थास्वात्मा जाग्रदाद्यवस्थास्वात्मानो वा । अत एव अन्यतरत्यागोपादानायुक्तत्वादपि च ननूभययुक्तत्ववाच्यत्वाभ्युपगम एव पितृपुत्रवत् ।
5
यद्यपि च पुरुषस्वात्मैव अवस्था न तर्हि ना, अनवस्थत्वात्; खपुष्पवत् । अभ्यु
स्यामपि कल्पनायां स पुरुषोऽसन्नेव, कस्मात् ? विनिद्रावस्थया सहैकत्वान्यत्वे प्रत्यवचनीयत्वात् खपुष्पवत्, 'विनिद्रालक्षणः पुरुषो न विनिद्रालक्षणो वा' इत्येते द्वे अन्यत्वानन्यत्वे प्रति अवचनीयत्वादसन् पुरुषः । न तदेकं नान्यद् वा वाच्यं खपुष्पं विनिद्रावस्थया सह, किं कारणम् ? 'एकम्' इति ताववाच्यमसत्त्वात्, 'अन्यत्' इत्यप्यवाच्यमविनिद्रावस्थात्वे सत्यप्यसत्त्वे निरुपाख्यत्वाद् वाग्बुद्धि - 10 गोचरातिक्रान्तत्वादिति खपुष्पे दृष्टान्ते हेतोः साध्येनाविनाभावित्वप्रदर्शनम् । यत्तु सत् तद् विनिद्रास्थयेत्यादि वैधर्म्यदृष्टान्तः साध्याभावे हेत्वभावोपप्रदर्शनम्, मा संस्था : 'अस्मदिष्ट समुदय्यवस्थास्वात्मनि १८३-२ सति अवचनीयताया दर्शनादनैकान्तिकता' इति विनिद्रावस्थास्वात्मानं जायदाद्यवस्थास्वात्मनश्च निदर्शयति अन्यानन्यत्वे प्रति वचनीयत्वात् - यथा विनिद्रावस्था स्वात्मनो विनिद्रावस्थातोऽनन्या जाग्रदवस्था - दिस्वात्मभ्योऽन्या, तथा ता अपि तस्या अन्याः स्वात्मभ्योऽनन्याः सत्यश्च न तथा पुरुषः, तस्मादसन्निति । 15
किञ्चान्यत्, अत एव त्वदभिहितात् कारणादन्यतरत्या गोपादानायुक्तत्वादपि च ननूभययुक्तत्ववाच्यत्वाभ्युपगम एव पितृपुत्रवत्, यथैकः पिता पुत्रश्चावैश्यं नासौ स्वपितुः पुत्रत्वमन्तरेण पुत्रं प्रति पितृत्वमनुभवतीति न पुत्रत्वं त्यजति नापि पुत्रत्वमेवोपादत्ते नापि पितृत्वमेव, ततोऽसौ पिता च पुत्रश्चेति वक्तव्यस्तहूयधर्मयुक्तश्च दृष्टस्तथा स पुरुषो विनिद्रालक्षणालक्षणान्यतरत्या गोपादानायुक्तत्वादेव तल्लक्षणा तल्लक्षणधर्मद्वययुक्तस्तद्धर्मद्वयवाच्यश्चावश्यं भवितुमर्हति तदन्यतरत्यागोपादानायुक्तत्वस्य तदविना - 20 भावात् । एवं तावत् 'पुरुष एव अवस्था:' इत्येतदयुक्तम्, अवस्थानामभावेऽनेकदोषप्रसङ्गात् ।
अभ्युपेत्यापि पुरुषस्वात्मत्वमवस्थानां चतसृणां पुरुषासत्त्वदोषं ब्रूमः - यद्यपि चेत्यादि । यद्य च पुरुषस्वात्मैव चतस्रोऽप्यवस्थास्तथापि न तर्हि ना, नेदानीं पुरुषोऽस्ति, अनवस्थत्वात्, नास्या - वस्थाः सन्तीत्यनवस्थः, तद्भावोऽनवस्थत्वम्, तस्मादनवस्थत्वादवस्था स्वरूपव्यतिरिक्तत्वात् तच्छून्यत्वात् खपुष्पवत् । अथवा नावस्थाऽनवस्था, पुरुषोऽवस्था न भवति, योऽवस्था न भवति स नास्ति यथा 25 खपुष्पम्, अवस्थाश्च त्वयाभ्युपगताश्चतुरवस्था वर्णनानेकात्मक सर्वगतत्वभावनैकैकावस्थाभेदाभेदापत्त्यात्मका - १८४-१ विकल्परूपाभ्युपगमात् ततोऽन्यस्य खपुष्पस्थानीयत्वात् । प्रागवस्थानामेव सत्त्वमभ्युपगम्य 'अनवस्थात्वेऽचतुरात्मकत्वात्' इत्युक्तम्, अधुना तु पुरुषमेवाभ्युपगम्यानवस्थात्मकं परपरिकल्पितमेष दोष उक्त
१ दृश्यतां पृ० २०१-२ ॥ २ पितृत्रपुत्र भा० । पितृप्रपुत्र पा० वि० रं० ही ० ॥ ३ वश्यमासौ प्र० ॥ ४ खंभा० ॥ ५ एकैकावस्थाभेदानामभेदापत्यात्मकस्य अविकल्परूपस्याभ्युपगमादित्यर्थः ॥ ६ दृश्यतां पृ० २५२ पं० १ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org