________________
२५२
न्यायागमानुसारिणीवृत्त्यलङ्कृतम्
[ तृतीये विध्युभयारे
रूपे मेकात्मके भवतः । असन्नेव त्वसावेवम्, अनवस्थात्वेऽचतुरात्मकत्वात्, वपुष्पवत् । त्वदुक्तेरेव च न स लक्ष्यो नार्थो न वस्तु, अलक्षणत्वात्, खपुष्पवत् । अथात इतश्चान्यतरोपादानपरित्यागायुक्तत्वादस्यावाच्यतैव । तथा स नैव
'यात्मिका 'तत् पुरुषतत्त्वमेकमविकल्पम्' इत्यविकल्पता स्यात् ? भिन्नविकल्पैकापत्त्यात्मैकत्वादविकल्प5 रूपतायाः सा वाऽविकल्परूपता कुतः ? नास्त्येवेत्यर्थः । को दृष्टान्तः ? पृथक् पृथगवृत्तसितासितादिवर्णै१८२-२ क्यापत्त्यात्मकमेचकवर्णाभाववत्, पृथक्सिद्धवर्णाभावे मेचकवर्णाभावात् । तद्दर्शयति - न हि पृथगवृत्ते रूपे द्वे अपि सितासिते स्वेन रूपेण मेचके भवतः, भेदात्मलाभाविना भाव्ये कापत्त्यभावात् । एवमवस्था अपि पृथक् स्वरूपेणासिद्धा निर्विकल्पैकरूपा न भवितुमर्हन्तीति । एवं तावदवस्थानामभावे चतुरवस्थावर्णनानेकात्मकसर्वगतत्वभावननिर्विकल्परूपत्वाभावदोषाः ।
10 किं वा पार्श्वशरक्षेपेण भयजननानुवृत्त्या ? तमेव पुरुषं निराकुर्महे, तद्यथा - असन्नेव त्वसौ एवमवस्थानामसत्त्वे, कुतः ? अनवस्थात्वादवस्थातोऽन्यत्वादनवस्थात्मकत्वादवस्थात्वाभावात् पुरुषो वन्ध्यापुत्रवत् । स्यान्मतम् - रूपाद्यवस्थाऽनात्मकस्य घटस्य अवस्थावतोsस्तित्ववत् सुप्ताद्यवस्थाऽनात्मकस्य सुप्तादिचतुरवस्थावतः पुरुषस्यास्तित्वमिति एतच्चायुक्तम्, अनवस्थात्वे सति अचतुरात्मकत्वात् । अवस्थाचतुष्टयाभावादेवानवस्थात्मनस्तच्चातुरात्म्याभावः सिद्धः । तस्मादनैकान्तिकाशङ्कानिवृत्त्यर्थमाह – अनवस्थात्वेऽ15 चतुरात्मकत्वादिति । खपुष्पवदिति दृष्टान्तो गतार्थः । अथवा किमनेन प्रयासेन उपपत्त्यन्तरैस्तदसत्त्वप्रतिपादनेन ? ननु त्वदुक्तेरेव च न स लक्ष्यस्त्वत्परिकल्पितः पुरुषो नासौ लक्ष्यः, अलक्षणत्वात् । अलक्ष्यत्वमिष्टत्वादसाध्यमिति चेत्, लक्ष्यत्वनिराकृतेरर्थनिराकरणार्थत्वाद् नार्थ इति ब्रूमः, अर्थोऽपि अर्यते इत्यलक्षणत्वाच्छब्दाभिधेयो ज्ञानज्ञेयो वा नेति विनिद्रावस्थाऽविनिद्रावस्था वा स्याद् न स पुरुष - १८३-१ स्तल्लक्षणस्तदुभयाभावात् । निर्विकल्पत्वादेवार्थोऽपि नैवेति चेत्, 'निर्विकल्पज्ञानवद् वस्तुत्वमपि न भवति' 20 इत्येतत्प्रतिपादनार्थत्वादिदमेव गृहाण - अवस्त्वेव तत् त्वदिष्टं तत्त्वमलक्षणत्वात् खपुष्पवत् ।
अथात इत्यादि यावदस्यावाच्यतैवेति । अथाचक्षीथाः - अत इति पुरुषत इतश्चेत्यस्थातः अन्यतरस्य पुरुषस्यावस्थानां वा परित्यागैकान्तो न युक्तः, अवस्थात्यागे लक्षणाभावात् पुरुषाभावप्रसङ्गात्, अवस्थावतः पुरुषस्य वा त्यागेऽवस्थानामभावप्रसङ्गात् । न चैकतरस्योपादानं युक्तम्, उपादीयमानस्येतराभावेऽभावप्रसङ्गादेव अवस्थावस्थावद्वर्णननिर्विकल्पत्य सर्वगतत्वाभावप्रसङ्गात् प्रतिज्ञाव्याघाताच्च । तस्मादन्य25 तरोपादान परित्यागायुक्तत्वादस्य पुरुषस्यावस्थालक्षणत्वमवस्था सत्त्वं वा न शक्यं वक्तुम् । किं तर्हि ? तल्लक्षणत्वातल्लक्षणत्वाभ्यामवाच्यः स पुरुष इति । एतच्चायुक्तम्, यस्मात् तथा स नैव स्यात्, एत
१ दृश्यतां पृ० २०१-२ ॥ ५ स्तत्परि ० ॥ ६ अर्थत य० । वा विनिद्रा भा० ॥ ११ अवस्थावद्वर्ण ० ॥
२त्मिकत्वा प्र० ॥ ३ भाव्यैका (क्या?) पत्त्य प्र० ॥ ४ मर्हतीति प्र० ॥ इत्वरलक्षण य० । अर्थत इतारलक्षण भा० ॥
९ पुरुष इतवें प्र० ॥ १३ तल्लक्षणत्वाभ्याम प्र० ॥
७ वा निति विनिद्रा १० वस्थात्यः भा० ॥ १४ तत्वा प्र० ॥
Jain Education International
८ मक्षण प्र० ॥ १२ स्थासत्वं भा० ॥
For Private & Personal Use Only
www.jainelibrary.org